________________ श्रीसिद्धहमशब्दानुशासने प्रथमाध्यायस्य चतुर्थः पादः तरप्प्रत्ययः / पकारः पुंवद्भावार्थः / ‘आत्' (2 / 4 / 18) इति आप् / 'ऋदुदित्तरतमरूपकल्पब्रुवचेलगोत्रमतहते वा ह्रस्वश्च' (3 / 2 / 63) अनेन सूत्रेण ह्रस्वः, विकल्पेन पुंवद्भावश्च / प्रियपुंसितरा-अत्र ह्रस्वः / प्रियपुंस्तराअत्र पुंवद्भावः / प्रियपुंसीतरा-अत्र पुंवद्भावो नाभूत् इति रूपत्रयम् पुम्सु इति उकारानुबन्धफलमेव दर्शितम् / अत्र पुमन्स् आदेशो न जातः, घुटभावात् // 73 // ओत औः // 14 // 74 // ओकारस्य, ओत एव विहिते घुटि परे औ इत्यादेशः स्यात् / गौः गावौ गावः / द्यौः [द्योशब्दः स्वर्गवाची] यावौ द्यावः / शोभना गौः सुगौः / [अतिशयिता गौः] अतिगौः / हे गौः / ओत इति किम् ? चित्रगुः / विहितविशेषणादिह न स्यात् / हे चित्रगवः [चित्रागावो येषां ते चित्रगवः // 7 // आ अम्शसोऽता // 14 // 75 // [अकारेण] ओकारस्य अम्शसोऽकारेण सह आकारः स्यात् / [अम्] गाम् सुगाम् / [शस्] गाः सुगाः / द्याम् / याः / [अतिशयिता द्यौः अतिद्यौः, शोभना द्यौः सुद्यौः / ताः] अतियाः सुद्याः // 7 // पथिन्मथिन्क्रभुक्षः सौ // 11476 // पथिन्-मथिन्-ऋभुक्षिन् इत्येषां नान्तानामन्तस्य सौ परे आत् स्यात् / पन्थाः / हे पन्थाः / मन्थाः। हे मन्थाः / ऋभुक्षाः / हे ऋभुक्षाः / कथं हे सुपथिन् ? हे सुपथि कुल ? अत्र नित्यत्वानपुंसकलक्षणायां से पि सेरभावान्न भवति / नकारान्तनिर्देशादिह [आकारः] न स्यात्-पथीः / मथीः / ऋभुक्षीः // 6 // अ० पन्था च मन्था च क्रभुक्षा च / तस्य / षष्ठीङस् / ‘इन् डीस्वरे लुक्' (1 / 4 / 79) इत्यनेन इनो लुक् क्रियते / पन्थाः हे पन्थाः / पन्थेति-अत्र 'पथिन्मथिन्' इति सूत्रेण नस्य आकारं कृत्वा 'थो न्थ्' (1 / 4 / 78) इति सूत्रेण थस्य स्थाने न्थ आदेशः // हे सुपथिन् / हेसुपथि-अत्र शोभनः पन्था यस्य कुलस्य ‘क्लीबे वा' (2 / 1 / 93) इति सूत्रेण विकल्पेन नकारस्य लोपः / / पन्थीः मन्थीः ऋभुक्षीः-अत्र पथिन्. मथिन्. ऋभुक्षिन्. पन्थानमिच्छति. मन्थानमिच्छति ऋभुक्षाणमिच्छति इति ‘अमाव्ययात्' (3 / 4 / 23) इति क्यन् / 'नं क्ये' (1 / 1 / 22) इति पद-सञ्ज्ञायां सत्यां 'नाम्नो नोऽनह्नः' (2 / 1 / 91) इति नकारस्य लोपे कृते 'दीर्घश्च्वियङ्' - (4 / 3 / 108) इति सूत्रेण दीर्घ ईकारः। पथीय / मथीय / ऋभुक्षीय / पथीयतीत्यादि 'विप्' (5 / 1 / 148) 'य्वोः प्वय्व्यञ्जने लुक्' (4 / 4 / 121) इति सूत्रेण यकारो लुप्यते / प्रथमासिः / पथीः मथीः ऋभुक्षीः इति सिद्धम् / / 76 / / एः // 11477 // ... पथ्यादीनां नान्तानाम् ए:-इकारस्य घुटि परे आकारः स्यात् / पन्थाः पन्थानौ पन्थानः पन्थानम् / एवं मन्थाः / ऋभुक्षाः [इन्द्रः] / कभुक्षाणी इत्यादि / सुपन्थानि वनानि / बहुमन्थानि कुलानि / अनृभुक्षाणि बलानि / नान्तनिर्देशादिकाराभावाच्च इह न स्यात्-पथ्यौ / पथ्यः / पथ्यम् // 77 // - अ० इ / षष्ठीङस् / 'डित्यदिति' (1 / 4 / 23) इत्यनेन एकारः / ‘एदोद्भयां०' (1 / 4 / 35) डस्स्थाने र्, ए: इति सिद्धम् / शोभनाः पन्थानो येषु वनेषु तानि सुपन्थानि / बहवो मन्थानो येषु कुलेषु तानि बहुमन्थानि / न विद्यते ऋभुक्षाण इन्द्रा येषु बलेषु सैन्येषु तानि अनृभुक्षाणि बलानि / पथ्यौ इत्यादि / पन्थानमिति / 'अमाव्यया०' (3 / 4 / 23) इति क्यन् 'नं क्ये' (1 / 1 / 22) इति पदसंज्ञायां सत्यां 'नाम्नो नो नहः' (2 / 1 / 91) इति नलोपः।