________________ 74 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिते मध्यमवृत्त्यवचूरिभ्यामलङ्कृते / जनो युष्मान् संदृश्यागतः / जनोऽस्मान् संदृश्यागतः / जनो युवां समीक्ष्यागतः / एवं जनस्त्वामपेक्षते / जनो मामपेक्षते / जनो युष्माकं चित्तमुपलक्षयति / जनोऽस्माकं चित्तमुपलक्षयति / गुरुस्तव कार्यमालोचयति। गुरुर्मम कार्यमालोचयति / सर्वत्र मनसा चिन्तनं दृश्यर्थानामर्थः / दृश्यर्थैरिति किम् ? जनो वो मन्यते / जनो नो मन्यते / चिन्तायामिति किम् ? जनो वः पश्यति / जनो नः पश्यति / जनस्त्वालोकयति / जनो मालोकयति / सर्वत्र चक्षुषा पश्यतीत्यर्थः // 30 // अ० दृश्यर्थैरित्यादि-'दृशं प्रेक्षणे' दृश् / ‘इकिश्तिव्स्वरूपार्थे' (5 / 3 / 138) इति सूत्रेण किप्रत्ययः स्वरूपे / अथवार्थेऽभिधेये इकिश्तिवो भवन्ति / तत्र यदि अत्र दृशेः परतः स्वरूपे भवति तदा दृशेरर्थो दर्शनमालोचनं येषां धातूनां ते दृश्यर्था इत्यर्थः / यदि च अर्थेऽभिधेये दृशेः प्रत्ययः तदा दृशिरर्थो येषां ते दृश्यर्थाः / दृश् / समीक्ष् / अपेक्ष् / उत्पश्य् / निरूप् / निध्याय् / उपलक्ष् / संपश्य् / आलोच / एते धातवो दृश्यर्था उच्यन्ते / / आगम इति 'अमद्रमहम्ममीमृगम्ळं गतौ' गम् / आङ्पूर्वम् / आगच्छति स्म आगतः / 'गत्यर्थाकर्मकपिबभुजेः' (5 / 1 / 11) इति सूत्रेण क्तप्रत्ययः / 'यमिरमिनमिगमिहनिमनिवनतितनादे(टि क्ङिति' (4 / 2 / 55) इति सूत्रेण अन्त्यस्य लुक् / / 30 / / नित्यमन्वादेशे // 2 // 1 // 31 // कथितानुकथनमन्वादेशः। कस्यचिद्वस्तुनः किञ्चिक्रियादिकं विधातुं कथितस्य तेनान्येयन वा शब्देन पुनरन्यद्विधातुं कथनमित्यर्थः। तस्मिन्विषये पदात्परयोर्युष्मदस्मदोर्यदुक्तं वस्नसादिः, तन्नित्यं स्यात् / यूयं विनीताः स्तद्वो गुरवो मानयन्ति / वयं विनीतास्तन्नो गुरवो मानयन्ति / धनवांस्त्वमथो त्वा लोको मानयति // 31 // * अ० ननु अस्मिन्निषेधाधिकारे कथमिदं 'नित्यमन्वादेशे' इति विधिसूत्रमभूत् / सत्यम् / नित्यनिषेधाधिकारे यन्नित्यग्रहणं कृतं तदेवं बोधयति विधानसूत्रमिदम् / न चेदं वाच्यम् अत्र ‘नित्यमन्वादेशे' इति सूत्रे नित्यग्रहणाभावे ‘पदाधुग्विभक्त्यैकवाक्ये वस्नसौ बहुत्वे' (2 / 1 / 21) इति सूत्रे कथं विकल्पः स्यादिति / तदा हि ‘पदाधुग्विभक्त्यैकवाक्ये०' सूत्रे नवा इति कुर्यादिति भावः / / अनु पश्चात् आदेशः कथनं अन्वादेशः, तस्मिन् / कस्यचिद् द्रव्यस्य कांचित् क्रियां जातिं गुणं द्रव्यं वा वक्तुं कथितस्य तेन शब्देन तदितरेण वा पौनरुक्त्यं मा भूदिति विशेषान्तरं वक्तुं पुनः कथनमन्वादेश उच्यते / तेनान्येन वेत्यादि-युष्मदस्मद्शब्दाभ्यां विनीतत्वादिकं विधाय पुनर्युष्मदस्मद्शब्दाभ्यामेव गुरुमाननादिकं विधीयते / अतोऽत्र सूत्रे तेनैव शब्देन कथनमस्ति / अन्येन तु शब्देन कथनमुत्तरसूत्रे एव ज्ञातव्यमित्यर्थः / पुनरन्येत्यादि-पुनःशब्दोपादानात्तस्यैव कथनं यदि स्यात्तदैवान्वादेशः, नह्यन्यस्य कथने पुनःशब्दार्थो घटते, तेन यत्रान्यस्य कथनं तत्र नान्वादेशः / ततश्च जिनदत्तमध्यापय एतं च गुरुदत्तमित्यत्र तस्यैव जिनदत्तस्य पुनः कथनाभावादन्वादेशाभावे सति 'त्यदामेनदेतदो द्वितीया०' (2 / 1 / 33) इत्यादि सूत्रेण एनद् आदेशो नाभूत् / अन्वादेशदर्शनार्थं यूयं विनीता इति वाक्यान्तरमिदमुपदर्शितम् नतूत्तरपदसंबद्धं बोद्धव्यम्; तेन तद् इत्यस्य पदस्य सपूर्वत्वाभावादुत्तरेण विकल्पः / तदित्यव्ययं शब्दस्तस्मादित्यर्थे / विनीततामात्रमेवात्र अनूद्यते नापूर्वं किञ्चित्क्रियते / यूयं विनीता इति प्रथमादेश उत्तरस्य वाक्यस्याऽन्वादेशख्यापनार्थम् / विनीता इति-विनीतत्वे वक्तुं यूयमित्युक्तम् / तद्वो गुरवो मानयन्तीत्ययमन्वादेशः / यूयमिति यत्प्रथममुक्तम्, तस्यैव गुरवो मॉनयन्तीति वक्तुं द्वितीयं कथनं कृतम् तत्र द्वितीयकथने वस् आदेशः / यूयं विनीतास्तद्वो गुरवो मानयन्तीत्यस्यावचूरिरियम् / एवं सर्वत्र ज्ञातव्यम् / / 31 / /