________________ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिते मध्यमवृत्त्यवचूरिभ्यामलते 'दीर्घश्च्वियङ्' (4 / 3 / 108) इति दीर्घः / पथीय / पथीयति किप् / 'य्वोः प्वय्०' (4 / 4 / 121) यलोपः / पथीशब्दः / औ सति पथ्यौ / जसि पथ्यः / अमि पथ्यम् इति सिद्धम् // 77 / / थो न्थ् // 14 // 78 // पथिन्-मथिन् इत्येतयोन्तियोः थकारस्य स्थाने न्य इत्यादेशो घुटि परे भवति / तथैवोदाहृतम् // 78 // अ० तथैवोदाहृतमिति / 'पथिन्मथिन्क्रभुक्षःसौ' 'ए:' एतयोः सूत्रयोरुदाहरणेषु पन्थाः पन्थानौ पन्थानः पन्थानम् पन्थानौ, मन्थाः मन्थानौ मन्थानः मन्थानम् मन्थानौ इत्यत्र 'थो न्थ्' इति सूत्रं दर्शितम् / उदाहरणानि पूर्वोक्तान्येव ज्ञेयानि इति पृथङ्नोक्तानि / 'थो न्थ' इति थकारस्य न्थ् आदेशः // 78 / / इन् ङीस्वरे लुक् // 14 // 79 // पथ्यादीनां नान्तानां ङीप्रत्ययेऽघुट्स्वरादौ च स्यादौ परे इन् अवयवो लुक् स्यात् / सुपथी स्त्री कुतं वा / पथः / पथा / पथे / पथः 2 / पथोः 2 / पथाम् / पथि / एवं सुमथी स्त्री कुले. वा / मथः / अनृभुः सेना कुले वा / ऋभुक्षः / इत्यादि // 79 // ___ अ० पूर्व निमित्तविशेषानुपादाने घुटीत्यधिकारस्य निर्णीतत्वात्, घुटि परे पथ्यादीनां आकारकरणात्, स्व इति निमित्तविशेषोपादानादघुट्स्वर इति अर्थादेव ज्ञायते / पथिन् / 'स्त्रियां नृतोऽस्वस्रादेर्डी:' (2 / 4 / 1) इति ङी / शोभनाः पन्था यस्याः सा सुपथी / शोभनः पन्था ययोः कुलयोः ते सुपथी / प्रथमा द्वितीया वा औ 'औरीः' (1 / 4 / 56) इति ईः / न विद्यते ऋभुक्षा यस्यां सा अनुभुक्षी / ययोः कुलयोर्वेति // 79 // वोशनसो नश्यामन्त्र्ये सौ // 14 // 8 // आमन्त्र्यार्थवृत्तेः उशनस्शब्दस्य सौ परे नकारो लुक् च अन्तादेशौ वा भवतः / हे उशनन् ['न संधिः (1 / 3 / 52) इति असंधिः] / हे उशन / पक्षे हे उशनः // 8 // अ० उशनसः सकारस्य न इति आदेशः क्रियते / नकारादेशेऽकार उच्चारणार्थः // 8 // उतोऽनडुच्चतुरो वः // 11481 // . आमन्त्र्यार्थवृत्तेरनडुचतुर्शब्दयोरुकारस्य व इति सस्वरादेशः सौ परे स्यात् / हे अनड्वन् [न संधिः]। हे प्रियानड्वन् / हे अतिचत्वः // 81 // ___ अ० अनडुच्चतुरोः / अत्र ‘संसध्वंसक्वस्सनडुहो दः' (2 / 1 / 68) अनेन हकारस्य द् क्रियते / ततो 'अघोर प्रथमोऽशिटः' (1 / 3 / 50) दकारस्य त् / 'तवर्गस्य श्चवर्ग०' (1 / 3 / 60) इत्यनेन तस्य च / / सौ परे इत्यः आमन्त्र्यार्थे सौ परे इति व्याख्येयम् / / 81 / / वाः शेषे // 14 // 8 // आमन्त्र्यार्थे विहितात्सेरन्यो घुट् + इह शेषः। तस्मिन्परे अनडुचतुर्शब्दयोरुकारस्य वा इत्यादेशः स्यात् अनड्वान् / अनड्वाही / अनड्वाहः / अनड्वाहम् / प्रियानड्वांहि कुलानि / प्रियचत्वाः / प्रियचत्वारौ चत्वादि / चत्वारः / शेष इति किम् ? हे प्रियानड्वन् / हे प्रियचत्वः / इह शेषे घुटि वादेशविधानात्पूर्व त्रामन्त्र्यसाविति संबध्यते // 82 // अ० प्रिया अनड्वाहो येषु कुलेषु तानि प्रियानड्वांहि कुलानि / / पूर्वत्रामन्त्र्ये सौ इत्यत्र ‘उतोऽनडुच्चतुरो वः