________________ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिते मध्यमवृत्त्यवत्रिभ्यामलङ्कृते 'विदंक् ज्ञाने' विद् / वेत्तीति विद्वान् / ‘वा वेत्तेः कसुः' (5 / 2 / 22) प्रथमासिः / 'ऋदु०' नोऽन्तः 'न्स्महतोः' दीर्घः / ‘पदस्य' इति संयोगान्तलोपः / गोमान् / गो / गावो विद्यन्तेऽस्य गोमान् / 'तदस्यास्ति०' (7 / 2 / 1). मतुः / सिः / 'ऋदुदितः' नोऽन्तः 'अभ्वादेरत्व०' (1 / 4 / 90) दीर्घः / श्रेयान् / अयं प्रशस्यः, 2 / अयमनयोर्मध्ये प्रशस्यः श्रेयान् ‘गुणाङ्गाद्वेष्ठेयसू' (7 / 3 / 9) ईयसु 'प्रशस्यस्य श्रः' (7 / 4 / 34) श्रेयस् / प्रथमासिः / 'ऋदुदितः' नोऽन्तः 'न्स्महतोः' दीर्घः / सिलोपः / पदस्येति स्लोपः // 70 // . युज्रोऽसमासे // 11471 // ___"युनूंपी योगे" इत्यस्यासमासे धुडन्तस्य धुटः प्राक् घुटि परे नोन्तः स्यात् / युङ् / युञ्जौ / युञ्जः। युञ्जि कुलानि / ईपदपरिसमाप्ता युङ् बहुयुङ् / असमास इति किम् ? अश्वयुक् / ऋनिर्देशः किम् ? 'युजिंच् समाधौ' इत्यस्य माभूत् / युजमापन्ना मुनयः // 71 // __अ० 'युपी योगे' युज् / युनक्तीति युङ् ‘क्विप्' (5 / 1 / 148) 'अप्रयोगीत्' / प्रथमासिः / 'युज्रोऽसमासे' इति जकारात्पूर्वं नोऽन्तः / नागमः / सिलोपः / 'युजञ्चकुञ्चो नो ङः' (2 / 1 / 71) इत्यनेन नोऽन्तस्य ङ् आदेशः। 'पदस्य'ति जलोपः / युङ् इति सिद्धम् / अश्वं युनक्तीति अश्वयुक् ‘किप्' इत्यनेन किप्प्रत्ययः / 'युजिच् समाधौ' युज् / योजनं युक् / तम् / 'भ्यादिभ्यो वा' (5 / 3 / 115) इत्यनेन किप् / युजमापन्नाः कोऽर्थः ? समाधि प्राप्ता * इत्यर्थः // 71 // अनडुहः सौ // 14 // 72 // अनडुड्शब्दस्य धुडन्तस्य तत्सम्बन्धिन्यन्यसम्बन्धिनि वा सौ परे• घुटः प्राक् नोऽन्तः [नागमः] स्यात् / अनड्वान् / प्रियानड्वान् / हे अनड्वन् [‘उतोऽनडुच्चतुरो वः' (1 / 4 / 81)] // 72 // . अ० अनस् / 'वहीं प्रापणे' वह् / अनः शकटं वहतीऽति अनड्वान् / 'अनसो वहेः क्विप् सश्च डः' (1006) इत्युणादिसूत्रेण क्विप् / सकारस्य डकारः ‘यजादिवचेः किति' (4 / 1 / 79) इति वृत् / वस्य उः / 'क्विप्' / 'अप्रयोगीत्' / अनडुह् इति शब्दः / षष्ठीङस् / अनडुहः // प्रथमासिः / 'वाः शेषे' (1 / 4 / 82) इति सूत्रेण उकारस्य वा / अनड्वाह / 'अनडुहः सौ' इति नोऽन्तः / सिलोपः / ‘पदस्य' (2 / 1 / 89) हलोपः / अनड्वान् // 72 // पुम्सोः पुमन्स् // 14 // 73 // .. पुम्सु इत्येवस्योदितस्तत्सम्बन्धिन्यन्यसम्बन्धिनि वा घुटि परे पुमंस् आदेशः स्यात् / पुमान् / पुमांसौ। पुमांसः / पुमांसम् ['न्समहतोः' (1 / 4 / 86) दीर्घः, 'शिड्हेऽनुस्वारः' (1 / 3 / 40)] / [ईषदूनः पुमान् ] बहुपुमान् / प्रिय. पुमान् / प्रियपुमांसि / हे पुमन् / पुंसोरुदित्त्वात् प्रियपुंसितरा / प्रियपुंस्तरा / प्रियपुंसीतरा इत्यादी डीहस्वपुंवद्विकल्पश्च भवति // 73 // अ० 'पांक् रक्षणे' / पाति पुरुषार्थमिति पुमान् ‘पातेथुम्सु' (1002) पुम्सुशब्दः / षष्ठीङस् / ‘डित्यदिति' (1 / 4 / 23) ओ ‘एदोद्भ्यां०' (1 / 4 / 35) र् / उदितेत्यत्र उकारानुबन्धस्य / प्रियपुमान् / प्रियाः पुमांसो यस्य स प्रियपुमान् / एकत्वे वाक्यं न कार्यम् 'पुमनडुनौपयोलक्ष्म्या एकत्वे' (7 / 3 / 173) इति कच् प्राप्नुयात् / पुंसोरुदित्त्वादित्यादि-प्रिय. पुम्स्. / प्रियः पुमान् यस्याः सा प्रियपुंसी 'अधातूदृदितः' (2 / 4 / 2) इति डीः / वारत्रयं लिख्यते / इयमनयोर्मध्येऽतिशयेन प्रियपुंसी प्रियपुंसीतरा 'द्वयोर्विभज्ये च तरप्' (7 / 3 / 6) इति त्रिषु शब्देष्वपि