________________ 71 श्रीसिद्धहेमशब्दानुशासने द्वितीयाध्यायस्य प्रथमः पादः णिचि सति युष्माकमिति सिद्धयति / तथाहि-युष्मद् अस्मद् युष्मानाचक्षते अस्मानाचक्षते ‘णिज्बहुलं०' (3 / 4 / 42) इति णिच् / 'त्र्यन्त्यस्वरादेः' (7 / 4 / 43) क्विपि युष्म् अस्म् षष्ठीआम् / 'आम आकम्' (2 / 1 / 20) इति कृते- युष्माकम् अस्माकमिति सिद्धम् // 20 // पदाधुग्विभक्त्यैकवाक्ये वस्नसौ बहत्वे // 2 // 1 // 21 // द्वितीया चतुर्थी षष्ठी च युग्विभक्तिः / तया बहुत्वविषयया सह पदात्परयोयुष्मदस्मदोः स्थाने यथासङ्ग्यं वस् नस् इत्यादेशौ वा स्याताम्, एकवाक्ये-तच्चेत्पदं युष्मदस्मदी च एकस्मिन् वाक्ये भवतः ['नित्यमन्वादेशे' (2 / 1 / 31) इति सूत्रेण] अन्वादेशे नित्यं विधास्यमानत्वादिह विकल्पो लभ्यते / एवमुत्तरसूत्रत्रयेऽपि / धर्मो वो रक्षतु धर्मो युष्मान् / धर्मो नः धर्मोऽस्मान् रक्षतु / तपो वो दीयते तपो युष्मभ्यम् / तपो नः तपोऽस्मभ्यं दीयते / शीलं वः स्वम् शीलं युष्माकम् / शीलं नः स्वम् / शीलमस्माकं स्वम् / पदादिति किम् ? युष्मान् धर्मो रक्षतु / युग्विभक्त्येति किम् ? ज्ञाने यूयं तिष्ठथ / शीले वयं स्थास्यामः / एकवाक्य इति किम् ? एकस्मिन् पदे निमित्त [पूर्वपदं] निमित्तिनो [निमित्तिनो युष्मदस्मदी] भावो [वस्नस् ] माभूत् / अतियुष्मान् पश्य / वाक्यान्तरे च माभूत् / ओदनं पचत युष्माकं भविष्यति / बहुत्व इति किम् ? धर्मो युवां [औ] रक्षतु / स्यायधिकारे विभक्तिग्रहणं युक्स्यादिवचननिवृत्यर्थं / तेन ज्ञाने युवां तिष्ठथः / शीले आवां तिष्ठावः / अत्रोत्तरेण वाम्नावादेशो न भवतः // 21 // अ० विभक्त्या सह सामानाधिकरण्यार्थं युनक्तीति युङ् कर्तरि विप् / अथवा योजनं युङ् / समं संख्यास्थानम् / युग्ममिति यत्संख्यायते तेन परिच्छिन्नं वस्त्वपि युगमित्युच्यते / ततः समसंख्या द्वितीया-चतुर्थी-षष्ठीरूपा विभक्तयो युग्शब्देनोच्यन्ते / युग चासौ विभक्तिंश्च युग्विभक्तिः / तया युग्विभक्त्या बहूनां भावो बहुत्वम् / 'भावे त्वतल्' (71 / 55) इति सूत्रेण त्वप्रत्ययः / 'सविशेषणमाख्यातं वाक्यम्' (1 / 1 / 26) इति वाक्यलक्षणम् / यत्र वाक्ये पृथग् पृथग्निमित्तनिमित्तिनौ, तत्र वस्नसादयः / परं एकस्मिन्नेव पदे निमित्तनिमित्तिनौ यदि स्यातां तदा न वस्नसौ / / अतिक्रान्तो युष्मानतियुष्मान् / युग्बहुत्वे इत्यपि उक्ते द्वितीया-चतुर्थी-षष्ठीबहुवचनानि लब्धानि किं विभक्तिग्रहणेन ? विभक्तिग्रहणं तूत्तरार्थं कृतम्, विभक्तिग्रहणं विना युग् इत्युक्ते स्यादिवचनानि युग्रूपेण औ भ्याम् ओस् इति मुग्धाः प्रतिपद्येरन् इति क्लिष्टतापरिहारार्थं च इह सूत्रे कृतम् इति भावः / युवां आवामित्यत्र प्रथमाद्विवचनम् औ ज्ञातव्यम् / तिष्ठावः / अत्र ‘मव्यस्याः ' (4 / 2 / 113) इति सूत्रेण दीर्घः / / 21 / / द्वित्वे वाम् नौ // 2 // 1 // 22 // पदात्परयोर्युष्मदस्मदोर्द्वित्वविषयया युग्विभक्त्या सह यथासङ्ग्यं वाम् नौ इति वा स्याताम्, तच्चेत्पदं युष्मदस्मदी चैकवाक्ये भवतः / धर्मो वां पातु धर्मो युवाम् / धर्मो नो पातु धर्म आवाम् / शीलं वां दीयते शीलं युवाभ्याम् / शीलं नौ शीलमावाभ्याम् / ज्ञानं वां स्वम् / ज्ञानं युवयोः स्वम् / ज्ञानं नौ स्वम् / ज्ञानमावयोः स्वम् // 22 // डेङसा ते मे // 2 // // 23 // पदात्परयोर्युष्मदस्मदोङस्भ्यां सह यथासङ्ग्यं ते मे इत्यादेशौ वा स्याताम्, एकवाक्ये / डेङसेत्येकवचनं स्थानिभ्यामादेशाभ्यां च यथासंख्यनिवृत्त्यर्थम् / धर्मस्ते दीयते धर्मस्तुभ्यम् / धर्मो मे दीयते / धर्मो