________________ श्रीसिद्धहेमशब्दानुशासने द्वितीयाध्यायस्य प्रथमः पादः युष्मदस्मदोः स्वसम्बन्धिनाऽन्यसम्बन्धिना वा सिना सह यथासंख्यं त्वम् अहम् इत्यादेशौ स्याताम् / तौ चाक्प्रत्ययप्रसङ्गेऽकः प्रागेव / त्वम् / अहम् / अतिक्रान्तस्त्वाम् अतित्वम् / [अतिक्रान्तो माम्] अत्यहम् / अतिक्रान्तो युवाम् अतित्वम् / अत्यहम् / अतिक्रान्तो युष्मान् अतित्वम् / अत्यहम् / प्रियस्त्वं प्रियौ युवां प्रिया यूयं वा यस्य स प्रियत्वम् प्रियाऽहम् / एषु परत्वात् त्वमौ युवावौ च बाधित्वा त्वम् अहम् एव भवतः / त्वं पुत्रोऽस्य त्वत्पुत्रः / मत्पुत्रः / अत्र सिलुपि 'लुप्ययवृल्लेनदिति (7 / 4 / 112) निषेधान भवति / एवमुत्तरेप्वपि / प्राक्चाक इति किम् ? त्वकम् / अहकम् / अत्राकः श्रुतिर्यथा स्यात्, अन्यथा पूर्वमकि सति 'तन्मध्यपतितस्तद्ग्रहणेन गृह्यते' इतिन्यायात्साकोरपि [युष्मदस्मदोः अक्सहितयोः] त्वमऽहमादेशः स्यात् // 12 // ___ अ० त्वम् च अहम् च त्वमहं / प्रथमा औ / सूत्रत्वात् औलोपः / त्वम् अहम् आदेशौ पूर्वम्, पश्चात् अक् क्रियते इत्यर्थः / युष्मद् / पुत्र / त्वं पुत्रोऽस्येति वाक्ये समासे 'ऐकार्ये' (3 / 2 / 8) इत्यनेन सेर्लोपः / 'त्वमौ प्रत्यय०' (2 / 1 / 11) इति त्व म आदेशः / / युष्मद् / अस्मद् / सिः / 'त्वमहं सिना०' (2 / 1 / 12) इति त्वम् अहम् / पश्चात् 'युष्मदस्मदोऽसोभादिस्यादेः' (7 / 3 / 30) इत्यनेन त्व् [अह् ] अविचालेऽक् क्रियते / अन्यथा कोऽर्थः ? यदि प्राक् चाक् इति न कुर्यात् इत्यर्थः / / 12 / / .. यूयं वयं जसा // 2 // 1 // 13 // ___ युष्मपदस्मदोः स्वसम्बन्धिनाऽन्यसम्बन्धिना वा जसा सह यूयं वयं इत्यादेशौ [यथासंख्य] स्याताम्, प्राक् चाकः / यूयम् / वयम् / परमयूयम् / परमवयम् / प्रियस्त्वं प्रियौ युवां प्रिया यूयं वा येषां ते प्रिययूयम् प्रियवयम् / अतिक्रान्तास्त्वां युवां युष्मान्वा अतियूयम् अतिवयम् / जसेति किम् ? यूयं पुत्रा अस्य युष्मत्युत्रः / प्राक् चाक इत्येव / यूयकम् / वयकम् // 13 // ___ अ० यूयम् वयम्-अत्र प्रथमा औ / सूत्रत्वाल्लोपः / कुत्सिताद्यर्थे 'युष्मदस्मदोऽसोभादिस्यादेः' (7 / 3 / 30) इति सूत्रेण अक् // 13 // तुभ्यं मह्यं ड्या // 2 // 1 // 14 // - युष्मदस्मदोः स्वसम्बन्धिनाऽन्यसंबंधिना वा उप्रत्ययेन सह [यथासंख्यं] तुभ्यं मह्यं इत्यादेशौ स्याताम्, प्राक्चाकः / तुभ्यम् / मह्यम् / प्रियतुभ्यम् / अतितुभ्यम् / ङ्येति किम् ? तुभ्यं हितं त्वद्धितम् / [मह्यं हित] मद्धितम् / प्राक्चाक इत्येव / तुभ्यकम् / माकम् // 14 // ___अ० प्रियस्त्वं प्रियौ युवां प्रिया यूयं वा यस्य स प्रियत्वम् / तस्मै प्रियतुभ्यम् / प्रियमह्यम् / अतिक्रान्तस्त्वां युवां युष्मान् वा तस्मै अतितुभ्यम् / / 14 / / तव मम ङसा // 2 // 1 // 15 // युष्मदस्मदोः स्वसम्बन्धिनान्यसम्बन्धिना वा ङसा सह तव मम आदेशौ यथासंख्यं प्राक्चाकः स्याताम् / तव / मम / प्रियतव / प्रियमम / अतितव / अतिमम / प्राक्चाक इत्येव-तवक / ममक // 15 // ___अ० प्रियस्त्वं यस्य प्रियौ युवां यस्य प्रिया यूयं वा यस्य स प्रियत्वम् / तस्य प्रियतव / एवं प्रियमम / अतिक्रान्तस्त्वाम् अतिक्रान्तो युवाम् अतिक्रान्तो युष्मान्वा तस्य अतितव / एवम् अतिमम / / 15 / / अमौ मः // 2 // 1 // 16 //