________________ 66 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिते मध्यमवृत्त्यवचूरिभ्यामलङ्कृते आत्वं भवति / एकदेशे विकारस्यानन्यत्वात् / / 5 / / युष्मदस्मदोः // 2 // 16 // युष्मद्अस्मद्इत्येतयोः स्वसम्बन्धिन्यन्यसम्बन्धिनि वा व्यञ्जनादौ स्यादौ परे आ इत्यन्तादेशः स्यात् / [अम्] त्वाम् / माम् / अतित्वाम् / अतिमाम् / [औ] युवाम् आवाम् / अतियुवाम् / / युष्मान् / अस्मान्। अतियुष्मान् / अत्यस्मान् / युवाभ्याम् / आवाभ्याम् / युष्माभिः अस्माभिः / युष्मासु अस्मासु / युष्मयते. रस्मयतेश्व किपि युष्म् अस्म् / अनयोरमौभ्याम्सु परत्वात् त्वमाद्यादेशे कृते पश्चादात्वम् / व्यञ्जन इत्येवयुष्मभ्यम् / अस्मभ्यम् [‘अभ्यं भ्यसः' (2 / 1 / 18) इति अभ्यम् // 6 // ___ अ० 'युष्मदस्मदो' रितिसूत्रेण शब्दस्यान्ते स्वरस्य व्यञ्जनस्य वा आकारः क्रियते इति ज्ञेयं युष्मदस्मदोः / अस्मिन् सूत्रे अम् औ शस्भ्यां भिस् सुप् एवं 6 वचनानि / अम्-औ स्थाने म् / शस् स्थाने न् / स्यादिविषयं व्यञ्जनं निमित्तं ज्ञातव्यम् न सिभ्यस् इत्यादयो ग्राह्याः, तेषु त्वं अहम् इत्यादि आदेशा वक्ष्यन्ते / / त्वाम् माम् इत्यत्र युष्मद् अस्मद् / त्वामाचष्टे मामाचष्टे ‘णिज् बहुलं नाम्नः कृगादिषु' (3 / 4 / 42) इति णिज् / 'अंप्रयोगीत्' (1 / 1 / 37) इ इति तिष्ठति / 'त्र्यन्त्यस्वरादेः' (7 / 4 / 43) इति सूत्रेण अन्त्यस्वरादिलोपः / अद् इति लुप्यते / युष्म् अस्म् इति प्रकृतिर्जाता / युष्मयतीति अस्मयतीति क्विप् / 'अप्रयोगीत्' विप्लोपः / ‘णेरनिटि' (4 / 3 / 83) इति णिज् लुप्यते / युष्म् अस्म् अग्रे द्वितीयाऽम् / 'त्वमौ प्रत्ययोत्तरपदे चैकस्मिन्' (2 / 1 / 11) इति सूत्रेण युष्म् अस्म् स्थाने त्व म इति आदेशौ यथा सङ्ख्यम् / 'अमौ मः' (2 / 1116) इति सूत्रेण अमस्थाने म् इत्यादेशः। तदनन्तरं 'युष्मदस्मदोः' इति सूत्रेण आकारः / त्वाम् माम् इति सिद्धिः / युवाम् आवाम् अत्र युष्मद् अस्मद् / युवामावामाचष्टे णिच् / 'त्र्यन्त्यस्वरादेः' / प्रथमाद्वितीया औ / 'मन्तस्य युवावौ द्वयोः' (2 / 1 / 10) इति सूत्रेण युव आव / 'अमौ मः' औस्थाने म् आदेशः / 'युष्मदस्मदोः' इति आत्वम् / युवाम् आवाम् इति सिद्धम् / अतित्वाम् अतिमाम् त्वामतिक्रान्तो यः मामतिक्रान्तो यः / अम् / अतियुवाम् अत्यावाम् युवामतिक्रान्तौ यौ तौ अतियुवाम्, आवामतिक्रान्तौ यौ तौ अत्यावाम् / युष्मान् अस्मान् / अत्र 'शसो नः' (2 / 1 / 17) शस् स्थाने न् आदेशः / युष्मानतिक्रान्ता ये अस्मानतिक्रान्ता ये तान् / युष्मभ्यम् अस्मभ्यम् इत्यत्र 'लुगस्यादेत्यपदे' (2 / 1 / 113) अनेन युष्मअस्मयोरकार लोपः / ‘शेषे लुक्' (2 / 1 / 8) अनेन युष्मद् अस्मद् इति दकारो लुप्यते // 6 // टायोसि यः // 2 // 17 // युष्मदस्मदोः स्वसम्बन्धिष्वऽन्यसम्बन्धिषु वा टा ङि ओस् इति परेषु यकार [अन्त] आदेशः स्यात् / टा] त्वया / मया। अतियुवया / अत्यावया। [डि] त्वयि / मयि / अतित्वयि / अतिमयि / [ओस् ] युवयोः। आवयोः // 7 // अ० 'टाड्योसि यः' इत्यनेनापि सूत्रेण शब्दप्रान्ते स्वरभ्य व्यञ्जनस्य वा यकारोऽन्तादेशः क्रियते / युवामतिक्रान्तो यः / आवामतिक्रान्तो यः / तेन / त्वमतिक्रान्तो यः / अहमतिक्रान्तो यः स अतित्वम्, अत्यहम्। तस्मिन् // 7 // शेषे लुक् // 2 // 18 // यस्मिन् प्रत्यये [अम् औ भ्यां भिस् सुप् / टा ङि ओस् ] आत्व-यकारौ विहितौततोऽन्यः [भ्यस् ङसि आम् एवं वचन 3 शेष इति संज्ञया ज्ञातव्याः] शेषः / तस्मिन् स्यादौ परै युष्मदस्मदोरऽन्तस्य [दस्य] लुक् स्यात् / युष्म