________________ श्रीसिद्धहेमशब्दानुशासने प्रथमाध्यायस्य चतुर्थः पादः 'वैकात्' (7 / 3 / 55) इति सूत्रेण डतमप्रत्ययः / / 58 / / अनतो लुप् // 14 // 59 // .अनकारान्तस्य नपुंसकस्य सम्बन्धिनोः स्यमोलुप् स्यात् / दधि / दधि / मधु / कर्तृ / पयः / लुकमकृत्वा लुप्करणं स्यमोः स्थानिवद्भावेन यत्कार्य प्राप्नोति तस्य प्रतिषेधार्थम् तेन यत् तत् अत्र त्यदायत्वं न स्यात् // 59 // . अ० न अत् अनत् तस्य / प्रतिषेधार्थमित्यत्र 'लुप्यवृल्लेनत्' (7 / 4 / 112) इति सूत्रेण // 59 / / जरसो वा // 1 // 4 // 60 // - जरसन्तस्य नपुंसकस्य सम्बन्धिनोः स्यमोर्लुप् स्यात् वा / अतिजरः / अतिजरसं कुलं तिष्ठति पश्य वा // 6 // अ० अतिजरः-जरामतिक्रान्तं कुलं अतिजरः / प्रथमासिः / 'क्लीबे' (2 / 4 / 97) इति ह्रस्वः / 'अतः स्यमोऽम्' (114/57) इति सेः स्थानेऽम् / 'जराया जरस्वा' (2 / 1 / 3) इति जरस् आदेशः / तदनन्तरं 'जरसो. वा' (1 / 4 / 60) इत्यनेन सिस्थानी अम् लुप्यते / अतिजरः इति सिद्धम् / पक्षे स्थानीयअम्लोपाभावे अतिजरसम् / अतिजरम् इत्यपि-अत्र जरस् न भवति इति सिद्धम् / जरामतिक्रान्तं यत् तत् अतिजरः / अतिजरसम् / द्वितीयाऽम् / 'जराया जरस्वा' इत्यनेन रस् आदेशः उभयत्र / एकत्र 'जरसो वा' इति अमो लुप् तत्र अतिजरः / पक्षेऽमो लोपाभावे अतिजरसं कुलं पश्य // 60 // नामिनो लुग्वा // 1 // 4 // 61 // - नाम्यन्तस्य नपुंसकस्य सम्बन्धिनोः स्यमो; लुक् स्यात् / हे वारे हे वारि / हे त्रपो हे त्रपु / हे कर्त्तः हे कर्तृ / प्रियत्रि प्रियतिसूकुलं तिष्ठति पश्य वा / लुपैव सिद्धे लुग्वचनं स्थानिवद्भावार्थम् // 61 // अ० हे वारे / हे त्रपो / हे कर्त्तः / एषु 'नामिनो लुग्वे'ति विकल्पेन सेलुंग / यत्र लुग् तत्र ह्रस्वस्य गुणः / यत्र च नामिनो लुग्वेति सेर्लुक् न कृतः तत्र ‘अनतो लुप्' (1 / 4 / 59) इति सेर्लुप् क्रियते, तत्र हे वारि / हे त्रुपु / हे कर्तृ इति प्रयोगा भवन्ति / वारि / वारि / द्वितीया अम् / अम् / एकत्र 'नामिनो लुग्वा' इति अमो लुक् / विकल्पपक्षे 'अनतो लुप्' इति अमो लुप् / उभयत्रापि हे वारि हे वारि इत्येव प्रयोगो भवति / सूत्रेऽनुक्तोऽपि अम्प्रयोगो बुद्ध्या विचार्यते / प्रिय / अग्रे त्रि वार 2 / ततः प्रियास्तिस्रोऽस्य कुलस्य प्रियतिस कुलम् / पक्षे प्रियत्रिकुलम् इति भवति // 61 // वान्यतः पुमांष्टादौ स्वरे // 1 // 4 // 62 // यो नाम्यन्तः शब्दोऽन्यतो विशेष्यवशानपुंसकः स टादौ स्वरे पुंवद्वा स्यात् / यथा पुंसि नागमहस्वी न भवतः, तथात्रापि [पुंवद्भावस्थानके] न स्यातामित्यर्थः / ग्रामण्या ग्रामणिना कुलेन / ग्रामण्ये ग्रामणिने कुलाय / ग्रामण्यः ग्रामणिनः कुलात् कुलस्य वा / ग्रामण्योः ग्रामणिनोः कुलयोः / ग्रामण्यां ग्रामणीनां कुलानाम् / ग्रामण्यां ['नियआम्' (1 / 4 / 51)] ग्रामणिनि कुले / एवं क; कर्तृणा / कर्रे कर्तृणे / कर्तृः कर्तृणः / कोंः कर्तृणोः / कर्तृणाम् कर्तृणाम् / कर्तरि कर्तृणि / शुचये शुचिने / शुचेः / शुचिनः / मृदवे मृदुने / मृदोः मृदनः / मृदौ मृदुनि / चित्रगवे चित्रगुणे / अहंयवे अहंयुने / कुमार्यै कुमारिणे कुलाय। 1. 'आद्वेरः' 2 / 1141 इति अनेन स्यादि सि, अम् आश्रित्य अन्त्यस्य अत्वं न भवति / /