________________ श्रीसिद्धहेमशब्दानुशासने प्रथमाध्यायस्य चतुर्थः पादः आमन्त्र्यार्थवृत्तेराबन्तस्य सिना सह एकारोऽन्तादेशः स्यात् / हे माले // 42 // नित्यदिद्विस्वराम्बार्थस्य ह्रस्वः // 14 // 43 // नित्यं दित् दैदास्दास्दाम्आदेशा येभ्यः तेषां द्विस्वराम्बार्थानां चाबन्तानामामन्त्र्यार्थे वर्तमानानां सिना सह हस्वोऽन्तादेशः स्यात् / नित्यदित्-हे स्त्रि / हे गौरि / हे लक्ष्मि / हे करभोरु / हे श्वश्रु / हे नदि / हे वधु / हे वर्षाभु / हे पुनर्भु / हे अतिलक्ष्मि // द्विस्वराम्बार्थ-हे अम्ब / हे अक / हे अत्त / हे अल्ल / हे अनम्ब [न अम्बा] / हे प्रियाम्ब / नित्यदिदिति किम् ? हे ग्रामणीः / हे खलपूर्वधूटि / नित्यग्रहणादिह न स्यात् [विकल्पेन दित्त्वात् / हे श्रीः। हे हीः / हे भूः। हे भूः / कथं हे सुभु / हे भीरु ? स्त्रीपर्यायत्वादुङि कृते भविष्यति / अम्बार्थानां द्विस्वरविशेषणं किम् ? हे अम्बाडे हे अम्बाले हे अम्बिके // 43 // अ. नित्यं दित् येभ्यस्ते नित्यदितः / द्विस्वरश्चासौ अम्बार्थश्च द्विस्वराम्बार्थः / नित्यदिच्च द्विस्वराम्बार्थश्च नित्यदिद्विस्वराम्बार्थः / तस्य / करभ. ऊरु. / करभ इव उरू यस्याः सा करभोरूः / 'उपमानसहितसंहितसहशफवामलक्ष्मणाघुरोः' (2 / 4 / 75) इत्पनेन सूत्रेण ऊङ्, समानानां तेन दीर्घः, करभोरूः / 'आमन्त्र्ये 'नित्यदिद् इति सूत्रेण ह्रस्वः करभोरु इति सिद्धम् / 'भ्रमूच् अनवस्थाने' अथवा 'भ्रमू चलने' भ्रम् / भ्राम्यतीति भ्रुः / 'भ्रमिगमितनिभ्यो डित्' (843). इत्युणादिनिपातनात् भ्र इति सिद्धम् / शोभनं भ्र भ्रमणं यस्याः सा सुभ्रूः / 'त्रिभीक् भये' भी / बिभेतीत्येवंशीला भीरू: / ‘भियो रुरुकलुकं' (5 / 2 / 76) इति सूत्रेण रुप्रत्ययः / आमन्त्र्यसिः / / विकल्पेन दित्त्वात् हे सुभ्रूः / हे भीरू: इति प्राप्नोति इति परस्याशयः / अत्र सूरिराह-स्त्रीपर्यायत्वेत्यादि-नृजातिद्वारेण 'उतोऽप्राणिनश्चायुरज्ज्वादिभ्य अङ्' (2 / 4 / 73) इत्यनेन ऊङ् / ततः सिः / 'नित्यदिन्दिस्वराम्बार्थस्य स्वः' इति ह्रस्वः / हे सुभ्र / हे भीरु / इति सिद्धम् // 43 // अदेतः स्यमोर्चेक् // 14 // 44 // अकारान्तात् एकारान्ताचामन्त्र्यार्थवृत्तेः परस्य सेस्तदादेशस्यामश्च लुक् स्यात् / सि-हे श्रमण हे देव। अम्-हे वन ! हे धन ! हे उपकुम्भ // हे परमे // अदेत इति किम् ? हे गौः / +स्यादेशत्वेनैवामोऽपि मुकि सिद्धायां पृथग्वचनमन्यस्यादेशस्य लुगभावार्थम्, तेन हे कतरदित्यादौ लुग् न भवति // 44 // . अ० अच्च एच्च अदेत् तस्मात् / हे वन हे धन-अत्र आमन्त्र्यसिः, सेः स्थाने 'अतः स्यमोऽम्' (1 / 4 / 57) इति सूत्रेण अम् आदेशः / तदनन्तरं 'अदेतः स्यमोलुंक्' (1 / 4 / 44) इति सूत्रेणामो लुक् कार्यः / हे उपकुम्भ। मत्र आमन्त्र्यसिः, तस्य 'अमव्ययीभावस्यातोऽपञ्चम्याः' (3 / 2 / 2) इति अम् आदेशः / अदेतः स्यमोरित्यनेन अमो लुक् / परमश्चासौ इश्च परमे, आमन्त्र्यसिः / हे गौः-अत्र ‘ओत औः' (1 / 4 / 74) इत्यनेन औकारः / *स्यादेशेति-तदादेशस्तद्वदिति न्यायात् / हे कतरत्-अत्रामन्त्र्यसेः स्थाने 'पञ्चतोऽन्यादेरनेकतरस्य दः' (1 / 4 / 58) अति. द् इत्यादेशः // 44 // . दीर्घड्याव्यञ्जनात्सेः // 14 // 45 // दीर्घाभ्यांडीआन्भ्यां व्यञ्जनाच्च परस्य सेर्लुक् स्यात् / ङी-गौरी / बहुश्रेयसी चैत्रः / कुमारीवाचरति किम् लुक् कुमारी ब्राह्मणः / आप्-माला / व्यञ्जन-राजा / हे राजन् / ड्याग्रहणं किम् ? श्रीः लक्ष्मीः आमणीः कीलालपाः / दीर्घग्रहणं किम् ? निःकोशाम्बिः ['गोश्चन्त०' (2 / 4 / 96) इति हस्वः] अतिखट्वः / नपुंसके