________________ श्रीसिद्धहेमशब्दानुशासने द्वितीयाध्यायस्य प्रथमः पादः सपूर्वात्प्रथमान्तद्वा // 2 // 1 // 32 // ता/ विद्यमानāवपदात् प्रथमान्तात् पदात्परयोर्युष्मदस्मदोरन्वादेशे वस्नसादयो वा स्युः। यूयं विनीतास्तद्गुरवो वो मानयन्ति तद्गुरवो युष्मान् मानयन्ति / धनवांस्त्वं तल्लोकस्त्वा पूजयति तल्लोकस्त्वां पूजयति / धनवानहं तल्लोको मा पूजयति तल्लोको मां पूजयति / धनवानसि अथो ग्रामे कम्बलस्ते स्वम् अथो ग्रामे कम्बलस्तव स्वम् / सपूर्वादिति किम् ? पटो युष्माकं स्वम् अथो वः कम्बलं स्वम् / प्रथमान्तादिति किम् ? पटो नगरे युष्माकं स्वम् / पूर्वेण नित्यं प्राप्ते विकल्पार्थं वचनम् // 32 // ___ अ० सहशब्दो विद्यमानवचनः / पूर्वशब्दो व्यवस्थार्थः / सह कोऽर्थः ? विद्यमानं पूर्वपदं यस्मात्प्रथमान्तपदात् / स / तस्मात् / धनवानसीत्यत्रान्यशब्देनं कथमन्वादेशः, तथाहि-धनवानसीत्यस्मिन् अन्वादेशदर्शके वाक्यान्तरे प्रथम असि इत्युक्तम्, अथो ग्रामे कम्बलस्ते स्वमित्यत्र तु ते इत्युक्तम् / / 32 / / त्यदामेनदेतदो द्वितीयाटौस्यवृत्त्यन्ते // 2 // 1 // 33 // त्यदादिसम्बन्धिन एतदित्यस्य द्वितीयायां टायामोसि च परेऽन्वादेशे एनदित्यादेशः स्यात्, अवृत्त्यन्ते। न चेदयमेतच्छब्दो वृत्तेरन्तो भवति [समासस्य न स्यात् / / [अम्] उद्दिष्टमेतदध्ययनमथो एनदनुजानीत / एतकं साधुमावश्यकमध्यापय अथो एनमेव सूत्राणि / अत्र साकोप्यादेशः [एतकस्थाने एन अक्प्रत्ययेन सह] // [औ] सुशीलावेतौ तदेनौ गुरवो मानयन्ति / [शस्] सुस्थिता एते तदेनान् देवा अपि नमस्यन्ति / [टा] एतेन रात्रिरऽधीता अथो एनेनाहरप्यधीतम् / [ओस् ] एतयोः शोभनं शीलम् अथो एनयोर्महती कीर्तिः / त्यदामिति किम् ? एतदं (कस्यचिन्नाम) सङ्ग्रहाण अथो एतदमध्यापय / सञ्ज्ञायामसर्वादित्वादत्यदादिः / अवृत्त्यन्त इति किम् ? अथो परमैतं पश्य / द्वितीयाटौसीति किम् ? एतस्मै सूत्रं देहि अथो एतस्मै अनुयोगमपि देहि। अभ्युदयनिःश्रेयसप्रदमेतच्छासनमथो एतस्मै नमो भगवते [अर्हते) / अन्वादेश इत्येव-जिनदत्तमध्यापय एतं च गुरुदत्तम् / पश्चात्कथनमात्रं नान्वादेशः // 33 // ... अ. 'ज्ञांश् अवबोधने' ज्ञा / अनुपूर्वम् / पञ्चमीमध्यमबहुवचनम् / 'क्रयादेः' (3 / 4 / 79) इति सूत्रेण ना / 'जा ज्ञाजनोऽत्यादौ' (4 / 2 / 104) इत्यनेन ज्ञा इत्यस्य जा आदेशः / 'एषामीळञ्जनेऽदः' (4 / 2 / 97) इति सूत्रेण ना इत्यस्य ईकारः / अनुजानीत इति सिद्धम् / / उद्दिष्टमेतदध्ययनं अथो एतदनुजानीत-अत्रोदाहरणे एनद् आदेशात्पूर्वं ‘अनतो लुप्' (1 / 4/59) इति सूत्रेण अम्लोपः / अम्लोपे सति एनद् आदेशो 'लुप्यय्वृल्लेनद्' (7 / 4 / 112) इति वचनात्स्यात् / लुपि सत्यां अन्यकार्यनिषेधात् य्वृत्विधौ लुब्विधौ एनद्विधौ सति लुपा प्रतिषेधो न प्रवर्त्तते इत्यर्थः / अध्यापयेति- 'इङ् अध्ययने' इ / अधिपूर्वम् / अधीते कश्चित्तमन्यः प्रयुङ्क्ते / ‘प्रयोक्तृव्यापारे णिग्' (3 / 4 / 20) 'अप्रयोगीत्' (1 / 1 / 37) इ। ‘णौ क्रीजीङः' (4 / 2 / 10) इति सूत्रेण इङ आकारः / 'अर्तिरीब्लीह्रीक्नूयिक्ष्माय्यातां पुः' (4 / 2 / 21) अनेन सूत्रेण वा / णिग्विचाले पोऽन्तः / पंचमीहि / शव् / गुणः / 'अतः प्रत्ययाल्लुक्' (4 / 2 / 85) इति हेर्लोपः / / नमस्यन्ति / नमस् / नमः कुर्वन्तीति नमस्यन्ति / 'नमोवरिवश्चित्रकोऽर्चासेवाश्चर्ये (3 / 4 / 37) इति क्यन् / अधीयते स्म अधीतं 'क्तक्तवतू' (5 / 1 / 174) क्तः / अहन् / प्रथमासिः / अनतो लुप्' 'अह्नः' इत्यनेन नकारस्य रकारः / / 'संगृहाण' ग्रहीश् उपादाने पंचमीहि / 'क्रयादेः' श्रा / 'व्यञ्जनाच्छनाहेरानः' (3 / 4 / 80) अनेन नाहिस्थाने आन आदेशः / ‘ग्रहवश्वभ्रस्जप्रच्छः' (4 / 1 / 84)