________________ 78 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिते मध्यमवृत्त्यवचूरिभ्यामलते परमत्यौ / स्त्रियाम्-स्या / त्ये / सा / ते / ताः / द्वे / क्लीबे / त्ये / त्यानि / तसादौ-ततः तत्र तदा तर्हि तथा / आद्वेरिति किम् ? भवान् // 41 // अ० तद् / तस्मात्ततः / 'किमद्वयादिसर्वाद्यवैपुल्यबहोः पित्तस्' (7 / 2 / 89) इत्यनेन तस् / तस्मिन् / तत्र / 'सप्तम्याः' (7 / 2 / 94) इति सूत्रेण त्रप् / तस्मिन् काले तदा / 'किंयत्तत्सर्वैकान्यात्काले दा' (7/2 / 95) तस्मिन्नद्यतनकाले तर्हि / 'अनद्यतने र्हिः' (7 / 2 / 101) / तेन प्रकारेण तथा 'प्रकारे था' (7 / 2 / 102) / एवं यतः यत्र यदा यथा // 41 // .तः सौ सः // 2 // 1 // 42 // आद्वेस्त्यदादिसम्बन्धिनि सौ परे तकारस्य स इत्यादेशः / त्यद्-स्यः / स्या। स्यकः / परमस्यः // तद्-सः / ती / ते / सा / सका। परमसः / एतद्-एषः / एषा / एषकः / परमैषः / हे स / हे परमेष। त्यदादिसम्बन्धिविज्ञानादिह न भवति-प्रियैतत्पुमान् / आद्वेरित्येव-भवति // 42 // . . . अ० परमश्चासौ स्यश्च / परमश्वासौ सश्च / प्रिय एष यस्य // 42 // - अदसो दः सेस्तु डौ // 2 // 1 // 43 // त्यदादिसम्बन्धिनि सौ परेऽदसो दकारस्य सकारः स्यात् सेस्तु डी इत्यादेशः / असो, असकौ / हे असौ हे असको / विद्वन् / स्त्रियाम्-असौ / असको / हे असौ / डिस्करणमन्त्यस्वरादिलोपार्थम् / तेन 'औता' (1 / 4 / 20) 'एदापः' (1 / 4 / 42) 'दीर्घङ्याब् ब्यञ्जनात्सेः' (1 / 4 / 45) 'अस्यायत्तत्क्षिपकादीनाम् (2 / 4 / 111) इति कार्याणि न भवन्ति / अन्यथा सेस्त्वीरित्येव क्रियेत // 43 // ___ अ० असाविति-अदस् / प्रधमासिः। ‘अदसो दः०' इति सूत्रेण सेः स्थाने डौ / दस्य सकारः / ‘डित्यन्त्यस्वरादेः' (2 / 1 / 114) इत्येव कार्यं न तु 'आद्वेरः' (2 / 1141) इति / प्रक्रियालाघवार्थं डित्करणस्य सर्वकार्यबाधकत्वेंन व्याख्यास्यमानत्वात् / तथा हे असौ इत्यत्र च डौ इति कृतेऽपि 'तदादेशस्तद्वत्' इति न्यायाय् सेः स्थानित्वेऽपि सति ‘अदेतः स्यमोर्लुक्' (1 / 4 / 44) इत्यस्य न प्रसङ्गः / स्यादेशत्वेनैवामो लुपि सिद्धायां यत् अम्ग्रहणं कृतं तदन्यस्यादेशस्य लुग्निवृत्त्यर्थम् इति ‘अदेतः स्यमो०' वृत्तिव्याख्यानात् / सेः स्थाने डौ इति बहुकार्यबाधनार्थ कृतम् / यदि च सेः स्थाने औ इति कुर्यात्तदा असौ अत्र स्त्रियां सेः औ इति कृते 'आद्वेरः' इति अकारे ‘आत्' (2 / 4 / 18) इत्यापि कृते ‘औता' इत्यनेन औकारेण सह आबन्तस्य एकारः प्राप्नोति / 1 / तथा सेः स्थाने औ इति कृते 'आद्वेरः' 'आप्' इति कृते 'तदादेशः' इति न्यायात्सेः स्थानिवद्भावात् आमन्त्र्यसिना सह 'एदापः' इत्यनेन एकार आबन्तस्य प्रसज्येत / 2 / तथाऽनामन्त्र्ये सौ च सत्यां स्थानिवत्त्वात् 'दीर्घड्याळ्यञ्जनात्सेः' इत्यनेन सेर्लोपः स्यात् / 3 / असकौ इत्यत्र तु अकि कृते 'अस्यायत्तत्क्षिपकादीनाम्' इत्यनेनाकोऽकारस्य इकारः प्राप्नुयात् / ततो अनिष्टानि रूपाणि भवेयुः / अतः सेः स्थाने डौ इति कृतम् / येन ‘औता' 'एदापः' इत्यादि सर्वकार्याणि बाध्यन्ते इति भावः // 43 // __ असुको वाऽकि // 2 // 1 // 44 // त्यदादिसम्बन्धिनि सौ परे अदसोऽकि सति असुक इति निपात्यते, वा / असुकः / पक्षे असकौ / हे असुक हे असकौ / स्त्रियाम्-असुका / [औ] असकौ // 44 //