________________ 68 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिते मध्यमवृत्त्यवचूरिभ्यामलङ्कृते सूत्रेण भ्यस्स्थाने अभ्यम् / युवामतिक्रान्तो यः / तस्मात् / अतियुवत् एकत्वे वाक्यम् / युवामतिक्रान्ता ये तेभ्यः / अतियुवत् बहुत्वे वाक्यमिदम् / पञ्चमी ङसिभ्यस् / ‘डसेश्चाद्' (2 / 1 / 19) / ङसिभ्यस् स्थाने अद् / युवामतिक्रान्ता ये तेषाम् / आम् / 'आम आकम्' (2 / 1 / 20) / युवामतिक्रान्तो यः तस्मिन् / युवामतिक्रान्ता ये तेषु / / युवकाभ्यां आवकाभ्याम्-अत्र युष्मद् अस्मद् / अग्रे भ्याम् / 'युष्मदस्मदोः' (2 / 1 / 6) इत्यात्वं दस्य / 'मन्तस्य युवाव०' (2 / 1 / 10) इति युवाव / 'त्यादिसर्वादेः स्वरेष्वन्त्यात्पूर्वोऽक्' (7 / 3 / 29) / आकारात् पूर्वं अक् / / युष्मद् / अस्मद् / युवयोरिदं युष्मदीयम्, आंवयोरिदम् अस्मदीयम् ‘दोरीयः' (6 / 3 / 32) इति ईयप्रत्ययः // 10 // त्वमौ प्रत्ययोत्तरपदे चैकस्मिन् // 2 // 1 // 11 // एकत्वविशिष्टार्थवृत्त्योर्युष्मदस्मदोर्मान्तावयवस्य स्वसम्बन्धिन्यन्यसम्बन्धिनि वा स्यादौ परे प्रत्ययोत्तरपदयोश्च परयोर्यथासंख्यं त्व म इत्यादेशौ स्याताम् / त्वाम् / माम् / त्वया / मया // [डसेश्चादू (2 / 1 / 19)] त्वद् मद्॥ त्वयि / मयि / अतिक्रान्तौ त्वाम् [औ] अतित्वाम् अतिमां तिष्ठतः पश्यवा / [शस्] अतित्वान् अतिमान्। [टा] अतित्वया अतिमया। [भ्याम्] अतित्वाभ्याम् अतिमाभ्याम् / [युष्मदस्मदोः (2 / 1 / 6)] अतित्वाभिः अतिमाभिः / [चतुर्थीभ्यस्] अतित्वभ्यम् / अतिमभ्यम् / [पंचमीडसिभ्यस् ] अतित्वद् अतिमद्, 2 / [ओस्] अतित्वयोः अतिमयोः 2 / [आम्] अतित्वाकम् अतिमाकम् / [ङि] अतित्वयि अतिमयि / [सुप्] अतित्वासु अतिमासु / सि जस् ङस्सु पुनः परत्वात् त्वम् अहम् आदयः / प्रत्ययोत्तरपदयोः [उदाहरणानि निर्दिश्यन्ते इत्यर्थः] / तवायं त्वदीयः। ममायं मदीयः [दोरीयः (6 / 3 / 32)] / त्वन्मयम् / मन्मयम् / त्वद्यति मद्यति / त्वद्यते मद्यते / त्वत्कृतम् मत्कृतम् / [उदाहरणानि उत्तरपदे-तव पुत्रः, तव हितम् ] त्वत्पुत्रः मत्पुत्रः / त्वद्धितम् मद्धितम् / प्रत्ययोत्तरपदे चेति किम् ? त्वय्यधि [इदं वाक्यं] / अधियुष्मद् / अध्यस्मद् / मन्तस्येत्येव-त्वकं पितास्य [वाक्यमिदम् ] त्वकपितृकः। अत्राऽका सहितस्य माभूत् // 11 // अ० प्रत्ययश्चोत्तरपदं च प्रत्ययोत्तरपदम् तस्मिन् / त्वाम् माम् / युष्मद् अस्मद् / त्वामाचष्टे मामाचष्टे / 'णिज् बहुलं०' (3 / 4 / 42) इति णिच् / 'त्र्यन्त्यस्वरादेः' (7 / 4 / 43) अद् इति लुप्यते / युष्मयति अस्मयतीति क्विपि 'णेरनिटि' (4 / 3 / 83) णौ लोपे च युष्म् अस्म् इति प्रकृतिर्जाता / द्वितीयाऽम् / 'त्वमौप्रत्यय०' (2 / 1 / 11) इति त्व म आदेशः / 'अमौ मः' (2 / 1 / 16) अम्स्थाने म् / युष्मदस्मदोः' (2 / 1 / 6) इति आकारः / अथवा युष्मद् अस्मद् / द्वितीयाऽम् / 'अमौ मः' इति म् / तदन्तरं 'युष्मदस्मदोः' इत्याकारः / पश्चात् युष्म् अस्म् इति प्रकृतेः 'त्वमौ प्रत्ययः' इति सूत्रेण त्व म आदेशः / एवमपि त्वाम् माम् इति शब्दव्युत्पत्तिर्घटते / / त्वदागतं त्वन्मयम् / मदागतं मन्मयम् / 'नृहेतुभ्यो रूप्यमयटौ वा' (6 / 3 / 156) अनेन मयट् / 'प्रत्यये च' (1 / 3 / 2) इत्यनेन दस्य नकारः // युष्मद् अस्मद् / त्वामिच्छति त्वद्यति मामिच्छति मद्यति / 'अमाव्यय०' (3 / 4 / 23) इति क्यन् / युष्म अस्म इत्यस्य त्व म आदेशः / त्वद्यते-युष्मद् त्वमिवाचरति / मद्यते-अस्मद् अहमिवाचरति 'क्यङ्' (3 / 4 / 26) इति सूत्रेण क्यङ्प्रत्ययः त्वद्यते मद्यते / यावत्प्रत्यये उदाहरणानि ज्ञातव्यानि / / त्वया कृतं त्वत्कृतम् / अधियुष्मद्-युष्मद् अग्रेऽधिशब्दः, त्वय्यधि अधियुष्मद् / मय्यधि अध्यस्मद् / 'प्रथमोक्तं प्राक्' (3 / 1 / 148) इति सूत्रेण अधिशब्दस्य पूर्वनिपातः / प्रथमासिः / 'अनतो लुप्' (1 / 4 / 59) इति सेर्लुप् // 11 // त्वमहं सिना प्राक्चाकः // 2 // 1 // 12 //