________________ श्रीसिद्धहेमशब्दानुशासने द्वितीयाध्यायस्य प्रथमः पादः भ्यम् / अस्मभ्यम् // त्वद् / मद् / अतित्वद् / अतिमद् / युष्मद् अस्मद् // (पञ्चमीभ्यस्ङसेश्चाद्)॥ युष्माकम् अस्माकम् (आम् आकम्) / शेषे इति किम् ? त्वयि / मयि // 8 // .: अ शेषे लुक्' अस्मिन् सूत्रे युष्मद् अस्मद् इति प्रकृतेर्दकारस्य लुक् क्रियते / न णिजन्तप्रकृतेः / अघटनात् / इत्यनुमीयते / पञ्चमी ङसि / त्वद् / मद् / 'शेषे लुक्' दस्य लुक् / 'त्वमौ प्रत्ययो०' (2 / 1 / 11) त्व म / ‘डसेश्चाद्' / इसि स्थाने अद् इत्यादेशः / अतित्वद् / त्वामतिक्रान्तो यः तस्मात् // युष्मद् / अस्मद् / पञ्चमीभ्यस् // 8 // मोर्वा // 2 // 1 // 9 // युष्मदस्मदोर्मकारान्तयोः स्वसम्बन्धिन्यऽन्यसम्बन्धिनि वा शेषे स्यादौ परे मकारस्य वा लुक् स्यात् / पुगं युष्मान् वा / आवां अस्मान् वाचष्टे णिचि त्र्यन्त्यस्वरादेः अलोपे युष्मयति अस्मयतीति किपि युष्म् भस्म् इति मान्तत्वम् / [चतुर्थीभ्यस् ‘अभ्यं भ्यसः' (2 / 1 / 18)] युष्मभ्यं युषभ्यम् / अस्मभ्यम् असभ्यम् // [पंचमीभ्यस् 'उसेवाद्' (2 / 1 / 19)] युष्मद् / युषद् / अस्मद् / असद् / [आम आकम् (2 / 1 / 20)] युष्माकं युषाकम् / अस्माकम् असाकम् / शेष इत्येव / युषान् / असान् / युषाभिः / असाभिः / युषासु / असासु / एषु पूर्वेण मस्यात्वम् // 9 // .. अ० 'मोर्वा' अस्मिन् सूत्रे उदाहरणेषु युष्म् अस्म् इति प्रकृतिज्ञैया / युवां युष्मान्वाचष्टे इत्येकवचनवाक्यं प्रवाहमात्रम् / वाक्यं तु युवां युष्मान्वा आचक्षाणेभ्यः आचक्षते वा इति कार्यम्, बहुत्वविषयत्वात् / पूर्वेणेति / 'युष्मदस्मदोः' (2 / 1 / 6) इत्यनेन / / 9 / / मन्तंस्य युवावौ द्वयोः // 2 // 1 // 10 // द्वित्वविशिष्टार्थवृत्त्योर्युष्मदस्मदोर्मन्तस्य मकारावसानावयवस्य तत्सम्बन्धिन्यन्यसम्बन्धिनि वा स्यादौ परे यथासंख्यं युव आव इत्यादेशौ स्याताम् / [औ] युवाम् / आवाम् / [भ्याम् ] युवाभ्याम् / आवाभ्याम् / [ओस् ] युवयोः / आवयोः / [अन्यसंबंधि उदाहरण] [औ] अतिक्रान्तौ युवां अतियुवाम् / अत्यावाम् / [ऽम्] अतिक्रान्तं युवाम् अतियुवाम् अत्यावाम् पश्य / [शस्] अतियुवान् / अत्यावान् / [टा] अतियुवया / अत्यावया // अतियुवाभिः / अत्यावाभिः // [चतुर्थीभ्यस्] अतियुवभ्यम् / अत्यावभ्यम् [पंचमी डसि / भ्यस्] अतियुवत् / अत्यावत् / [आम् / ] अतियुवाकम् अत्यावाकम् / ['टायोसियः' डि] अतियुवयि / अत्यावयि / [सुप्] अतियुवासु। अत्यावासु / सि जस् ङे ङस् इत्येतेषु परेषु परत्वात् त्वम् अहम् इत्यादयः। मन्तस्येति किम् ? मान्तावधेर्यथा स्यात् न तु सर्वस्य तेन युवकाभ्याम्, आवकाभ्यामऽत्राक्श्रुतिः / द्वयोरिति युष्मदस्मद्विशेषणं किम् ? युष्मानतिक्रान्तौ [औ] अतियुष्माम् / अत्यस्माम् / अतियुष्माभ्याम् / अत्यस्माभ्याम् / अतियुष्मयोः अत्यस्मयोः। अत्र समास एव द्वित्वेऽर्थे न युष्मदस्मदी इति न युवावो / स्यादावित्येव-[युवयोः पुत्रः] युष्मत्पुत्रः / [आवयोः पुत्रः] अस्मत्पुत्रः / युष्मदीयम् / अस्मदीयम् // 10 // . अ० युवामतिक्रान्ता ये ते अतियूयम् / तान् अतियुवान् अत्र शस् / ‘शंसो नः' (2 / 1 / 17) युवामतिक्रान्तो यः / तेन / 'टाङयोसि यः' (2 / 17) / युवामतिक्रान्ता ये तेऽतियूयम् तैः अतियुवाभिः / अत्यावाभिः / 'युष्मदस्मदोः' (2 / 1 / 6) इत्यनेन आकारः / युवामतिक्रान्ता ये तेभ्यः / चतुर्थीभ्यस् 'अभ्यं भ्यसः' (2 / 1 / 18) इति 1. अत्र अतिक्रमणकारिव्यक्तिसम्बन्धि द्वित्वम्, नतु युष्मदस्मदोः सम्बन्धि /