________________ श्रीसिद्धहेमशब्दानुशासने द्वितीयाध्यायस्य प्रथमः पादः मोऽवर्णस्य // 2 // 1 // 45 // अवर्णान्तस्य अदसो दकारस्य मकार आदेशः स्यात्। [औ] अमू नरौ, स्त्रियौ, कुले वा। [जस् "बहुष्वेरीः" (2 / 1 / 49)]- अमी नराः / [जस्] अमूः स्त्रियः / [जस्] अमूनि कुलानि / [अम् ] अमुं नरम् / [अम् ] अमूं स्त्रियम् / [शस] अमूः स्त्रीः [शस] अमूनरान् / [औ] / अमुकौ नरौ अमुके स्त्रियौ कुले वा / अवर्णस्येति किम् ? अदः / [अमुमिच्छति] अदस्यति // 45 // वाऽद्रौ // 2 // 1 // 46 // अद्रावन्ते सत्यदसो दस्य मः वा स्यात् / अदमुयङ् / अमुग्रङ् / अमुमुयङ् / अदाङ् // “'परतः केचिदिच्छन्ति केचिदिच्छन्ति पूर्वतः / 'उभयोः केचिदिच्छन्ति केचिदिच्छन्ति नोभयोः" // 1 // 46 // ___ अ० वाद्रौ इत्यत्र वाशब्दो व्यवस्थितविभाषार्थो न विकल्पार्थः / तेन क्वापि कथञ्चिद्वाशब्दः प्रवर्तते / यदि तु वा विकल्पार्थः स्यात् तदा प्रथममेव प्रयोगद्वयं स्यात्, तावतैव विकल्पस्य चरितार्थत्वात् / अदमुयङ् इत्यादिअदस् / 'अञ्चू गतौ च' अञ्च् / अमुमश्चतीति क्विप् / 'सर्वादिविष्वग्देवाद्रिः क्व्यञ्चौ' (3 / 2 / 122) इति अदस् अञ्चेर्विचाले डदिः, 'डित्यन्त्यस्वरादेः' (2 / 1 / 114) 'अञ्चोऽनर्चायाम्' (4 / 2 / 46) इत्यञ्चेर्नस्य लोपः / सिः / 'दीर्घङयाब्०' (1 / 4 / 45) इति सेर्लोपः / 'अचः' (1 / 4 / 69) इति नोऽन्तः / ‘पदस्य' (2 / 1 / 89) इति चस्य लोपः / 'युजञ्चक्रुञ्चो नो ङ' (2 / 1 / 71) इति सूत्रेण नकारस्य ङ् आदेशः / अद्रेः इकारं विश्लिष्य ‘इवर्णादेरस्वे स्वरे यवरलम्' (1 / 2 / 21) इति यत्वम् / 'वाद्रौ' इति यथादर्शनं मकारः / 'मादुवर्णोऽनु' (2 / 1 / 47) इति मकारात्परस्य वर्णमात्रस्य उकारः / 'परतः केचिदिच्छन्ति इत्यस्योदाहरणं अदमुयङ् इति // 1 // केचिदिच्छन्ति पूर्वत इत्यस्योदाहरणं तु अमुग्रङ् इति // 2 / / 'उभयोः केचिदिच्छन्तीत्यस्य तु अमुमुयङ् इति / / 3 / / केचिदिच्छन्ति नोभयोः इत्यस्य तु अदाङ् इति // 4 // 46 / / मावर्णोऽनु // 2 // // 47 // - अदसः सम्बन्धिनो मकारात्परस्य वर्णमात्रस्य उपकन उवर्ण आदेशः स्यात् / अनु पश्चात्कार्यान्तरेभ्यः / द्विमात्रस्य द्विमात्रः [दीर्घः], त्रिमात्रस्य त्रिमात्रः [प्लुतः], अर्धमात्रिकस्य एकमात्रिकः / [व्यञ्जनाक्षरस्य उकार एकमात्रः] अमुम् अमू अमूः 3 इति / अमुमुयङ् [सिः] / अमुमुईचः [शस्] / अदमुईचः / [डसि डस् वा] / अदमुईचा [टा] / अन्विति किमर्थम् ? अमुष्मै / अमुष्मात् / अमुष्याम् / अमूषाम् / अमुया / अमुयोरित्यादिषु स्मैप्रभृतिकार्येषु कृतेषु पश्चादुवर्णो यथा स्यादित्येवमर्थम् // 47 // अ० अमुमुईचः इत्यादि / अदस् / 'अञ्चू गतौ च' / अञ्च् / अमुमश्चतीति क्विप् / 'सर्वादिविष्वग्देवाड्डद्रिः क्व्यञ्चौं' (3 / 2 / 122) इति अदस अञ्चेर्विचाले डद्रिः ‘डित्यन्त्यस्वरादेः' (2 / 1 / 114) / 'अञ्चोऽनर्चायाम्' (4 / 2 / 46) इति अञ्चतेर्नलोपः / शस् / ङसिर्वा / डस् वा / अद्रेरिकारं विश्लिष्य 'अच्च् प्राग्दीर्घश्च' (2 / 1 / 104) इति. सूत्रेण अच्स्थाने च् इत्यादेशः / पाश्चात्यइकारस्य दीर्घश्च / ई / 'वाद्रौ' (2 / 1146) इत्यनेन दकारद्वयस्य मकारः / 'मादुवर्णोऽनु' (2 / 1 / 47) इत्यनेन मकारात्परस्य वर्णमात्रस्य उकारः सर्वत्र / अमुमुईचः / अदमुईचः / अदमुईचा इत्युदाहरणत्रयेषु 'अदो मुमी (1 / 2 / 35) इति सूत्रेण सन्धिनिषेधः / / 47|| प्रागिनात् // 2 // 1 // 48 //