________________ . कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिते मध्यमवृत्त्यवचूरिभ्यामलते अदसो मात्परस्य वर्णमात्रस्य इनादेशात्प्राक् उवर्णः स्यात् / अन्वित्यस्याऽपवादोऽयम् [योगः] / अमुना पुंसा कुलेन वा / इनादिति किम् ? अमुया स्त्रिया // 48 // बहष्वेरीः // 2 // 1 // 49 // बहुष्वर्थे वर्तमानस्याऽदसो मात्परस्य एकारस्य स्थाने ईकारः स्यात् / अमी / अमीभिः / अमीभ्यः 2 / अमीषाम् / अमीषु / बहुष्विति किम् ? [औ] अमू कन्ये / कुले वा / एरिति किम् ? [शस्] अमूः कन्याः। अमून् नरान् // मादित्येव / अमुके / अमुकेभ्यः // 49 // धातोरिवर्णोवर्णस्येयु स्वरे प्रत्यये // 2 // 1 // 50 // __ धातुसम्बन्धिन इवर्णस्य उवर्णस्य स्थाने स्वरादौ प्रत्यये परे यथासङ्ख्यं इय् उव् आदेशौ भवतः / नियौ। नियः / लुवौ / लुवः / स्त्रियौ / स्त्रियः / अधीयते अधीयाते अधीयन्हें / लुलुवुः / धातोरिति किम् ? लक्ष्म्याः / प्रत्यये इति किम् ? न्यर्थः / नयनम्, नायकः, लवनम्, लावकः, इत्यादौ परत्वाद्गुणवृद्धी // 50 // . अ० अधीयते इत्यत्र ‘अनतोऽन्तोऽदात्मने' (4 / 2 / 114) इति सूत्रेण अन्तस्थानेऽत् इत्यादेशः / 'स्तृग्श् आच्छादने' स्तृ, स्तृणाति पुरुषगुणानाच्छादयतीति स्त्री 'स्त्री' (450) इत्युणादिसूत्रेण स्त्री इति निपातः / निपातनात् त्रप्रत्ययः डिच्च / ततो डीप्रत्ययः / अयं ईकारो धातुसम्बन्धी नहि / अतः कारणात् स्त्रियमिच्छतीति ‘अमाव्ययात् क्यन् च' (3 / 4 / 23) स्त्रीयतीति क्विप् / 'य्वोः प्व्यव्यञ्जने लुक्' (4 / 4 / 121) / क्यनो लोपः / एवं धातुसम्बन्धी ईकारः सम्भवति / तत इयादेशः स्त्रियौ स्त्रियः / 'लक्षीण् दर्शनाङ्कनयोः' लक्ष् / लक्षयति पश्यति भाग्यवन्तमिति लक्ष्मीः 'लक्षेर्मोऽन्तश्च' (715) इत्युणादिसूत्रेण ईप्रत्ययः / मोऽन्तः / लक्ष्मीः / नायं धातुसम्बन्धी ईकारः किन्तु प्रत्ययसम्बन्धी / नियोऽर्थो न्यर्थः / नीयते नयनम्, लूयते लवनम् / अनट् / नयत्यात्मना सह जनं इति नायकः / ‘णकतृचौ' (5 / 1 / 48) / लुनातीति लावकः / णकः / / 50 // . इणः // 2 // 1 // 51 // इणो धातोः स्वरादौ प्रत्यते परे इय् आदेशः स्यात् / यत्वाऽपवादः [योऽनेकस्वरस्य (2 / 1 / 56) इति प्राप्तस्य] / (द्वित्वे कृते पश्चात् इय्) ईयतुः / ईयुः / अयनम्, आयकः, अत्रापि परत्वाद्गुणवृद्धी एव // 51 // अ० ईयते अयनम् / एतीति आयकः ‘णकतृचौ' 'नामिनोऽकलिहलेः' (4 / 3 / 51) इति वृद्धिः / / 51 / / संयोगात् // 2 / 152 // धातोरिवर्णोवर्णस्य धातुसम्बन्धिन एव संयोगात्परस्य स्वरादौ प्रत्यये इयुवादेशौ य्वोरपवादौ स्याताम् / यवक्रियौ / कटपुवौ / शिश्रियुः / धातुना संयोगस्य विशेषणादिह न स्यात्-उन्न्यः / सकृल्ल्वः // 52 // ___ अ० उन्नयन्तीति उन्न्यः / 'क्किप्' (5 / 1 / 148) 'किवृत्तेः०' (2 / 1 / 58) इति यत्वम् / सकृल्लुनन्ति सकृल्लवः / 'क्विप्' 'क्विब्वृत्तेः०' इत्यनेन वत्त्वम् // 52 / / भ्रूश्नोः // 2 / 153 // भू-भु इत्येतयोरुवर्णस्य संयोगात्परस्य स्वरादौ प्रत्यये उवादेशः स्यात् / भ्रुवौ / भ्रवः / राध्नुवन्ति / संयोगादित्येव / सुन्वन्ति / चिन्वन्ति // 53 // अ० 'पुंग्ट्-अभिषवे' 'चिंग्ट् चयने' अन्ति / 'स्वादेः श्रुः' (3 / 4 / 75) // 53 //