________________ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिते मध्यमवृत्त्यवचूरिभ्यामलते त्रिचतुरस्तिसृचतसृ स्यादौ // 2 // 1 // 1 // स्त्रियामित्यनुवर्तते / त्रि चतुर् इत्येतयोः स्त्रीलिङ्गे वर्तमानयोस्तत्सम्बंधिन्यन्यसम्बन्धिनि वा स्यादौ विभक्तौ यथासंख्यं तिसृ चतसृ इत्यादेशौ भवतः / तिम्रः तिष्ठन्ति पश्य वा / चतम्रस्तिष्ठन्ति पश्य वा / तिसृभिः / चतसृभिः। तिसृभ्यः / चतसृभ्यः / तिसृणाम् / चतसृणाम् / प्रियतिसा पुरुषः / प्रियतिम्रौ। प्रियतिम्रः / एवं प्रियचतसा पुरुषः / प्रियतिसृ कुलम् / प्रियतिसृणी। प्रियतिसृणि / एवं प्रियचतसृ कुलम्। स्यादाविति किम् ? प्रियत्रिकः। प्रियचतुष्कः / तिसृणां प्रियः त्रिप्रियः / चतुष्प्रियः / प्रियत्रिकुलम् / प्रियचतुष्कुलम् / कथं तर्हि प्रियतिसृ कुलम् ? 'नामिनो लुग्वा' (1 / 4 / 61) इति लुकि सति स्थानिवद्भावाद्भविप्यति / यथा हे वारे / स्त्रियामित्येव त्रयः चत्वारः / त्रीणि / चत्वारि / प्रियास्त्रयस्त्रीणि वा यस्याः सा प्रियत्रिः / प्रियत्री / प्रियत्रयः / एवं प्रियचत्वाः / अत्र त्रिचतुरावऽस्त्रियाम्, समास एव तु स्त्रियामित्यादेशौ न स्याताम् // 1 // ___ अ० प्रियास्तिस्रोऽस्य प्रियतिसा / प्रियास्तिस्रोऽनयोः प्रियतिम्रौ / प्रियास्तिस्र एषां प्रियतिस्रः पुरुषाः / प्रियाश्वतम्रोऽस्य प्रियचतसा / प्रियाश्चतस्रोऽनयोः प्रियचतम्रौ / प्रियाश्चतस्र एषां प्रियचतस्रः / तथा प्रियास्तिस्रोऽस्य कुलस्य प्रियतिसृ कुलम् / प्रियाश्चतस्रोऽस्य कुलस्य प्रियचतसृ कुलम् / प्रियास्तिस्रोऽनयोः कुलयोः प्रियतिसृणी / प्रियास्तिस्र एषु कुलेषु प्रियतिसृणि कुलानि / एवं प्रियचतसृणी, प्रियचतसृणि इति ज्ञातव्यानि / अत्र सर्वत्र त्रिचतुरौ स्त्रियाम्, समासः पुंक्लीबे च / अतस्तिसृचतसृ आदेशः सिद्धः / प्रियतिसा पुरुष इत्यादिषु उदाहरणेषु विभक्त्याश्रयत्वेन बहिरङ्गलक्षणस्य तिसृचतस्रादेशस्यासिद्धत्वात्समासान्तः कच् न भवति / / प्रियतिसृणी। प्रियतिसृणि इत्यादिषु उदाहरणेषु परत्वाच्च तिस्रादेशे कृते पश्चान्नागमः / / प्रियास्तिम्रो यस्य प्रियाश्चतस्रो यस्य ‘शेषाद्वा' (7 / 3 / 175) इति सूत्रेण कच् समासान्तः। प्रियचतुष्कः / अत्र च / 'निर्दुर्बहिराविष्प्रादुश्चतुराम्' (2 / 3 / 9) इंति सूत्रेण रकारस्य षकारः / चतसृणां प्रियश्चतुःप्रियः / प्रियाश्चत्वारश्चत्वारि वा यस्याः सा प्रियचत्वाः / / 1 / / ऋतो रः स्वरेऽनि // 2 // 12 // .. तिसृचतसृसम्बन्धिन अकारस्य स्थाने तत्सम्बन्धिन्य सम्बन्धिनि वा स्यादौ परे रादेशः स्यात्, अनिनकारविषयादऽन्यत्र / समानदीर्घत्वअडुरामऽपवादः। तिम्रः / [जस् शस् वा] चतम्रस्तिष्ठन्ति पश्य // प्रियतिम्रौ। [प्रथमाद्वितीया औ] प्रियचतम्रौ / प्रियतिम्रम् [अम्] प्रियचतम्रम् / प्रियतिम्रः प्रियचतम्रः [डसि डस् वा] आगतं स्वं वा / प्रियतिम्रि। प्रियचतम्रि निधेहि / अनीति किम् ? [अनाम् स्वरे नोऽन्तः / (1 / 4 / 64)] प्रियतिसृणी प्रियचतसृणी // प्रियतिसृणि [स्वराच्छौ (1 / 4 / 65) नोऽन्तः / / तिसृणाम् / ऋत [ऋत इति कृतं इति संबंधः] इति तिसृचतम्रोः प्रतिपत्त्यर्थम् / अन्यथा तदऽपवाद [तिसृचतसृबाधक] स्त्रिचतुरोरेवायमादेशो विज्ञायेत // 2 // ___ अ० समानदीर्घत्व इत्यादि / 'शसोऽता सश्च नः पुंसि' (1 / 4 / 49) इति दीर्घः / 'अझै च' (1 / 4 / 39) इति अर् / 'ऋतो डुर्' (1 / 4 / 37) इति डुर् / इत्येतेषां प्राप्तौ // 2 / / जराया जरस्वा // 2 // 1 // 3 //