________________ श्रीसिद्धहेमशब्दानुशासने प्रथमाध्यायस्य चतुर्थः पादः __ स्वरात्परा या धुड्जातिस्तदन्तस्य नपुंसकस्य धुड्भ्य एव प्राक् (पूर्वम्) शौ परे नोऽन्तः स्यात् / पयांसि तिष्ठन्ति / यशांसि पश्य / सपौषि धनूंषि / अतिजरांसि ['स्महतोः' (1 / 4 / 86) इति दीर्घः सर्वत्र] / धुटामिति बहुवचनं जातिपरिग्रहार्थम् तेन काष्ठतङ्कि, गोरति कुलानि इति सिद्धम् // 66 // ___ अ० पयांसि यशांसि सपीषि धषि-अत्र नोऽन्तस्य 'शिड्हेऽनुस्वारः' (1 / 3 / 40) इति अनुस्वारः क्रियते / सपीषि धषि-'नाम्यन्तस्था०' (2 / 3 / 15) इति सस्य षत्वम् / काष्ठानि तक्षन्ति यानि कुलानि तानि काष्ठतङ्क्षि / ‘गा रक्षन्ति यानि कुलानि तानि विप् / जस् / शस् / अत्र 'नपुंसकस्य शिः' (1 / 4 / 55) 'धुटां प्राक्' नोऽन्तः / 'म्नां धुड्वर्गेऽन्त्योऽपदान्ते' (1 / 3 / 39) नस्य डकारः // 66 / / र्लो वा // 11467 // [रश्चलश्चतस्य] रेफलकाराभ्यां परा या धुड्जातिस्तदन्तस्य नपुंसकस्य धुटः प्राक् नोऽन्तः स्यात्, शौ, वा / बहूर्जि। बहूर्जि सुवल्ङ्गि / सुवल्गि // 67 // ___ घुटि // 14 // 68 // अधिकारोऽयम् / निमित्तविशेषोपादानं [कथनं] विनाऽऽपादसमाप्तेः [पादसमाप्तिं यावत् ] यत्कार्य वक्ष्यते, तद् घुटि वेदितव्यम् // 68 // __अचः // 11469 // अश्वतेर्धातोधुडन्तस्य तत्सम्बन्धिन्यन्यसम्बन्धिनि वा घुटि परे धुटः प्राक् नोऽन्तः स्यात् / प्राङ् / [प्राश्चमतिक्रान्तः] अतिप्राङ् / प्राञ्चौ / प्राञ्चि कुलानि // 69 // अ० प्राङ् / 'अञ्चू गतौ च' अञ्च् / प्रपूर्वं प्राञ्चतीति प्राङ् विप् / 'अञ्चोऽनर्चायाम्' (4 / 2 / 46) अञ्चेर्नकारलोपः / किप लुप्यते / प्रथमासिः। 'अचः' (1 / 4 / 69) इति सूत्रेण चकारात्पूर्वं नागमः / 'दीर्घड्याब्०' (1 / 4 / 45) इति सिलोपः / पदस्य (2 / 1 / 89) इत्यनेन चकारस्य लोपः / 'युजञ्चक्रुश्चो नो ङः' (2 / 1 / 71) इति सूत्रेण न् इति आगमस्य डकारः क्रियते / प्राङ् इति सिद्धम् // 69 / / ऋदितः // 14 // 70 // [ऋच्च उच्च, ऋदुतौ इतौ अनुबन्धौ यस्य, स, तस्य] ऋदित उदितश्च धुडन्तस्य तत्सम्बन्धिन्यन्यसम्बन्धिनि वा धुटि परे धुटः प्राक् स्वरात्परो नोऽन्तः स्यात्। ऋदितः-कुर्वन् / महान् / उदितः-चकृवान् विद्वान् / गोमाम् / श्रेयान् // 7 // - अ० 'डुइंग करणे' कृ / करोतीति कुर्वन् / 'शत्रानशावेष्यति तु सस्यौ' (5 / 2 / 20) इति शतृ / 'अप्रयोगीत्' (1 / 1 / 37) अत् तिष्ठति / 'कृग्तनादेरुः' (3 / 4 / 83) उः / 'नामिनो गुणो०' (4 / 3 / 1) कर् / 'अतः शित्युत्' (4 / 2 / 89) इति सूत्रेण क अकारस्य उकारः / 'इवर्णादेः०' (1 / 2 / 21) व / प्रथमासिः / 'ऋदुदितः' अतो न् आगमः / सिलोपः / ‘पदस्य' (2 / 1 / 89) इति तलोपः / महान् ‘अर्ह मह पूजायाम्' मह / महति पूजयति लोकोत्तमान् / 'दुहिवृहिमहिपृषिभ्यः कतृः' (884) / क उच्चारणार्थः / महत् / प्रथमासिः / 'ऋदुदितः' नोऽन्तः। 'न्स्महतोः' (1 / 4 / 86) इत्यनेन दीर्घः / ततः सिलोपः / ‘पदस्य' इति संयोगान्तलोपः / चकृवान् / कृ / चकार इति वाक्ये / 'तत्र कसुकानौ तद्वत्' (5 / 2 / 2) क्वसु / 'द्विर्धातुः परोक्षा डे०' (4 / 1 / 1) द्वित्वम् / 'कङश्चञ्' (4 / 1 / 46) / 'ऋतोऽत्' (4 / 1 / 38) / प्रथमासिः / 'ऋदुदितः' / नोऽन्तः / 'न्स्महतोः' इति दीर्घः / विद्वान्