________________ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिते मध्यमवृत्त्यवचूरिभ्यामलङ्कृते . ____ अ० रश्च वश्च au तयोर्वोः / 'हुर्छा कौटिल्ये' हुर्छ ‘हुर्छा मुर्छा मोहसमुच्छ्ययोः' मुर्छ / हूर्छनं हू / मूर्च्छन मूर्छा 'क्तेटो गुरोर्व्यञ्जनात्' (5 / 3 / 106) इति अप्रत्ययः ‘आत्' (2 / 4 / 18) | ‘स्तृग्श् आच्छादने' आस्तीर्यते स्म इति आस्तीर्णम् / क्तः / 'ऋतां विडतीर्' (4 / 4 / 116) / 'ऋल्वादेरेषां तो नोऽप्रः' (4 / 2 / 68) इति तस्य नत्वम् / / पूर्त्तमित्यत्र 'पृश् पालनपूरणयोः' क्तः / 'ओष्ठ्यादुर्' / (4|4|117) उर् आदेशः / / चिकीर्षति / कृ / कर्तुमिच्छति / 'तुमर्हादि०' (3 / 4 / 21) इति सन् / 'सन्यङश्च' (4 / 1 / 3) द्वित्वम् 'ऋतोऽत्' (4 / 1 / 38) ऋकारस्य अकारः / 'कङश्चञ्' (4 / 1 / 46) / 'सन्यस्य' (4 / 1 / 59) इकारः / ‘स्वरहनगमोः सनि थुटि' (4 / 1 / 104) इति कृ इत्यस्य दीर्घः कृ / 'ऋतां विडतीर्' (4 / 4 / 116) / इर् / भ्वादेर्नामीति कीर् / / स्म ते 'क्यः शिति' (3 / 4 / 70) 'क्ययङाशीर्ये' (4 / 3 / 10) गुणः / भूयते भव्यम् / ‘य एच्चातः' (5 / 1 / 28) यप्रत्ययः // 63 / / पदान्ते // 2 // 1164 // पदान्ते वर्तमानयोर्ध्वादिसम्बन्धिनो रेफवकारयोः परयोस्तस्यैव भ्वादेर्नामिनो दीर्घः स्यात् / गीः / गीाम् / गीरऽर्थः / धूः / धूर्मान् / आशीः / आशीर्भिः / सजूः / सजूःषु / पिपठीः / पदान्त इति किम् ? गिरौ / गिरः / लुवौ // 6 // अ० आशीः / 'आङः शासूकि इच्छायाम्' आशास् / आशासनम् आशीः 'कुत्सम्पदादिभ्यः किप्' (5 / 3 / 114) 'आङः' (4 / 4 / 120) इति सूत्रेण शासः शिस् / सिलोपः / 'सो रु:' (2 / 1 / 72) ‘पदान्ते' (2 / 1 / 64) दीर्घः / शीर् // 6 // न यि तद्धिते // 2 // 16 // यकारादौ तद्धिते परे यो रेफवकारी तयोः परयो मिनो दी| न स्यात् / धुर्यः / गिर्यः / यीति किम् ? गीर्वत् / तद्धित इति किम् ? गीर्यति / गीर्यते / क्ये-कीर्यते / गीर्यते / इह कस्मान स्यात् ? पुर्याम् / गिर्योः / बहिरङ्गलक्षणस्य यत्वस्यासिद्धत्वेन व्यञ्जनस्याभावात् // 65 // , अ० धुरं वहति धुर्यः / 'धुरो यैयण' (7 / 1 / 3) इति यः / गिरि साधुगिर्यः / 'तत्र साधौ' (7 / 1 / 15) इति यः / / गिर्यः / धुर्यः / इत्यस्याग्रे वकारान्तो धातु म्युपान्त्यस्तद्धिते न सम्भवति इति नोदाहृदतम् / / गीरिव गीर्वत् / ‘स्यादेरिव' (7 / 1 / 52) इतिवत् / / गिरमिच्छति गीर्यति / 'अमाव्ययात् क्यन् च' (3 / 4 / 23) इति क्यन् / गीरिवाचरति गीर्यते / क्यङ् / / इह कस्मादित्यादि-इह कोऽर्थः ? पूर्याम् गिर्योरित्यत्र ‘‘भ्वादेर्नामिनो०' (2 / 1 / 63) इति पूर्वसूत्रेण दीर्घः कथं न भवतीत्याह-बहिरङ्गेति / पुर्याम्-पुरी / सप्तमीङि, 'स्त्रीदूतः' (1 / 4 / 29) इति दाम् / 'इवर्णादे०' (1 / 2 / 21) यत्वम् / गिरि ओस् / यत्वम् // 65 // कुरुच्छुरः // 2 // 1 // 66 // कुरुच्छुरोः सम्बन्धिनोः नामिनो रेफे परे दी| न स्यात् / कुर्यात् / कुर्वः / कुर्मः / छुर्यते / कुर्वित्युकारः किम् ? 'कुरत् शब्दे' कुर्यात् // 66 // ____ अ० कुर्यात् / कुर्वः / कुर्मः / कृधातुः / सप्तमीयात् / वर्तमानउत्तमपुरुष वस् मस् / ‘कृगतनादेरुः' (3 / 4 / 83) इति कृगः परत उः / 'नामिनो गुणो' (4 / 3 / 1) इति गुणः / कर् / 'अतः शित्युत्' (4 / 2 / 89) कुर् / 'कृगो