________________ 52 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिते मध्यमवृत्त्यवचूरिभ्यामलते तु परत्वात् 'अनतो लुप्' (1 / 4 / 59) इति लुबेव / तेन यत् कुलम्, तत् कुलम् // 45 // . अ० ङीश्च आब् च ङ्याब् / दीर्घश्वासौ झ्याब् च दीर्घड्याब्, दीर्घड्याब् च व्यञ्जनश्च० तस्मात् // श्रेयसी इत्यत्र 'अधातूदृदितः' (2 / 4 / 2) इति सूत्रेण ङीप्रत्ययः / बह्वयः श्रेयसी यस्य सः // 45 / / समानादमोऽतः // 1 // 4 // 46 // [अकारस्य] समानात्परस्यामोऽकारस्य लुक् स्यात् / वृक्षम् / खट्वाम् / मुनिर् / साधुम् / बुद्धिम् / नदीम् / पितरमित्यादिषु विशेषविधानात्प्रथममेवार् ('अझै च' +इति अर्) / स्यादेरित्येव / अचिनवम् // 46 // अ० अचिनवं 'चिंग्ट चयने' चि / ह्यस्तनी अम् / 'स्वादेः श्रुः' (3 / 4 / 75) शकारोऽप्रयोगीत् / ‘अड्धातोरादिः०' (4 / 4 / 29) 'उश्नोः' (4 / 3 / 2) इति गुणः // 46 / / +(1 / 4 / 39) दी? नाम्यतिसूचतसृष्टः // 14 // 47 // तिसृचतसृषकाररेफान्तवर्जितशब्दसम्बन्धिनः पूर्वसमानस्य आमादेशे नामि परे दीर्घो भवति / देवानाम् / मुनीनाम् / साधूनाम् / बुद्धीनाम् / धेनूनाम् / वारीणाम् वपूणाम् / पितॄणाम् मातृणाम् / अतिसृचतसृष्ट इति किम् ? तिसृणाम् / चतुसृणाम् / षण्णाम् चतुर्णाम् / अष्र इति प्रतिषेधेन नकारेण व्यवहितेऽपि नामि दीर्घो ज्ञाप्यते-पञ्चानाम् / सप्तानाम् // 47 // अ० तिसा च चतसा च षश्च रश्च० / न तिसृचतसृष्टः तस्य / 'त्रिचतुरस्तिसृचतसृ स्यादौ' (2 / 1 / 1) इति तिसृचतसृआदेशः / पञ्चानाम् इत्यादौ 'नाम्नो नोऽनह्नः' (2 / 1 / 91) इति नकारस्य लोपः // 47 // नुर्वा // 1 // 4 // 48 // .. नृशब्दसम्बन्धिनः समानस्य नामि परे दी? वा भवति। नृणाम् नृणाम् / अतिनृणाम् अतिनृणाम् // 48 // अ० नृ / षष्ठीङस् / 'ऋतो डुर्' (1 / 4 / 37) / अतिशयिता नराः, अतिनरः / तेषां अतिनृणाम् // 48 // शसोऽता सश्च नः पुंसि // 14 // 49 // शसः सम्बन्धिनोऽताऽकारेण सह पूर्वसमानस्य स्थान्यासन्नो दीर्घो भवति / तत्सन्नियोगे च पुंल्लिङ्गे शसः सकारस्य नकारः स्यात् / देवान् / मुनीन् / साधून् / पितॄन् / पुंल्लिङ्गाभावे दीर्घत्वमेव-शालाः / बुद्धीः। नदीः। मातृः। दीर्घसनियोगविज्ञानादिह नो न भवति / एतान् गाः पश्य। वनानि पश्येत्यत्र परत्वाच्छिरेव // 49 // अ० अता / कोऽर्थः ? अकारेण सह / गो / द्वितीयाशस् / 'आ अम् शसोऽता' (1 / 4 / 75) इति सूत्रेण शसोऽकारेण सह आकारो गोशब्दस्य कार्यः / / वन / शस् / 'नपुंसकस्य शिः' (1 / 4 / 55) इत्यनेन शसस्थाने शिः। अप्रयोगीत् शकारः / इ / 'स्वराच्छौ' (1 / 4 / 65) इति नुरन्तः / 'नि दीर्घः' (1 / 4 / 85) // 49 // सङ्ख्यासायवेरहस्याहन् ङौ वा // 1 // 4 // 50 // सङ्ख्यावाचिभ्यः सायशब्दात् विशब्दाच परस्याह्नशब्दस्य डौ परे अहन् इत्यादेशो वा स्यात् / न्यहि न्यहनि न्यढे / एवं त्र्यहि व्यहनि त्र्यढे / सायाह्नि सायाहनि सायढे / व्यह्नि व्यहनि व्यते / सङ्ग्यासायवेरिति किम् ? मध्याह्ने [मध्यमह्नः] / अह्रस्येति किम् ? ब्यहे // 50 // अ० द्वि। अहन् / द्वयोरहोर्भवो व्यह्नः / 'भवे' (6 / 3 / 123) इति अण् / 'सर्वांशसङ्ख्याव्ययात्' (7 / 3 / 118) इत्यनेन अणः पूर्वं अट्समासान्तः अहन्शब्दस्य च अह्रादेशः / 'अवर्णेवर्णस्य' (7 / 4 / 68) इत्यनेन अह्रस्य अकार