________________ श्रीसिद्धहेमशब्दानुशासने द्वितीयाध्यायस्य प्रथमः पादः स्त्रियाः // 2 // 1 // 54 // स्त्रीशब्देवर्णस्य स्वरादौ प्रत्यये इयादेशः स्यात् / स्त्रियो। स्त्रियः / अतिस्त्रियौ नरौ / शस्त्रीशब्दस्याऽनर्थकत्वान्न स्यात् / प्रत्यय इत्येव-स्त्र्यर्थः / कथं अतिस्त्रयः [जस] / अतित्रिणा [टा] / अतिस्त्रये [3] / अतिस्त्रेः सि डस्] / अतिस्त्री [डि]' ? 'इदुतोऽस्ररीदूत्' (1 / 4 / 21) इत्यत्र स्त्रिशब्दवर्जनात् परोऽपीयादेशो बाध्यते / स्त्रीणामित्यत्र तु प्रागेव नाम् / एतच्च वेयुवोऽस्त्रियाः (14 / 30) इत्यत्रोक्तम् / पृथग्योग उत्तरार्थः // 54 // - अ० स्त्रिया इत्यत्र केवलस्त्रीशब्दस्यैव इयादेशः क्रियते / 'धातोरिवर्णोवर्णस्य.' (2 / 1 / 50) इति सूत्रे क्विबन्तस्य स्त्रीशब्दस्य (पुरुषवर्तिनः) इयादेशः / उभयत्र स्त्रियौ स्त्रियः इति रूपम् / / अतिस्त्रियः अतिस्त्रीन् नरान्-शसः प्रयोगो ज्ञेयः // 54 // वाऽम्शसि // 2 // 1 // 55 // स्त्रीसम्बन्धीवर्णस्याऽमि शसि च परे वा इय् स्यात् / [अम्] स्त्रियम् स्त्रीम् / [शस] स्त्रियः स्त्रीः / परमस्त्रियम् / परमस्त्रीम् / अतिस्त्रियम् / अतिस्त्रिं नरम् / क्यन्नाद्यन्तस्य च धातुत्वात् 'धातोरिवर्णोवर्ण०' (2 / 1150) इत्यनेन नित्यमिय् / स्त्रीमिच्छति स्त्रीवाचरति वा स्त्री ब्राह्मणः / तं स्त्रियम् / तान् स्त्रियः // 55 / / योऽनेकस्वरस्य // 2 // 1 // 56 // - धातोरित्यनुवर्तते / अनेकस्वरस्य धातोः सम्बन्धिन इवर्णस्य स्वरादौ प्रत्यये यकारादेशः स्यात् / चिच्युः। निन्युः / सखायमिच्छति क्यनि किपि' सखीशब्दः / सख्युः / एवं पतीशब्दः / पत्युः / सख्यि / पत्यि / अनेकस्वरस्येति किम् ? नियः / परमनियः (धातोरिवर्णो० (2 / 150) इति इय्) / “रिं पित् गती" रियति / पियति // 56 // स्यादौ वः // 2 // 1157 // अनेकस्वरधातुसम्बन्धिन उवर्णस्य स्वरादौ स्यादी प्रत्यये परे वकारादेशः स्यात् / वस्वौ / वस्वः // 57 // अः वस्वौ. / वस्वः / वसुझब्दः वसुमिच्छति / क्यन् / बसूयतीति क्विप् / 'य्वोः प्वय्व्यञ्जने लुक्' (4 / 4 / 121) इति यस्य लोपः / / 57 // किवृत्तेरसुधियस्तौ // 2 / 1158 // __किबन्तेनैव या वृत्तिः समासस्तस्या असुधियः-सुधीशब्दवर्जिताया धातोरिवर्णोवर्णस्थाने स्वरादी स्यादौ परे तो यकारवकारी स्याताम् / उन्न्यः / सुल्वः / ग्रामण्यः / सेनान्यः / किग्रहणादिह न स्यात् / परमनियः / स्याद्यन्तेनात्र विशेषणसमासो न तु किवन्तेन [समासः] / असुधिय इति किम् ? सुधियः / सुपूर्वस्यैव वर्जनादिह स्यादेव [यत्वं भवत्येव / / प्रध्यः / आध्यः // 58 // अ० उन्नयन्ति सुष्ठ लुनन्ति ग्रामं नयन्ति सेनां नयन्ति / क्विप् / जस् / एषु स्यादिविभक्तेरुत्पत्तेः प्रागेव किबन्तेन समासः / परमाश्च ते नियश्च परमनियः / पूर्वं नयन्तीति नियः इति कृत्वा, पश्चात्परमाश्च ते नियश्चेति / सुष्ठ दधति अथवा सुष्टु ध्यायन्तीति 'दिद्युद्ददृः' (5 / 2 / 83) इत्यादिना किप्, धीभावश्च / प्रध्यायन्तीति आध्यायन्तीति वा 'दिद्युद्ददृ०' विप्, धीभावश्च / / 8 / / 1. 'डिडौं' श४२५ इति अनेन सप्तम्येकवचनडि प्रत्ययस्य डौ आदेशः /