________________ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिते मध्यमवृत्त्यवचूरिभ्यामलङ्कृते दृन्पुनर्वर्षाकारैर्भुवः // 2 // 1159 // दृन्-पुनर्-वर्षा-कार इत्येतैः सह या किवृत्तिस्तत्सम्बन्धिनो भुवो धातोरुवर्णस्य स्वरादौ स्यादौ प्रत्यये परे वकारादेशः स्यात् / दृन्भ्वौ / दृन्भ्वः / पुनौं / वर्षाभ्वः / कारभ्वः / दृनादिभिरिति किम् ? स्वयम्भुवौ। प्रतिभुवः / मित्रभुवः / आत्मभुवः / पूर्वेणैव सिद्ध नियमार्थमिदम् / एतैरेव भुवो नान्यैरिति // 59 // अ० दृन् हिंसन् भवतो भवन्तीति / दृन्भूः सविषः कीटकविशेष उच्यते / पुनर्भूः पुनरूढा स्त्री ओषधिश्च / वर्षाभूः साटडीनाम ओषधिविशेषो दर्दुरो वा / कारे कारेण वा भवन्तति कारभ्वः / करभ्वौ करभ्व इत्यन्ये / स्वयम्भवत इति स्वयम्भुवौ / प्रतिभवन्तीति प्रतिभुवः / मित्राद्भवन्तीति मित्रभुवः / आत्मना भवन्तीति आत्मभुवः / दृन्भ्व इत्यादि आत्मभुव इति पर्यन्तेषु 'दिद्युद्ददृज्जग०' (5 / 2 / 83) इत्यादिना क्विप् / अथवा 'क्विप्' (5 / 1 / 148) इति क्विप् // 19 // णषमसत्परे स्यादिविधौ च // 2 // 16 // इतः सूत्रादारभ्य यत् परं कार्यं विधास्यते तस्मिन् पूर्वस्मिंश्च स्याद्यधिकारविहिते विधौ कर्तव्ये सति णत्वं षत्वं चासदसिद्धं स्यात् / एतत्सूत्रनिर्दिष्टयोश्च णत्वषत्वयोः परे षत्वे णत्वमसद्रष्टव्यम् / णषशास्त्रं वा परे स्यादिविधौ च शास्त्रे प्रवर्तमानेऽसत् ज्ञातव्यम् / पूष्णः / तक्ष्णः / अत्र णत्वस्यासत्त्वादनोऽकारलोपः। पिपठीः, अत्र षत्वस्यासत्त्वात्सकारस्य रुः स्यात् / स्यादिविधौ च-अर्वाणी, सपौषि / अत्र णत्वषत्वयोरसत्त्वादुपान्त्यदीर्घत्वं सिद्धम् / असत्पर इत्यधिकारो 'रात्सः' (2 / 1190) इति यावत् / स्यादिविधौ चेति तु 'नोादिभ्यः' (2 / 1199) इति यावत् // 60 // अ० ‘समर्थः पदविधिः' (7 / 4 / 122) इति तद्धितान्तसूत्रं यावत् / इतः सूत्रात्पूर्व 'नि दीर्घ 0' (1 / 4 / 85) इत्यादि विधिः / पूर्वस्मिंश्चापि स्यादिविधौ कर्तव्ये सतीति योगः कर्तव्यः / पूषन् / तक्षन् / शस् / ङसि डस् वा / 'रघुवर्णान्नोण एकपदे०' (2 / 3 / 63) इत्यनेन नस्य णत्वम् / ततो ‘णषमसत्परे०' (2 / 1 / 60) इति सूत्रेण णकारोऽसन् स्यात् / असत्त्वे सति ‘अनोऽस्य' (2 / 1 / 108) इति सूत्रेण अनोऽकारस्य लोपः सिद्धः / / पिपठीः / पठ् / पठितुमिच्छति / 'तुमर्हादिच्छायां०' (3 / 4 / 21) इति सन् / 'सन्यङश्च' (4 / 1 / 3) इति द्वित्वम् / 'सन्यस्य' (4 / 1 / 59) इति अभ्यासे इकारः / स्याद्यशितोऽत्रोणादेरिट' (4 / 4 / 32) इति इडागमः / पिपठिषतीति क्विप् / 'अतः' (4 / 3 / 82) इति सनोऽकारलोपः / 'अप्रयोगीत्' (1 / 1 / 37) क्विप् लुप्यते 'नाम्यन्तस्था०' (2 / 3 / 15) इति सकारस्य षकारः / सिः / 'दीर्घड्याब्०' (1 / 4 / 45) इति सिलोपः / ‘णषमस०' इति सूत्रेण षत्वम् / असन् / असत्त्वे सति ‘सो रुः' (2 / 1 / 72) इति रकारः / ‘पदान्ते' (2 / 1 / 64) इति सूत्रेण इटो इकारस्य दीर्घः / 'र: पदान्ते' (1 / 3 / 53) / विसर्गः // अर्वाणावित्यत्र ‘नि दीर्घः' (1 / 4 / 85) इति दीर्घः / सपीषि अत्र 'न्स्महतोः' (1 / 4 / 86) इत्यनेन उपान्त्यदीर्घः सिद्धः / / 60 // तादेशोऽपि // 2 // 16 // ककारेणोपलक्षितस्य तकारस्य स्थाने य आदेशः स पकारादन्यस्मिन्परे कार्ये स्यादिविधौ च कर्तव्येऽसन् स्यात् / क्षामिमान्-अत्र 'क्षैशुषिपचो मकवम्' (4 / 2 / 78) इति क्तादेशस्य मस्यासत्त्वात् मस्य वकारो न स्यात् / स्यादिविधौ च-लून्युः पून्युः अत्र क्तादेशनत्वस्यासत्त्वात्त्याश्रित उर् स्यात् / अषीति किम् ? वृषणः।