________________ 53 श्रीसिद्धहेमशब्दानुशासने प्रथमाध्यायस्य चतुर्थः पादः लोपः 'द्विगोरनपत्ये यस्वरादेर्लुबद्धिः' (6 / 1 / 24) इत्यनेन अणो लोपः / तदनंतरं सप्तम्येकवचनं ङि / 'सङ्ख्यासायेति सूत्रेण विकल्पेन अह्र इत्यस्य अहन् इत्यादेशः / यत्र आदेशो नाभूत् तत्र व्यते इति रूपम् / यत्र च अहन्-आदेशः तत्र रूपद्वयम् 'ईडौ वा' (2 / 1 / 109) इति सूत्रेण अहन् इत्यत्र अनोऽकारस्य विकल्पेन लोपः / यत्र अनोऽकारो लुप्तः तत्र द्वयहि इति रूपम्, यत्र च अहन्शब्दे अनोऽकारो न लुप्यते तत्र द्वयहनि इति रूपं तृतीयम् / एवं व्यते॒ द्वयहि व्दयहनि इति रूपत्रयसिद्धिः / एवं त्र्यढे त्यहि व्यहनि इत्यादि / सायस्य विशब्दस्यापि रूपत्रयं त्रयं सिद्धम् / सायाह्न इत्यत्र सायं च तत् अहश्च सायाह्नः इति वाक्यम् / 'सङ्ख्यासाय' इति सूत्रपाठात् सायंशब्दस्य मकारलोपः, साय इति अकारान्तो वा / विगतमहो व्यहस्तस्मिन् / द्वयहे इत्यत्र द्वि अहन् / द्वयोरहोः समाहारो व्यहः / तस्मिन् ‘द्विगोरन्नोऽट्' (7 / 3 / 99) इति सूत्रेण अट्समासान्तः / 'नोऽपदस्य तद्धिते' (7 / 4 / 61) इत्यनेनान्त्यस्वरादिलोपः / अन् लुप्यते / द्वयहे इति सिद्धम् / / 50 // निय आम् // 1 // 4 // 51 // नियः परस्य : स्थाने आम् इत्यादेशः स्यात् / नियाम् / ग्रामण्याम् // 51 // अ० ग्राम / ‘णींग प्रापणे' णी / 'पाठे धात्वादेर्णो नः' (2 / 3 / 97) इति नी / ग्रामं नयतीति ग्रामणी क्विप् / 'ग्रामाग्रान्नियः' (2 / 3 / 71) इति सूत्रेण णत्वम् / सप्तमीङि / अत्र नी साक्षानास्ति किंतु णी अत आम् न प्राप्नोति ! सत्यम् / स्यादिविधौ णत्वमसिद्धम् // 51 // वाष्टन आः स्यादौ // 1 // 4 // 52 // - अष्टन्शब्दस्य तत्सम्बन्धिन्यन्यसम्बन्धिनि वा स्यादौ परे आ इत्यन्तादेशो वा स्यात् / अष्टाभिः अष्टभिः। अष्टासु / अष्टसु / प्रियाष्टाः / प्रियाष्टा प्रियाष्टौ / प्रियाष्टानौ / इत्यादि / हे प्रियाष्टाः हे प्रियाष्टन् / स्यादाविति किम् ? अष्टकः सङ्घः / अष्टता / अष्टपुष्पी // 51 // ___ अ० अष्टौ सङ्ख्या मानमस्य अष्टकः / 'सङ्ख्याडतेश्वाशत्तिष्टेः कः (6 / 4 / 130) इत्यनेन कः / अष्टानां भावोऽष्टता / अष्टौ पुष्पाणि अस्यां अष्टपुष्पी 'असत्काण्डप्रान्तशतैकाञ्चः पुष्पात्' (2 / 4 / 56) इत्यनेन ङीः / अथवा अष्टानां पुष्पाणां समाहारोऽष्टपुष्पी 'द्विगोः समाहारात्' (2 / 4 / 22) इति डीः / 'अस्य यां लुक्' (2 / 4 / 86) अकारस्य लोपः // 52 // - अष्ट और्जस्शसोः // 11453 // . अष्ट इति कुतात्त्वस्याष्टन्शब्दस्य निर्देशः / अष्टाशब्दसम्बन्धिनोर्जस्शसोः स्थाने औ इत्यादेशः स्यात्। अष्टौ तिष्ठन्ति / अष्टौ पश्य / परमाष्टौ / अनष्टौ / कृतात्त्वस्य निर्देशादिह न स्यात्-अष्टौ तिष्ठन्ति पश्य वा। तत्सम्बन्धिविज्ञानादिह न स्यात्-प्रियाष्टास्तिष्ठन्ति / प्रियाष्टः पश्य ['लुगातोऽनापः' (2 / 1 / 107)] // 53 // अ० अष्टन् / षष्ठीडस् / 'वाष्टन आः स्यादौ' (1 / 4 / 52) इति आकारः। 'समानानां तेन दीर्घः' (1 / 2 / 1) / 'लुगातोऽनापः' (2 / 1 / 107) इत्याकारलोपः / अष्ट इति सिद्धम् / यत्र अष्टनोऽग्रे शसादिविभक्तिः तत्र 'वाष्टनेति' आत्त्वे कृते, शसश्च औत्वे कृते 'लुगातोऽनाप' इति आकारलोपः / अष्ट इत्यत्र 'डतिष्णः सङ्ख्या०' (1 / 4 / 54) इति जस्शसोर्लोपः // 53 // डतिष्णः सङ्ख्याया लुप् // 14 // 54 //