________________ 76 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिते मध्यमवृत्त्यवचूरिभ्यामलते . इति वृत् / ऋकारः / / परमश्चासौ एषश्च परमेषः / तं परमैतम् / देहीति दाधातुः / पंचमीहि / 'हौ दः' (4 / 1 / 31) अनेन दा आकारस्य एकारः / द्विर्वचनाभावश्च / सूत्रस्यार्थ अनुयोग इत्युच्यते / प्रपूर्वो दाधातुः / प्रददातीति प्रदः / 'उपसर्गादातो डोऽश्यः' (5 / 1156) इत्यनेन डप्रत्ययः / अभ्युदयश्च निःश्रेयसं च अभ्युदयनिःश्रेयसं तस्य प्रदम् / एतस्य भगवतः शासनमेतच्छासनम् / जिनदत्तेति वाक्ये समुच्चयो द्योत्ये नान्वादेशः // 33 // इदमः // 2 // 1 // 34 // त्यदादिसम्बन्धिन इदमित्यस्य द्वितीयाटीसि परेऽन्वादेशे एनद् इत्यादेशः स्यात् / अवृत्त्यन्ते [असमासान्ते] / उद्दिष्टमिदमध्ययनं अथो एनदनुजानीत / इमकं साधुमावश्यकमध्यापय अथो एनमेव सूत्राणि [अध्यापय] / सुशीलाविमौ तदेनी गुरवो मानयन्ति / सुस्थिता इमे तदेनान् देवा अपि नमस्यन्ति / अनेन रात्रिरधीता अथो एनेन अहरप्यधीतम् / [टौस्यनः] अनयोः शोभनं शीलम् अथो एनयोर्महती कीर्तिः। वृत्त्यादौ [समासस्यादौ] भवत्येव / एनं एनां वाश्रित एनच्छितकः / योगविभाग उत्तरार्थः // 34 // अ० 'दिशीत् अतिसर्जने' दिश् / उत्पूर्वम् / उद्दिश्यत इति उद्दिष्टम् / 'क्लीबे क्तः' (5 / 3 / 123) इति क्त: 'यजसृज०' (211 / 87) इति शस्य षः 'तवर्गश्चवर्ग' (1 / 3 / 60) इति तस्य टः / उद्दिष्टमिदमध्ययनम् अथो एनदनुजानीत / अत्रापि 'अनतो लुप्' (1 / 4 / 59) इति अम्लुपि 'लुप्ययवृल्लेनत्' (7 / 4 / 112) इति वचनात् एनद् आदेशो भवति / लुपि सति अन्यकार्यप्रतिषेधात् / / इदम् / टा / ‘टौस्यनः' (2 / 1 / 37) अनेन अन आदेशः 'टाङसोरिनस्यौ' (1 / 4 / 5) / अहन् / सिः / 'अनतो लुप्' इति सेर्लुप् / 'रोलुप्यरि' (2 / 1 / 75) इति नकारस्य रकारः / अधीयतेस्माऽधीतम् / 'तक्तवतू' (5 / 1 / 174) इति क्तः // 34 // अव्यञ्जने // 2 // 1 // 35 // , इदम इति षष्ठ्यन्तमपि सर्वादेशार्थं प्रथमान्ततयेह [सूत्रे] विपरिणम्यते / इदम्शब्दो व्यञ्जनादौ स्यादौ परेऽन्वादेशे अत् स्यात् / अवृत्त्यन्ते [असमासान्त] / तकार उच्चारणार्थः / इमकाभ्यां शैक्षकाभ्यां रात्रीरधीता अथो आभ्याम् अहरप्यधीतम् / एवम् इमकैः अथो एभिः / इमकस्मै अथो अस्मै / इमकस्यै अथो अस्यै। इमकस्मात् अथो अस्मात् / इमकस्य अथो अस्य / इमकेषाम् एपाम् / इमकस्मिन् अस्मिन् / इमिकस्याम् अथो अस्याम् / इमकेषु एषु / इमिकासु अथो आसु / उत्तरत्रानगिति वचनादिह [सूत्रे] साक एव विधिः // 35 // अ० शैक्षकाभ्यामिति- 'शिक्षि विद्योपादाने' शिश् / शिक्षेते इति शिक्षकौ / ‘णकतृचौ' (5 / 1 / 48) इति णकः / णकारो वृद्धयर्थः / अक / शिक्षक एव शैक्षकः ‘प्रज्ञादिभ्योऽण्' (7 / 2 / 165) इति सूत्रेण स्वार्थेऽण् / वृद्धिः / शैक्षकः / 1 / अथवा शिक्ष्यतेऽभ्यस्यते इति शिक्षा ‘क्तेटो गुरोर्व्यञ्जनात्' (5 / 3 / 106) इत्यनेन अप्रत्ययः / 'आत्' (2 / 4 / 18) आप् / शिक्षा वित्तोऽधीयाते वा शिक्षकः ‘पदक्रमशिक्षामीमांसासाम्नोऽकः' (6 / 2 / 126) इति अकप्रत्ययः शिक्षकः / 'प्रज्ञादिभ्योऽण्' शैक्षक इति / 2 / अथवा शिक्ष्यतेऽभ्यस्यते इति शिक्षा ‘क्तेटो.' (5 / 3 / 106) अप्रत्ययः / आप् / शिक्षाया व्याख्यानस्तत्र भवो वा शैक्षः / 'शिक्षादेश्वाण' (6 / 3 / 148) इति अण् / वृद्धिः / शैक्षः / शैक्ष एव शैक्षकः ‘यावादिभ्यः कः' (7 / 3 / 15) इति स्वार्थे कः / ताभ्यां शैक्षकाभ्याम् / अकि कृते आप्कृते च 'अस्यायत्तत्क्षिपकादीनाम्' (2 / 4 / 111) इति सूत्रेण अकारस्य इंकारः सर्वत्र // 35 // अनक // 2 // 1136 //