________________ 83 श्रीसिद्धहेमशब्दानुशासने द्वितीयाध्यायस्य प्रथमः पादः वृषणवान्-अत्र क्तादेशस्य नत्वस्य सत्त्वात् 'यजसृज.' (2 / 1187) इत्यादिना धुनिमित्तश्वकारस्य षकारो न भवति / कत्वे तु असत्त्वात् कत्वं भवत्येव // 61 // अ० क्षामिमानिति / 'मैं मैं मैं क्षये' 'आत्सन्ध्यक्षरस्य' (4 / 2 / 1) इति आकारः / क्षायति स्म 'गत्यर्थाकर्मकपिबभुजेः' (5 / 1 / 11) इति सूत्रेण क्तप्रत्ययः / कोऽप्रयोगीत् / 'क्षैशुषिपचो मकवम्' (4 / 2 / 78) इत्यनेन तकारस्य मकारादेशः / क्षामशब्दः / क्षामस्यापत्यं क्षामिः / 'अत इञ्' (6 / 1 / 31) इति सूत्रेण इञ् / क्षामिरस्यास्तीति 'तदस्यास्त्यस्मिन्निति मतुः' (7 / 2 / 1) अथवा क्षामोऽस्यास्तीति ‘अतोऽनेकस्वरात्' (7 / 2 / 6) इति इन् / ततः क्षाम्यत्रास्तीति 'तदस्यास्त्यस्मिन्निति मतुः' / अत्र तकारस्थाने मकारोऽसन् / असत्त्वात् 'मावर्णान्तोपान्ताऽपश्चम०' (2 / 1 / 94) इत्यनेन मतोर्मकारस्य वकारो न जातः / सिः / 'ऋदुदितः' (1 / 4 / 70) इति नोऽन्तः / ‘अभ्वादेरत्वसः सौ' (1 / 4 / 90) दीर्घः / 'दीर्घड्याब्०' (1 / 4 / 45) सिलोपः / ‘पदस्य' (2 / 1 / 89) // लू पू धातुः / लवनं लूनिः। पवनं पूनि / 'स्त्रियां क्तिः' (5 / 3 / 91) 'ऋल्वादेरेषां तो नोऽप्रः' (4 / 2 / 68) इति तकारस्य नकारः / पञ्चमीङसि ङस् वा / 'इवर्णादे०' (1 / 2 / 21) यकारः / नकारोऽत्रासन् असत्त्वात् 'खितिखीतीय उर्' (1 / 4 / 36) इति उर् / लून्युः / पून्युः ॥वृषणः-व्रस्च ‘सस्य शषौ' (1 / 3 / 61) इति दन्त्यसस्य तालव्यशः व्रश्च / वृश्च्यते स्म। 'क्तक्तवतू' (5 / 1 / 174) / ‘ग्रहव्रश्चभ्रस्जप्रच्छः' (4 / 1 / 84) इति वृत् / ‘सूयत्याद्योदितः' (4 / 2 / 70) इत्यनेन तकारस्य नकारः / 'संयोगस्यादौ स्कोर्लुक्' (2 / 1 / 88) इति शकारस्य लोपः / पश्चात् तकारस्य नकारः क्रियते / 'यजसृजमृजराज' (2 / 1 / 87) इत्यादिना चकारस्य षकारः प्राप्नोति / अषीति किम् इति व्यावृत्तिबलान भवति / षकारे कर्त्तव्ये नकारः सन्नेव स्यात् / वृक्ण इत्यत्र कत्वे कर्त्तव्ये सति नकारस्यासत्त्वात् 'चजः कगम्' (2 / 1 / 86) इत्यनेन कत्वं भवत्येव वृक्ण इति सिद्धम् // 61 / / . षढोः कः सि // 2 // 1 // 62 // षकारढकारयोः स्थाने सकारे परे क इत्यादेशः स्यात् / [पिष्] पेक्ष्यति / पिपिक्षति / [दृश्] अद्राक्षीत् / ढ / लिह] लेक्ष्यति / [वह ] वक्ष्यति / सीति किम् ? पिनष्टि // 62 // _ अ० पिष् / पेष्टुमिच्छति पिपिक्षति / सन् / द्वित्वं इत्यादि / / अद्राक्षीत्-अत्र दृश्धातुः / अद्यतनीदि / 'सिज़द्यतन्याम्' (3 / 4 / 53) सिच् / 'अधातोरादि०' (4 / 4 / 29) अट् / 'सः सिजस्तेर्दिस्योः ' (4 / 3 / 65) इति सिच ईकारः / 'अः सृजिदृशोऽकिति' (4 / 4 / 111) दृश्विचाले अकारः / 'व्यञ्जनानामनिटि' (4 / 3 / 45) इति वृद्धिः / आ / 'यजसृज०' (2 / 1 / 87) इति धातुशकारस्य षकारः / ‘षढोः कः सि' (2 / 1 / 62) इति षस्य कः / 'नाम्यन्तस्था०' (2 / 3 / 15) इति सिचः सस्य षत्वम् / / लेक्ष्यति वक्ष्यति-अत्र ‘हो धुट पदान्ते' (2 / 1 / 82) इत्यनेन हकारस्य ढकारः / / 62 / / . भ्वादेर्नामिनो दी| र्वोwञ्जने // 2 // 1 // 63 // भ्वादेर्धातो? रेफवकारौ तयोः परयोस्तस्यैव भ्वादेर्नामिनो दीर्घः स्यात्, व्यञ्जने-ताभ्यां चेत्परं व्यञ्जनं स्यात् / हूर्छा मूर्छा / मूर्छिता / आस्तीर्णम् / पूर्तम् / कूईते / चिकीर्षति / दीव्यति / सीव्यति / भ्वादेरिति किम् ? चतुर्भिः / कुकुरीयति / नामिन इति किम् ? स्मर्यते / भव्यम् / व्यञ्जन इति किम् ? विकिरति // 63 //