________________ 63 श्रीसिद्धहेमशब्दानुशासने द्वितीयाध्यायस्य प्रथमः पादः (7 / 1 / 149) अनेन डावतुप्रत्ययः / 'ऋदुदितः' नोऽन्तः // भवान् इत्यादौ सर्वत्र ‘आगमोऽनुपघाती' इति वचनात् नागमे सत्यपि दीर्घो भवत्येव / / पिण्ड / 'ग्रसूङ ग्लसूङ् अदने' ग्रस् / पिण्डं ग्रसते पिण्डग्रः / / चर्म / 'वसिक् आच्छादने' वस् / चर्मवस्ते चर्मवः किम् / / अभ्वादेरिति वचनं इति ज्ञापनार्थं कृतमिति सम्बन्धः, अयं परमार्थःतथाहि ‘अर्थवद्ग्रहणे नानर्थकस्य' अस्यार्थः-सार्थके सूत्रप्रवृत्तिः निरर्थक सूत्रप्रवर्त्तनं न भवतीति न्यायार्थः / इन्प्रत्ययः साक्षात् सार्थकः, विन्मिन्प्रत्ययादौ इन् निरर्थकः / अस्प्रत्ययः साक्षात्सार्थकः, तस्प्रत्ययेऽस् निरर्थकः / यत्र सूत्रे अनंतइनंतअसंतमनंतानां कार्यं प्रोक्तमस्ति तत्र सूत्रे अन् इन् अस् मन् इति सार्थका अपि निरर्थका अपि ग्राह्याः / सार्थकनिरर्थकयोरुभयोरपि तदन्तयोः प्रत्यययोः कार्यं भवतीति अभ्वादेरिति करणेन ज्ञापितं इति भावः / खरस्येव, खुरवन्नासिका यस्य 'खरखुरानासिकायानस्' (7 / 3 / 160) अनेन नासिकाया नस् आदेशः समासान्तः, 'पूर्वपदस्थानाम्न्यगः' (2 / 3 / 64) इति णत्वम् / उदित्करणेत्यत्र उकारानुबन्धकरणात् ऋकारानुबन्धस्य प्रत्ययस्य दी? न स्यात् / 'जृष् पृष्च् जरसि' जृ / जीर्यति स्म जरन् / 'जृषोऽतृः' (5 / 1 / 173) अनेन अतृप्रत्ययः। ऋकारो दीर्घनिषेधार्थः // 90 // . क्रुशस्तुनस्तृच् पुंसि // 14 // 91 // कुशः परो. यस्तुन् तस्य शेषे घुटि परे तृजादेशः स्यात्, पुंसि / क्रोष्टा क्रोष्टारौ क्रोष्टारः / पुंसीति किम् ? कृशक्रोष्ट्रनि वनानि / शेषे इत्येव-हे क्रोष्टो / + 'क्रोष्टोः क्रोष्ट' इत्यनुक्त्वा तृज्वचनं 'तृस्वसृ०' (1 / 4 / 38) इति सूत्रेणारर्थम् // 11 // - अ० 'क्रुशं आह्वानरोदनयोः'। क्रुश् / क्रोशतीति क्रोष्टा / 'कृसिकम्यमिगमितनिमनिजन्यसिमसिसच्यविभाधागाग्लाम्लाहन्हायाहिशिपूभ्यस्तुन्' (773) इत्यौणादिकसूत्रेण तुन् / 'लघोरुपान्त्यस्य' (4 / 3 / 4) गुणः / 'यजसृज०' (2 / 1 / 87) इति शकारस्य षकारः / 'तवर्गस्य०' (1 / 3 / 60) इति तस्य टः / घुटि परे सति तुन् इत्यस्य तृच् आदेशः कार्यः / 'ऋदुशन' (1 / 4 / 84) इति आत्वम् / / 'तृस्वसृ०' (1 / 4 / 38) इति आर् / / कृशाः क्रोष्टारो येषु वनेषु तानि / / +क्रोष्टु इति शब्दस्य क्रोष्ट्र आदेशः स्यात् इति सूत्रार्थे यत् न कृतं इति अक्षरार्थः // 91 / / ... टादौ स्वरे वा // 11492 // टादौ स्वरादौ परे क्रुशः परस्य तुनस्तृजादेशः पुंसि वा स्यात् / क्रोष्ट्रा क्रोष्टुना / क्रोष्ट्रे क्रोष्टवे / [डसि डस्] क्रोष्टुः क्रोष्टोः / [ओस् ] क्रोष्ट्रोः क्रोष्ट्वोः [ङि] क्रोष्टरि क्रोष्टौ / क्रोष्ट्रनाम्-अत्र नित्यत्वात् पूर्व ['हस्वापश्च' (1 / 4 / 32)] नामादेश स्वराभावान भवति / टादाविति किम् ? क्रोष्ट्रन् / पुंसीत्येव कृशक्रोष्टने बनाय / यद्यपि तृप्रत्ययान्तो मृगवाची स्यात्, तथापि प्रयोगनियमो दुर्विज्ञान इत्यादेशवचनम् // 12 // ... अ० कृशाः क्रोष्टारो यत्र // 92 / / इति प्रथमाध्यायस्यावचूरिः समाप्तः // 4 // स्त्रियाम् // 1 / 4 / 93 // घुटीति न संबध्यते-'कुशस्तुनस्तृच पुंसि' 'स्त्रियां च' इत्येकयोगाकरणात् [एकसूत्र अकरणात्] / स्त्रियां वर्त्तमानस्य क्रुशः परस्य तुनस्तृजादेशः स्यात् / निर्निमित्त एव / क्रोष्ट्री / अत्र प्रागेव तृजादेशे ऋदन्तत्वात् स्त्रियां नृतोऽस्वस्रादेर्डीः (2 / 4 / 1)] इति ङीः। क्रोष्ट्रयौ / क्रोष्ट्रयः। क्रोष्ट्रीम् / क्रोष्ट्रया। हे क्रोष्ट्रि // 93 // ग्रं०२५५॥ इति श्रीसिद्धहेमशब्दानुशासने प्रथमस्याध्यायस्य मध्यमवृत्त्यवचूरिभ्यामलङ्कृतः चतुर्थः पादः समाप्तः / / 4 / /