________________ 72 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिते मध्यमवृत्त्यवचूरिभ्यामलङ्कृते मह्यम् / धर्मस्ते स्वम् / धर्मस्तव स्वम् / धर्मो मे स्वम् / धर्मो मम स्वम् // 23 // अ० डेडसा ते मे इति सूत्रे / कथं 'न मे श्रुता नापि च दृष्टपूर्वा' (पूर्वं दृष्टः 'नाम नाम्नै०' (3 / 1 / 18) इति समासः, स्त्री चेत्) इति केनापि कविना प्रयुक्तम् / न मे कोऽर्थः ? न मया इति विवक्षितम् / तृतीयया सह मे इति आदेशः कथं इति पृच्छा / अत्राचार्यः प्राह / असाधुरेवायं प्रयोगः / स्यादिप्रतिरूपकमव्ययं वा मे इति पदं इति समर्थना ज्ञातव्या / ते मे इति लुप्तद्विवचनान्तं पदम् / डेडसेत्येकवचनमित्यादि अक्षराणां अयं परमार्थः / युष्मदः स्थाने ते इत्यादेशः / अस्मदः स्थाने मे इत्यादेशः / इति यथासङ्ख्यं कर्त्तव्यं ज्ञातव्यम्, परं चतुर्थ्येकवचनडे इति सह युष्मदस्ते, षष्ठयेकवचनडस् इति सह अस्मदो मे इत्यादेश इति नैव यथासङ्ख्यम् / / 23 / / अमा त्वामा // 2 // 1 // 24 // पदात्परयोर्युष्मदस्मदोरमा सह यथासङ्ख्यं त्वा मा इत्येतौ वा स्याताम्, एकवाक्ये / धर्मस्त्वा पातु / धर्मस्त्वां पातु / धर्मो मा पातु / धर्मो मां पातु / एकवाक्य इति किम् ? अतित्वां पश्यतु / अतिमां पश्यतु // 24 // अ० त्वा मा इति लुप्तद्विवचनान्तं पदम् / त्वामतिक्रान्तो यः सोऽतित्वम् / तं अतित्वाम् // 24 // असदिवामन्त्र्यं पूर्वम् // 2 // 1 // 25 // आमन्त्र्यते यत्तदामन्त्र्यम् / तद्वाचिपदं युष्मदस्मभ्यां पूर्वमसदिवाविद्यमानमिव स्यात् [आमन्त्र्यपदमसदिव भवतीति सम्बन्धः] / तस्मिन् [असति] यत्कार्यं [वस्नसादिः] तन्न भवति / श्रमणा [ह श्रमणा ऋषयः] युष्मान् रक्षतु धर्मः / [हे] श्रमणा अस्मान् रक्षतु धर्मः / श्रमणा युष्माकं शीलमित्यादि / एष्वामन्त्र्यस्यासत्त्वाद् वस्नसादयो न स्युः / इवकरणं किम् ? श्रवणं यथा स्यात् / आमन्त्र्यमिति किम् ? धर्मो वो रक्षतु / पूर्वमिति किम् ? मयैतत्सर्वमाख्यातं युष्माकं / [] मुनिपुङ्गवाः // 25 / / अ० असद् / 'असिक् भुवि' अस् / अस्तीति सत् / ‘शत्रानश०' (5 / 2 / 20) इति शतृ / 'अप्रयोगीत' (1 / 1 / 37) अत् / 'नास्त्योर्मुक्' (4 / 2 / 90) इत्यस्तेरकारस्य लोपः / सत् / सिः / 'अनतो लुप्' / (1 / 4 / 59) 'ऋदुदितः' (1 / 4 / 70) इति नोऽन्तः / नपुंसके सेरघुट्त्वात् / न सत् असत् / 'मन्त्रिण गुप्तभाषणे' / मन्त्र / 'चुरादिभ्यो णिच्' (3 / 4 / 17) आङ्पूर्वम् / आमन्त्र्यते यत्तत् आमन्त्र्यम् / ‘य एच्चातः' / (5 / 1 / 28) यप्रत्ययः / ‘णेरनिटि' (4 / 3 / 83) / इवकरणं विनाऽसत् इत्युक्ते श्रमणशब्दस्य ‘ते लुग्वा' (3 / 2 / 108) इत्यनेन लोपः स्यात् / इवशब्दे सति च श्रमणा इति शब्दश्रुतिर्भवति प्रयोगे // 25 // जस्विशेष्यं वामन्त्र्ये // 2 // 1 // 26 // तदतद्विषयं विशेष्यम् / तस्य व्यवच्छेदकं विशेषणम् / युष्मदस्मद्भ्यां पूर्वं जसन्तमामन्त्र्यं पदं विशेष्यम्, आमन्त्र्ये पदे सामर्थ्यात्तद्विशेषणभूते परे सति असदिव वा स्यात् / पूर्वेण ['असदिवामन्त्र्येति'] नित्यं निषेधे प्राप्ते विकल्पः / [ह] जिनाः [ह] शरण्या युष्मान् शरणं प्रपद्ये / [ह] जिनाः ]हे] शरण्या वः शरणं प्रपद्ये। हि] जिनाः [हे] शरण्या अस्मान् यूयं रक्षत / [हे] जिनाः हि] शरण्या नो रक्षत / जसिति किम् ?- हि] साधो सुविहित वोऽथो शरणं प्रपद्य / साधो सुविहित नोऽथो रक्ष / विशेष्यमिति किम् ? शरण्याः साधवो युष्मान् शरणं [अहं] प्रपद्ये / सामर्थ्यात्तद्विशेषणभूत इति किम् ? आचार्या उपाध्याया युष्मान् शरणं प्रपद्ये // 26 // अ० जसा उपलक्षितं विशेष्यं जस्विशेष्यम् / जिना इति पूर्वं पदं जसंतं विशेष्यम् / शरण्या इति परं पदं