________________ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिते मध्यमवृत्त्यवचूरिभ्यामलते अन्यत इति किम् ? त्रपुणे / पीलुने फलाय // 62 // अ० नागम इत्यादि- ‘अनामस्वरे नोऽन्तः' (1 / 4 / 64) इति सूत्रेण नागमः / 'क्लीबे' (2 / 4 / 97) इति सूत्रेण ह्रस्वः / ग्रामण्या ग्रामण्ये इत्यादिषु ग्रामणीशब्दस्यानेन सूत्रेण पुंवद्भावे कृते सति नागमह्रस्वाभावौ / पक्षे नपुंसकत्वात् नागमो भवति / ग्रामणीनामत्र 'क्लीबे' इति सूत्रेण ह्रस्वे कृते 'ह्रस्वापश्च' (1 / 4 / 32) इति नाम् आदेशः, न तु अपुंस्त्वपक्षे 'अनामस्वरे नोऽन्तः' इति नोऽन्तः; 'अनामस्वरे०' इत्यत्रामो वर्जितत्वात् द्वितीयप्रयोगो रूपनिर्णयार्थमेव दर्शितः, न तु तस्य किञ्चिदत्र फलमस्ति / चित्रा गावो यस्य कुलस्य तत् चित्रगु / तस्मै / अत्र पुंवद्भावे सति 'क्लीबे' इति न ह्रस्वः, परं 'गोश्चान्ते.' (2 / 4 / 96) इत्यनेन ह्रस्वः क्रियते / ततो 'डित्यदिति' (1 / 4 / 23) ओत्वम् / चित्रगुणे अत्र 'क्लीबे' ह्रस्वः' / 'अनामस्वरे नोऽन्तः' / कुमारीमिच्छति क्यन्, कुमारीवाचरति, क्विप् वा / कुमारीयतीति क्विप् / 'य्वोः प्वय०' (4 / 4 / 121) यलोपः / चतुर्थीङ / अत्र यद्यपि कुमारीशब्दः पुंवत्तथापि नित्यस्त्रीविषयत्वादीकारस्य 'स्त्रीदूतः' (1 / 4 / 29) इति दैः / पक्षे 'क्लीबे' ह्रस्वः / 'अनामस्वरे नोऽन्तः' // 62 / / दध्यस्थिसक्थ्यक्ष्णोऽन्तस्यान् // 1 // 4 // 63 // दधि-अस्थि-सक्थि-अक्षि इत्येषां नपुंसकानां नाम्यन्तानामन्तस्य तत्सम्बन्धिन्यन्यसम्बन्धिनि वा टादौ स्वरे परे अन् इत्यादेशः स्यात् / दध्ना। दध्ने। दनि। दधनि। एवमस्थना सक्थ्ना अक्ष्णा / अक्षिण अक्षणीत्यादि ["ईडौ वा” (2 / 1 / 109)] / परमदध्ना प्रियदना / स्थूलाक्ष्णा इक्षुणा / नपुंसकस्येत्येव-दधिना दधये // 63 // ___ अ० दधि च अस्थि च सक्थि च अक्षि च / तस्य सूत्रत्वादन् / 'अनोऽस्य' (2 / 1 / 108) इत्यनेनाऽनोऽस्य लोपः / दध्नेत्यादिषु 'अनोऽस्य' (2 / 1 / 108) इति अनो लोपः / दध्नि दधनि-'इडौ वा' (2 / 1 / 109) इंति विकल्पे अनो लोपः / / परमं च तत् दधि च / प्रियं दधि यस्य / स्थूलमक्षियस्य स / तेन // 'डुधांग्क् धारणे' धा। दधातीत्येवंशीलो दधिः / 'सनिचक्रिदधिजज्ञिनेमिः' (5 / 2 / 39) इति सूत्रेण दधि इति निपातः / निपातनात्इ, द्वित्वम्, आलोपः // 63 / / __ अनाम् स्वरे नोऽन्तः // 14 // 6 // नाम्यन्तस्य नपुंसकस्य सम्बन्धिनि आमवर्जिते स्यादौ स्वरे नोऽन्तो भवति / वारिणी 2 / वारिणा / वारिणे / वारिणः 2 / वारिणि / कर्तृणी 2 कुले / कर्तृणा / कर्त्तणे / कर्तृणः 2 / कर्तृणोः 2 कर्तृणि। प्रियगुरुणे / प्रियतिसृणः / अनामिति किम् ? वारीणाम् कर्त्तणाम् // 6 // अ० न आम् अनाम् / अनाम् चासौ स्वरश्च अनामस्वरः / तस्मिन् / आम्वर्जनात् स्वरे लब्धे स्वरग्रहणं टादौ इत्यधिकारनिवृत्त्यर्थं कृतमित्यर्थः / / अन्त इति आगम इत्युच्यते-इह व्याकरणे आगमस्य अन्त इति शब्दव्यपदेशः॥ प्रियतिसृणः-अत्र परत्वात् पूर्वं तिसृ आदेशः पश्चान्नोऽन्तः // वारीणाम् / कर्तृणाम् / वारि / कर्तृ / षष्ठी आम्। 'हस्वापश्च' (1 / 4 / 32) इति सूत्रेण आम् स्थाने नाम् / 'दीर्घो नाम्य०' (1 / 4 / 47) इति दीर्घः // 64 // स्वराच्छौ // 1 // 4 // 65 // ___ जस्शसादेशे शो परे स्वरान्तानपुंसकात्परो नोऽन्तो भवति / वनानि / वारीणि / कर्तृणि / स्वरादिति किम् ? चत्वारि / अत इत्येव सिद्धे स्वरग्रहणमुत्तरार्थम् // 65 // धुटां प्राक् // 1 // 4 // 66 //