________________ श्रीसिद्धहेमशब्दानुशासने प्रथमाध्यायस्य चतुर्थः पादः इति पूर्वसूत्रेण / +अत्र सूत्रे शेषस्य घुट आघ्रातत्वात् एतत्सूत्रमुक्तः प्राक्तनसूत्रविषय इति भावः // 82|| सख्युरितोऽशावत् // 14 // 83 // - सखिशब्दस्य इत इकारान्तस्य तत्सम्बन्धिन्यन्यसम्बन्धिनि वा शिवर्जिते घुटि शेषे परे ऐकारान्तादेशः स्यात् / सखायौ / सखायः / सखायम् / हे सखायौ / हे सखायः / सुसखायौ / प्रियसखायः / अशाविति किम् ? अतिसखीनि। प्रियसखीनि कुलानि / इत इति किम् ? इमे सख्यौ। [सखी] सखायमिच्छति [सखीयतीति वाक्ये] क्यनि किपि [सखीः] सख्यौ सख्यः / शेष इत्येव / हे सखे / इदमेव इत्ग्रहणं ज्ञापयति-'नामग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम्' 'एकदेशविकृतमनन्यवत्' इति च // 83 // ___ अ० पूजितौ .सखायौ सुसखायौ / प्रियाः सखायो येषां / पूजितः सखा येषु कुलेषु / / 83 / / ऋदुशनस्पुरुदंशोऽनेहसश्च सेर्डाः // 1 // 4 // 84 // अकारान्तात्-उशनस्-पुरुदंशस्-अनेहस् इत्येतेभ्यः सख्युरितश्च परस्य शेषस्य सेः स्थाने डा इत्यादेशः स्यात् / पिता [अतिशयिता पिता] अतिपिता / कर्ता / उशना / पुरुदंशा / अनेहा / सखा / अत्युशना / किंसखा [कुत्सितः सखा किंसखा] / सुसखा [शोभनः पूजितो वा सखा सुसखा / सख्युरित इत्येव-इयं सखी / सखायमिच्छति क्यनि क्विपि सखीः / शेषस्येत्येव-हे कर्त्तः / हे उशनन् हे उशन् हे उशनः ['वोशनसो नश्चा०' इति रूपत्रयम्] / हे सखे // 8 // ____ अ० ऋच्च उशना च पुरुदंशा च अनेहा च, तस्य, षष्ठीङस् / ऋकारान्तशब्दस्य ‘अझै च' (1 / 4 / 39) इति अरि प्राप्ते, उशनस्-पुरुदंशस्-अनेहस् इति त्रयाणां ‘अभ्वादेरत्वसः सौः (1 / 4 / 90) इति दीर्घत्वे प्राप्ते, अन्त्य-सकारस्य ‘सो रुः' (2 / 1 / 72) इति प्राप्ते; सखिशब्दस्य ऐत्वे प्राप्ते चायमारम्भः कृतः // 84 / / नि दीर्घः // 14 // 85 // - शेषे घुटि परे यो नकारस्तस्मिन् परे पूर्वस्य स्वरस्य दीर्घः स्यात् / राजा राजानौ राजानः राजानम्। सीमा सीमानौ सीमानः सीमानम् / वनानि। दधीनि। मधूनि / कर्तृणि। शेष इत्येव-हे राजन् / हे सीमन् // 85 // स्महतोः // 14 // 86 // न्सन्तस्य महत्शब्दस्य च सम्बन्धिनः स्वरस्य शेषे घुटि परे दीर्घः स्यात् / श्रेयान् श्रेयांसौ श्रेयांसः श्रेयांसम् / परमश्रेयान् / अतिश्रेयान् / प्रियश्रेयान् / श्रेयांसि / यशांसि / सपौषि / धनूंषि / प्रियपुमांसि कुलानि। महान्। महान्तौ / महान्तः। महान्ति / महत्साहचर्याच्छुद्धधातोः किबन्तस्य न भवति सुहिंसौ सुहिंसः। सुकंसौ सुकंसः। नामधातोस्तु भवत्येव-श्रेयांसमिच्छति क्यनि श्रेयस्यतीति विपि श्रेयान् / एवं महान् / 86 // __ अ० न्स् च महच्च / तयोः औणादिको 'दुहिवृहिमहिपृषिभ्यः कतृः' (884) इति कतृप्रत्ययान्तो व्युत्पन्नोऽव्युत्पन्नो वा प्रतिपदोक्तो महत् शब्दो ग्राह्यः / यस्तु शत्रन्तः स महत् लाक्षणिकशब्दः / तस्य महन् इत्येव प्रयोगः / नाऽत्र दीर्घः / / प्रशस्य / अयं प्रशस्योऽयं प्रशस्यः / अयमनयोर्मध्ये प्रकृष्टः श्रेयान् ‘गुणाङ्गा०' (7 / 3 / 9) ईयस् ‘प्रशस्यस्य श्रः' (74 / 34) इति प्रशस्यस्थाने श्र आदेशः / श्रेयस् / अग्रे घुट्वचनानि / 'ऋदुदितः' (1 / 4 / 70) इति सूत्रेण नोऽन्तः / ततो 'न्स्महतोः' दीर्घः / / अतिशयितानि श्रेयांसि यस्य सोऽतिश्रेयान् / / श्रेयांसि यशांसि सप्पीषि धनूंषि- अत्र ‘धुटां प्राक्' (1 / 4 / 66) इति नोऽन्तः / ततो 'स्महतोः' दीर्घः // प्रिया पुमांसो येषु कुलेषु तानि