________________ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिते मध्यमवृत्त्यवचूरिभ्यामलते युष्मदस्मद्भ्यां परयोस्तत्सम्बन्धिनोरन्यसम्बन्धिनोर्वा अम् औ इत्येतयोर्म इत्यादेशः स्यात् / अकार उच्चारणार्थः / [अम्] त्वाम् / माम् / अतित्वात् / अतित्वाम् / [औ] युवाम् / आवाम् / अतियुवाम् / अत्यावाम् तिष्ठतः पश्य वा // 16 // अ० अमौ इत्यत्र औश्च औश्च आवौ / 'स्यादावसंख्येयः' (3 / 1 / 119) इत्येकशेषः / तदनंतरम् अम् च आवौ च अमौ / तस्य / षष्ठीडस् / सूत्रत्वात् डसो लोपः / अमौ इति निष्पत्तिः // 16 / / शसो नः // 2 // 1 // 17 // युष्मदस्मद्भ्यां परस्य तत्सम्बन्धिनोऽन्यसम्बन्धिनो वा शसः स्थाने न इत्यादेशः स्यात् / अकार उच्चारणार्थः। युष्मान् / अस्मान् / प्रिययुष्मान् / प्रियास्मान् / प्रियत्वान् / प्रियमान् / प्रिययुवान् / प्रियावान् // 17 // अ० प्रियस्त्वं येषां तान् प्रियत्वान् / प्रियौ युवां येषां तान् प्रिययुवान् / प्रियावावां येषां तान् प्रियावान् // 17 // अभ्यं भ्यसः // 2 // 1 // 18 // युष्मदस्मद्भ्यां परस्य स्वसम्बन्धिनोऽन्यसम्बन्धिनो वा चतुर्थीभ्यसः स्थानेऽभ्यम् स्यात् युष्मभ्यम् / अस्मभ्यम् / प्रिययुष्मभ्यम् / अतित्वभ्याम् अतिमभ्यम् / अतियुवभ्यम् / अत्यावभ्यम् / अकारादिकरणमात्वबाधनार्थम् // 18 // अ० कार्यिणः प्रथमं निर्देशे प्राप्ते कार्यस्य प्रथममुपादानं प्रत्यासत्तिसूचनार्थम् / सूत्रपाठापेक्षया चतुर्युव प्रत्यासन्ना इति तस्या एवादेशः / यद्वा ‘डसेश्चाद्' (2 / 1 / 19) इत्यत्र चकारो भ्यसोऽनुकर्षणार्थः / स च ङसिसाहचर्यात् पञ्चमीसम्बन्ध्येव भ्यस् गृह्यते इति पारिशेष्यादिह सूत्रे चतुर्थीभ्यसो ग्रहणं ज्ञातव्यम् / त्वामतिक्रान्ता ये तेऽतियूयम् तेभ्योऽतित्वभ्यम् / एवं अतिमभ्यम् / युवामतिक्रान्ता ये तेभ्योऽतियुवभ्यम् / भ्यसः स्थानेऽभ्यम् / अकारपूर्वकआदेशः 'युष्मदस्मदोः' (2 / 1 / 6) इति सूत्रोक्तम् आकारम् बाधते // 18 // . ङसेवाद् // 2 // 1 // 19 // युष्मदस्मद्भ्यां परस्य स्वसंबंधिनोऽन्यसंबंधिनो वा उसेवकारात्तत्सहचरितस्य भ्यसः [पंचमीबहुवचनभ्यसः] स्थाने अद् स्यात् / [ङसि] त्वद् / मद् / अतित्वद् / अतिमद् / अतियुवद् / अत्यावद् / अतियुष्मद् / अत्यस्मद् // भ्यस् / युष्मद् अस्मद् इत्यादि // 19 // अ० त्वामतिक्रान्तो यः सोऽतित्वम् तस्मात् अतित्वत् / युवामतिक्रान्तो यः तस्मात् अतियुवद् / युष्मानतिक्रान्तो यः तस्मात् अतियुष्मद् / भ्यसि सति अतित्वद् अतियुवद् अतियुष्मद् इति प्रयोगा अपि ज्ञातव्याः // 19 // आम आकम् // 2 // 1 // 20 // युष्मदस्मद्भ्यां परस्य तत्सम्बन्धिनोऽन्यसम्बन्धिनो वा आमः स्थाने आकम् इत्यादेशः स्यात् / युष्माकम्। अस्माकम् / प्रिययुष्माकम् / प्रियास्माकम् / अतित्वाकम् / अतिमाकम् / अतियुवाकम् / अत्यावाकम् / अतियुष्माकम् अत्यस्माकम् / आकमित्याकारो ण्यन्तार्थः। युष्मानाचक्षाणानां णौ किपि युष्माकम्, अस्माकम् // 20 // अ० प्रिया यूयं येषां तेषां प्रिययुष्माकम् / त्वामतिक्रान्ता ये तेषाम् अतित्वाकम् / युवामतिक्रान्ता ये तेषां अतियुवाकम् / युष्मातिक्रान्ता ये तेऽतियूयम् / तेषामतियुष्माकम् / आकम् आदेशे आकारो ण्यन्तार्थः / कोऽर्थः ?