________________ 65 श्रीसिद्धहेमशब्दानुशासने द्वितीयाध्यायस्य प्रथमः पादः - जराशब्दस्य स्वसम्बन्धिन्यऽन्यसम्बन्धिनि वा स्यादौ स्वरादौ जरस् इत्यादेशो वा स्यात् / जरसौ। जरसः। जरसम् / जरसः / जरसा / जरसे / जरसः 2 / जरसोः 2 / जरसाम् / जरसि / पक्षे [औ] अरे / [जस्] जराः / [अम्] जराम् / [शस्] जराः / [टा] जरया / [3] जरायै / [डसिडस् ] जरायाः 2 / इत्यादि / एकदेशविकृतस्याऽनन्यत्वात् [औ] अतिजरसौ अतिजरौ, 2 / [जस्] अतिजरसः / अतिजराः / [अम्] अतिजरसम् अतिजरम् / [शस्] अतिजरसः / अतिजरान् / [टा] अतिजरसा। अतिजरेण / [भिस्] अतिजरसैः। अतिजरैः। कि] अतिजरसे / अतिजराय। (ङसि) अतिजरसः। अतिजरात् / (ङस) अतिजरसः। अतिजरस्य इत्यादि। नपुंसके स्यऽमोरम्भावे / [अम्] अतिजरसम् / अतिजरम् / 'जरसो वा' (11460) इति लुपि तु [सि] अतिजरः / अतिजरसी अतिजरे तिष्ठतः पश्य वा // 3 // ____ अ० एकदेशेति / जरा शब्दस्य जरस् आदेश उक्तोऽस्ति / जर इति अकारान्तस्यापि जरस् भवतीत्यर्थः / अतिजरसौ। अतिजरौ इत्यादि / जरामतिक्रान्तौ अतिजरसौ अतिजरौ / जरामतिक्रान्ताः अतिजरसः अतिजराः पुरुषाः / जरामतिक्रान्तं अतिजरसम् अतिजरम् / जरामतिक्रान्तास्तेऽतिजरसः / तान् अतिजरसः अतिजरान् / जरामतिक्रान्तः तेन अतिजरसा अतिजरेण / जरामतिक्रान्ता ये तेऽतिजरसः / तैः अतिजरसैः / अतिजरैः / एवं सर्वत्र पुंल्लिङ्गे वाक्यानि कार्याणि / तस्मै अतिजरसे अतिजराय / तस्मात् अतिजरसः अतिजरात् / सर्वत्र 'गोश्चान्ते हस्व०' (2 / 4 / 96) इत्यनेन ह्रस्वः / जरा इत्यस्य जर / 'जराया जरस्वा' इति विकल्पेन जरस् आदेशः / अतिजरसोः अतिजरयोः / अतिजरसाम् अतिजराणाम् / अतिजरसि अतिजरे / नपुंसके स्यमोरम्भावे अतिजरसम् इत्यादि / जरा. अति. / जरामतिक्रान्तं तत् अतिंजरसम् अतिजरम् / ‘क्लीबे' (2 / 4 / 97) इति ह्रस्वः-अतिजर / प्रथमासिः। 'अतःस्यमोऽम्' (1 / 4 / 57) अनेन सेः स्थाने अम् आदेशः / 'जराया जरस्वा' इति विकल्पेन जरस् आदेशः। यत्र जरस् तत्र अतिजरसम् इति प्रयोगः / यत्र च जरस् आदेशो न भवति तत्र अतिजरम् इति प्रयोगः / 'जरसो वे'ति लुपि तु अतिजरः / इति / जरामतिक्रान्तं अतिजरः / प्रथमासिः / ‘क्लिबे' ह्रस्वः / 'अतःस्यमोऽम्' सेः स्थानेऽम् / 'जराया जरस्वा' इति जरस् / ततो 'जरसो वा' इति अम् लुप्यते / ‘सो रुः' (2 / 1 / 72) / 'रः पदान्ते विसर्गस्तयोः' (1 / 3 / 53) अतिजरः इति सिद्धम् / / 3 / / अपोऽद्भे // 2 // 1 // 4 // अप् इत्यस्य स्वसम्बन्धिन्यन्यसम्बन्धिनि वा भकारादौ स्यादौ परे अद् इत्यादेशः स्यात् / अद्भिः / अद्भयः। स्वद्भ्याम् / अत्यद्भयाम् / भे इति किम् ? आपस्तिष्ठन्ति / अपः पश्य / अपाम् / अप्सु // 4 // 'अ० शोभना आपो ययोः / अतिशयिता आपो ययोः / तौ स्वापौ / / ताभ्या स्वद्भ्याम् / अत्यद्भ्याम् / आपः इत्यत्र ‘अपः' (1 / 4 / 88) इति सूत्रेण दीर्घः / / 4 / / .. आ रायो व्यञ्जने // 2 // 1 // 5 // स्वसन्बन्ध्यिन्यसम्बन्धिनि वा व्यञ्जनादौ स्यादौ परे रैशब्दस्य आकार आदेशः स्यात् / राः हे राः / अतिराः / राभिः / रासु / एकदेशविकृतस्यानन्यत्वात् अतिराभ्यां कुलाभ्याम् / अतिरासु / व्यञ्जन इति किंम् ? रायौ / रायः / रायम् / स्भीत्येव सिद्धे व्यञ्जनग्रहणमुत्तरार्थम् // 5 // अ० रायमतिक्रान्ते ये कुले तेऽतिरिणी / ताभ्याम् / तेषु / ‘क्लीबे' इति ह्रस्वः / रैशब्दस्य रि / रि इत्यस्यापि