________________ श्रीसिद्धहेमशब्दानुशासने द्वितीयाध्यायस्य प्रथमः पादः विशेषणं ज्ञेयम् / तथा शरणमिति सामान्यकर्म, युष्मानिति विशेषकर्म ज्ञेयम् / यूयं नोऽस्मान् रक्षत इति सम्बन्धः / साधो सुविहितेत्यादि / अत्र द्वयोरपि पदयोः 'असदिवामन्त्र्यं पूर्वम् (2 / 1 / 25) इत्यनेनाऽसत्त्वे प्राप्ते 'नान्यत्' (2 / 1 / 25) इति सूत्रेण साधो इत्यस्य असत्त्वप्रतिषेधः / ततो 'नित्यमन्वादेशे' (2 / 1 / 31) इति सूत्रेण अत्र वस्नसौ भवत इत्यर्थः / शरण्याः साधवो इत्यत्र द्वयोरपि पदयोः 'असदिवामन्त्र्यं पूर्वम्' इत्यनेन असद्भावः / आचार्या उपाध्याया इत्यत्र भिन्नाधिकरणयोः पदयोः पूर्वं पदं न विशेष्यम् / न परं विशेषणमिति सामर्थ्यात्तद्विशेषणभूत इति भणनाद्वस् आदेशो न भवति // 26 // नाऽन्यत् // 2 // 1 // 27 // - युष्मदस्मद्भ्यां पूर्व जसन्तादन्यदामन्त्र्यं पदं [एकवचनान्तं द्विवचनान्तं वा] विशेष्यमामन्त्र्यपदे तद्विशेषणभूते परेऽसदिव न स्यात् / साधो सुविहित त्वा शरणं प्रपद्ये / साधू सुविहितौ वां शरणं प्रपद्ये / साधो सुविहित मा रक्ष / साधू सुविहितौ नौ रक्षतम् इत्यादि / विशेष्यमित्येव-सुविहित साधो तव शीलम् // 27 // ___ अ० 'रक्ष पालने' / पञ्चमीमध्यमद्विपुरुषवचनं तम् / ‘कर्त्तर्यनद्भयः शव्' (3 / 4 / 71) / विशेषणं पूर्वम्, विशेषमयं चाग्रे // 27 // . पादाद्योः // 2 // 1 // 28 // [पादस्यादी पादादी तयोः] नियतपरिमाणमात्राऽक्षरपिण्डः पाद उच्यते / पदात्परयोः पादस्यादिभूतयोर्युष्मदस्मदोर्वस्नसादिर्न स्यात् / वीरो विश्वेश्वरो देवो युष्माकं कुलदेवता / स एव नाथो भगवानस्माकं पापनाशनः // 1 // पादाद्योरिति किम् ? पान्तु वो देशना काले जैनेन्द्रा दशनांशवः [दन्तकिरणाः] / भवकूपतज्जन्तुजातोद्धरणरज्जवः // 2 // 28 // - अ० मात्राश्चतुर्मात्रो गणविशेष आर्यादिच्छन्दउपयोगिनः / अक्षराणि वर्णाः श्लोकादिसमकाव्येऽक्षरसंख्याप्रमाणाः। मात्राश्चाक्षराणि मात्राक्षराणि / नियत परिमाणानि च तानि मात्राक्षराणि च / तेषां पिण्डः / अथवा मात्राक्षराणां पिण्डः / नियतपरिमाणश्वासौं मात्राक्षरपिण्डश्च / / पापं नाशयतीति पापनाशनः / ‘रम्यादिभ्यः कर्त्तरि' (5 / 3 / 126) इत्यऽनट्प्रत्ययः / देशनं देशस्तं करोति ‘णिज् बहुलं०' (3 / 4 / 42) इति णिच् / दिश्यते इति देशना / ‘णिवेत्त्यासश्रन्थघट्टवन्देरनः' (5 / 3 / 111) इति सूत्रेण अनप्रत्ययः / जिनेन्द्राणामिमे जैनेन्द्राः / 'तस्येदम्' (6 / 3 / 160) इति सूत्रेण अण्प्रत्ययः / / 28 / / / चाहहवैवयोगे // 2 // 1 // 29 // च / अह / ह / वा / एव / एभिर्योगे पदात्परयोर्युष्मदस्मदोर्वस्नसादिर्न स्यात् / ज्ञानं युष्मांश्च रक्षतु अस्मांश्च रक्षतु इत्यादि / एवं ज्ञानं तव च स्वम् ज्ञानं मम च स्वम् / योगग्रहणं किम् ? ज्ञानं च शीलं च वो रक्षतु / ज्ञानं च शीलं च नो रक्षतु / ज्ञानं च शीलं च ते स्वम्, में स्वम् / एतेषु चशब्देन न युष्मदस्मदोर्योगोऽपि तु ज्ञानशीलयोर्योगः // 29 // _. अ० अह शब्दोऽथार्थे / हशब्दो वाक्यालङ्कारे, स्पष्टार्थे, हे इत्यर्थे वा ज्ञातव्यः / योगे इति कोऽर्थः ? चादिद्योत्यस्य समुच्चयाद्यर्थस्य साक्षात् युष्मदस्मदर्थसंबन्धे सति / / 29 / / दृश्यर्थै श्चिन्तायाम् // 2 // 1 // 30 // दृशिना [सह] समानार्था दृश्याः , तैर्धातुभिश्चिन्तायां वर्तमानर्योगे सति युष्मदस्मदोर्वस्नसादिर्न स्यात् /