________________ 62 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिते मध्यमवृत्त्यवचूरिभ्यामलते प्रियपुमांसि 'पुंसोः पुमन्स्' (1 / 4 / 73) इति पुम्सशब्दस्य पुमन्स् / अनेन दीर्घः / 'शिड्हेऽनुस्वारः' (1 / 3 / 40) // 86 // इन्हन्पूषार्यम्णः शिस्योः // 14 // 87 // इनन्तस्य हनादीनां च सम्बन्धिनः स्वरस्य शौ शेषे सौ च परे दीर्घः स्यात् / दण्डीनि वाग्मीनि कुलानि। दण्डी वाग्मी / भ्रूणहानि / भ्रूणहा / वृत्रहा / बहुपूषाणि / पूषा / स्वर्यमाणि / अर्यमा / 'नि दीर्घ' इति सिद्धे नियमार्थमिदम् / एषां शिस्योरेव यथा स्यात्, नान्यत्र-दण्डिनौ दण्डिनः / वृत्रहणौ वृत्रहणः / पूषणौ पूषणः / अर्यमणौ अर्यमणः / शेष इत्येव-हे दण्डिन् // 87 // अ० इन् च हन् च पूषा च अर्यमा च / तस्य / षष्ठीङस् / 'अनोऽस्य' (2 / 1 / 108) इति अनोऽकारलोपः। दण्डोऽस्यास्तीति दण्डी / 'अतोऽनेकस्वरात्' (7 / 2 / 6) इन् / 'अवर्णेवर्णस्य' (74 / 68) / / वाचोऽस्यास्तीति 'ग्मिन्' (7 / 2 / 25) इति ग्मिन् // भ्रूण / ‘हनंक् हिंसागत्यो' हन् / भ्रूणं हतवन्ति इति बहुत्वे, भ्रूणं हतवान् इति एकत्वे वाक्यम् / ‘ब्रह्मभ्रूणवृत्रात् विप्' (5 / 1 / 161) अनेन क्विप् / वृत्रं हतवान् वृत्रहा / 'ब्रह्मभ्रूणवृत्रात् क्किप्' अनेन किप् / बहवः पूषाणो येषां तानि / शोभनोऽर्यमा येषु कुलेषु तानि / / 87|| . . अपः // 14 // 88 // अपः स्वरस्य शेषे घुटि परे दीर्घः स्यात् / आपः / शोभना आपो यत्र स स्वाप् / स्वापौ / स्वापः। स्वापम् / बह्नपा इत्यत्र तु समासान्तेन व्यवधानान्न भवति // 8 // अ० बह्वय आपो येषु जलाशयेषु ते बह्वपाः' / 'ऋक्पःपथ्यपोऽत्' (7 / 3 / 76) अनेन अत्समासान्तः / प्रथमाजस् / / 88 // नि वा // 14 // 89 // अपः स्वरस्य नागमे सति घुटि परे वा दीर्घः स्यात् / स्वाम्पि / स्वम्पि / समासान्तविधेरनित्यत्वात्बाम्पि / बहम्पि // 89 // अ० शोभना आपो येषु तानि स्वाम्पि स्वम्पि पानानि / बह्वय आपो येषु तानि बह्वाम्पि / बह्वम्पि-अत्र आत् न भवति // 89 // अभ्वादेरत्वसः सौ // 14 // 90 // अत्वन्तस्य असन्तस्य च भ्वादिवर्जितस्य स्वरस्य शेषे सौ परे दीर्घो भवति / अतु-भवान् / गोमान्। कृतवान्। एतावान् / अस्- अप्सराः / चन्द्रमाः / सुमनाः / अभ्वादेरिति किम् ? पिण्डग्रः / चर्मवः / 'अर्थवद्ग्रहणे नानर्थकस्य' इत्येव सिद्धेऽभ्वादेरिति वचनम् ‘अनिनस्मन्ग्रहणान्यर्थवताऽनर्थकेन च तदन्तविधि प्रयोजयन्तीति' ज्ञापनार्थम् तेनात्रापि भवति / खरणाः / खुरणाः / अधातोरित्यकृत्वाऽभ्वादेरिति करणं भ्वादीनामेव वर्जनार्थम् / तेनेह स्यात्-गोमन्तमिच्छति क्यनि किपि गोमान् / अतु इति उदित्करणादृदितो न स्यात्-पचन् / जरन् // 90 // __ अ० भवान् / 'भांक् दीप्तौ' भा / भातीति भवान् / 'भातेर्डवतुः' (886) इति डवतुप्रत्ययः / / गो / गावो विद्यन्तेऽस्य 'तदस्यास्त्यस्मिन्निति मतुः' (7 / 2 / 1) सर्वत्र उकारोऽप्रयोगीत् / / करोतिस्म कृतवान् ‘क्तक्तवतू' (5 / 1 / 174) सर्वत्र 'ऋदुदितः' (1 / 4 / 70) नोऽन्तः // एतत् / एतत्प्रमाणमस्येति वाक्ये 'यत्तदेतदो डावादिः 1. 'परतः स्त्री० ... 3 / 2 / 49' अनेन पुंवद्भावः /