________________ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिते मध्यमवृत्त्यवत्रिभ्यामलङ्कृते डतिषकारनकारान्तायाः सङ्ग्यायाः सम्बन्धिनोर्जस्शसोर्लुप् स्यात् / कति कति / यति यति / तति तति / षट् षट् / पञ्च पञ्च / एवं सप्त 2, नव 2, दश 2, तिष्ठति पश्य // 54 // अ० डतिश्च षश्च नश्च डतिष्णः / षष्ठीङस् / कतीत्यादि-किम् यद् तद् / का संख्या मानमेषां कति / या, सा, सङ्ख्या मानमेषां यति तति / 'यत्तत्किमः संख्यामा डतिर्वा (7 / 1 / 150) इति डतिप्रत्ययः // 54 / / . नपुंसकस्य शिः // 14 // 55 // ___ नपुंसकस्य सम्बन्धिनोर्जस्शसोः शिः स्यात् / कुण्डानि / तिष्ठन्ति पश्य वा / एवं दधीनि / मधूनि। कर्तृणि सर्वत्र ‘स्वराच्छौ' 1 / 4 / 65) न् / 'नि दीर्घः' (1 / 4 / 85)] यशांसि [‘धुटां प्राक्' (1 / 4 / 66) न् 'स्महतोः' (1 / 4 / 86) दीर्घः] / तत्संबन्धिविज्ञानादिह न स्यात्-प्रियकुण्डाः / प्रियकुण्डान् / इह तु स्यात्-परमकुण्डानि। शकारः 'शौवा' (4 / 2 / 95) इत्यादौ विशेषणार्थः // 55 // . औरीः // 14 // 56 // नपुंसकसम्बन्धी औकार ईः स्यात् / कुण्डे तिष्ठतः पश्य वा / दधिनी कर्तृणी / पयसी // 56 // अ० दधिनी / कर्तृणी / अत्र 'अनाम् स्वरे नोऽन्तः' (1 / 4 / 64) // 56 // अतः स्यमोऽम् // 14 // 57 // अतोऽकारान्तस्य नपुंसकस्य सम्बन्धिनोः स्यमोः स्थाने अम् इत्यादेशः स्यात् / कुण्डं तिष्ठति / कुण्डं पश्य। कीलालपम् / हे कुण्ड-अत्रामादेशे सति 'अदेतः स्यमोलुंक्' (1 / 4 / 44) इत्यमो लुक् / अमोऽकारोच्चारणं जरसादेशार्थम् / तेनाऽतिजरसं कुलं तिष्ठतीति सिद्धम् // 57 // अ० कीलालं पिबति यत्कुलं तत् कीलालपं / विच् / जरामतिक्रान्तं अतिजरसं / सिः / 'क्लीबे' (2 / 4 / 97) इति ह्रस्वः / ‘अतः स्यमोऽम्' (1 / 4 / 57) सेः स्थानेऽम् / 'जराया जरस्वा' (2 / 1 / 3) इति जरस् आदेशः / / 57 / / पञ्चतोऽन्यादेरनेकतरस्य दः // 114 / 58 // नपुंसकानामन्यादीनां [सर्वादिगणान्तर्वर्तिनाम्] पञ्चपरिमाणानां सम्बन्धिनोः स्यमोः स्थाने द इत्यादेशः स्यात्, एकतरशब्दं वर्जयित्वा / अकार उच्चारणार्थः / अन्यत्तिष्ठति पश्य वा / एवमन्यतरत् / इतरत् / कतरत् कतमत् / एवं यतरत् / यत्मत् / ततरत् / ततमत् / एकतमत् / हे अन्यत् इत्यादि / अनेकतरस्येति किम् ? एकतरं तिष्ठति पश्य वा // 58 // अ० पश्चन् / पञ्च सङ्ख्यामानमस्य पंचत् / ‘पञ्चद्दशद्वर्गे वा' (6 / 4 / 175) इत्यनेन अत् / 'नोऽपदस्य तद्धिते' (7 / 4 / 61) इत्यनेन अन् इत्यस्य लुक् / पञ्चत् इति सिद्धम् / षष्ठीङस् / पञ्चतः / अन्य आदिर्यस्य गणस्य सोऽन्यादिस्तस्य / कतरत्-किम् / कोऽनयोर्मध्ये पटुर्विद्वान् वा स आयासु यातु वा इति निर्येऽर्थे 'यत्तत्किमन्यात्' (7 / 3 / 53) इत्यनेन डतरः / क एषां मध्ये पटुर्विद्वान् वा इति बहुनिभर्येऽर्थे 'बहूनां प्रश्ने डतमश्च वा' इति डतमप्रत्ययः / डकारोऽन्त्यस्वरादिलोपार्थः / ‘डित्यन्त्यस्वरादेः' (2 / 1 / 114) यद्. योऽनयोर्मध्ये पटुर्विद्वान् वा स आयातु यातु वा 'यत्तत्किम०' इति डतरः / य एषां मध्ये पटुरित्यादि 'बहूनां प्रश्ने डतमश्च वा (7 / 3 / 54) / तद्. स श्लाध्योऽनयोर्योदाताऽन्यतर आयातु / स एषां श्लाघ्यो यो दाता / अन्यतम आयातु / डतरडतमौ / / एकतरम्एकोऽयम् अनयोर्मध्ये दक्षः 'वैकाद्वयोर्निर्ये डतरः' (73 / 52) / एकतमत्-एकः / एक एवायमेषां गुणवान्