________________ श्रीसिद्धहेमशब्दानुशासने द्वितीयाध्यायस्य प्रथमः पादः ___ अन्वादेश इति निवृत्तम् / पृथग्योगात् [पृथक्सूत्रकरणात्] / त्यदादिसम्बन्धिनि व्यञ्जनादौ स्यादौ परेऽग्वर्जित इदम् अत् स्यात् / आभ्याम् / एभिः आभिः / अस्मै अस्यै / अस्मात् अस्याः अस्य अस्याः / अस्मिन् भस्याम् / एषाम् आसाम् / एषु आसु / अनगिति किम् ? इमकाभ्याम् / इमकस्मै इमकस्यै / तत्सम्बन्धिविज्ञानादिह न स्यात् / प्रियेदंसु / इह तु स्यात्-परमाभ्याम् / परमैभिः / परमास्मै परमास्यै / परमास्मात् परमास्याः / अत्र पूर्वोत्तरयोः पदयोः पूर्वमत्कार्ये कृते पश्चात्सन्धिकार्य कार्यम् // 36 // अ० प्रियोऽयं येषां ते प्रियेदमः / तेषु प्रियेदंसु / परमौ च तौ इमौ च ताभ्याम् परमाश्च ते इमे च तैः परमैभिः / / 36 / / टौस्यनः // 2 // 1 // 37 // त्यदादिसम्बन्धिनि टा ओसि च परेऽग्वर्ज इदमः स्थाने अन इत्यादेशः स्यात् / [पुंल्लिङ्गे] अनेन / [स्त्रीलिङ्गे] अनया / [पुंल्लिङ्गे स्त्रियां च षष्ठी सप्तमी ओस् ] अनयोः स्वम् / अनयोर्निधेहि / [परमश्चासौ अयं च / तेन तयोः] परमानेन / परमानयोः // 37 // अ० निधेहीति / धाधास्तु / हि / 'हौ दः' (4 / 1 / 31) इत्यनेन एकारः / निधेहि-निक्षिप // 37 // - अयमियम् पुंस्त्रियोः सौ // 2 // 1 // 38 // त्यदां सम्बन्धिनि सौ परे पुंल्लिङ्गे स्त्रीलिङ्गे इदमो [इदमः स्थाने] यथासङ्ग्यं अयम् इयम् भवतः / अयं पुमान् / इयं स्त्री / परमायम् अनयम् / परमेयम् / अनियम् // 38 // .अ० परमाश्चासौ अयं च / न अयं अनयम् / परमा चासावियं च / न इयं अनियम् // 38|| : दो मः स्यादौ // 2 // 1 // 39 // त्यदां सम्बन्धिनि स्यादौ परत इदमो दकारस्य म आदेशः स्यात् / [औ] इमो परमेमौ / [जस्] इमे। [अम्] इमम् / इमौ / इमान् / इमको इमके / इमकेन // 39 // किमः कस्तसादौ च // 2 // 1 // 40 // . त्यदादिसम्बन्धिनि स्यादौ तसादौ च प्रत्यये परे किम्स्थाने क इत्यादेशः स्यात् // पुंल्लिङ्गे कः को के। कम् को कान् / केन काभ्याम् कैः / कस्मै / स्त्रियाम्-का के काः / काम् के काः / कया। कस्यै / क्लीबे / कम् के कानि। [परमश्चासौ कश्च] परमकः [न कः] अकः / अकौ / तसादौ-कदा। कर्हि / तसादाविति किम् ? किंतराम् पचतीत्यादि / आदिशब्दस्य व्यवस्थावाचित्वात्तसादयस्थमवसाना ग्राह्याः // 40 // ___अ० कस्मिन् काले कदा / ‘किंयत्तत्सर्वैकान्यात्काले दा' (7 / 2 / 95) इति दाप्रत्ययः / कस्मिन्ननद्यतने काले तर्हि ‘अनद्यतने र्हिः' (7 / 2 / 101) इति हिप्रत्ययः / किम् / कोऽनयोः प्रकृष्टः किंतरः / 'द्वयोर्विभज्ये च तरप्' (7 / 3 / 6) इत्यनेन तरप्प्रत्ययः / इदमनयोरतिशयेन किम् पचति, किंतराम् / 'किंत्याद्येऽव्ययादसत्त्वे तयोरन्तस्याम् (7 / 3 / 8) इत्यनेन किंतर अग्रेऽम् क्रियते / ततः सिः / 'अव्ययस्य' (3 / 2 / 7) इति लुप् / तेन किंतरामित्यादौ तदुत्तरेषु प्रत्ययेषु परेषु न भवति // 40 / / आद्वेरः // 2 // 14 // द्विशब्दमभिव्याप्य [द्विशब्दं यावत् ] त्यदादीनामन्तस्य तत्सम्बन्धिनि स्यादौ तसादौ च परे अकार आदेशः स्यात् / त्यद् / स्यः त्यो त्ये / अदस्-अमू / अमी / इदम् / इमौ इमे / एतत् एषः / द्वौ / त्यको /