________________ 50 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिते मध्यमवृत्त्यवचूरिभ्यामलङ्कृते आमन्त्र्यसिना सह ऋकारस्य गुणः // 38|| अझै च // 14 // 39 // ऋकारस्य स्थानै डौ घुटि च परेऽर् इत्यादेशः स्यात् / पितरि / पितरौ / पितरः / पितरम् / एवं मातरि / मातरम् / मातरौ / मातरः // कर्तृणि कुले, कर्तृणि कुलानीत्यत्र तु परत्वात्पूर्व नोऽन्त एव / तस्मिंश्च सति व्यवधानान स्यात् // 39 // अ० कर्तृणि कुले / कर्तृ / सप्तम्येकवचनं ङि / कर्तृणि इत्यत्र जस् शश् वा / 'नपुंसकस्य शिः' / (1 / 4 / 55) अनाम् स्वरे नोऽन्तः (1 / 4 / 64) इति नकारागमः / 'नि दीर्घः' (1 / 4 / 85) इति दीर्घः / कर्तृणि सिद्धम् / / 39 / / मातुर्मातः पुत्रेऽहें सिनामन्त्र्ये // 14 // 40 // मातृशब्दस्यामन्त्र्ये पुत्रे वर्तमानस्य सामर्थ्याद् बहुव्रीहौ समासे-सिना सह मात इति अकारान्त आदेशः स्यात् / अh (अहे इति कोऽर्थः ) मातृद्वारेण पुत्रप्रशंसायां गम्यमानायाम् / कचोऽपवादः / गार्गी माता यस्य तस्यामन्त्रणम् / हे गार्गीमात / मातुरिति किम् ? हे गार्ग्यपितृक / ['ऋनित्यदितः' (73 / 171) कच्] पुत्र इति किम् ? हे मातः। हे.गार्गीमातृके वत्से / अर्ह इति किम् ? अरे गार्गीमातृक [ ऋन्नित्यदितः' कच्] // 40 // __ अ० मातृशब्दात् बहुव्रीहिसमासे 'ऋन्नित्यदितः' (7 / 3 / 171) इति सूत्रेण समासान्तः कच्प्रत्ययः प्राप्नोति स प्रतिषिध्यते / मात इति आदेशो भवति / इति कचोऽपवाद इत्यस्यार्थः / गर्ग. / गर्गस्यापत्यं पौत्रादि स्त्री गार्गी। 'गर्गादेर्यञ्' (6 / 1142) “यञो डायन् च वा' (2 / 4 / 67) इति ङी 'व्यञ्जनात्तद्धितस्य' (2 / 4 / 88) इति सूत्रेण यत्रो लोपः / गार्गी इति सिद्धम् / हे गार्गीमात / अत्र पुत्रप्रशंसा दृश्यते / सम्भावितोत्कर्षया श्लाघया। (सम्भावितेति / सम्भावित उत्कर्षो यस्या मातुः सकाशात् पुत्रस्येति ज्ञेयम्) तत्पुत्रव्यपदेशयोग्यतया (तत्पुत्रेति / तस्या मातुः पुत्रस्तत्पुत्रः / तत्पुत्रस्य व्यपदेशः कथनम्, तस्य योग्यता, तया) गुणवत्या मात्रा पुत्रः प्रशस्यते-हे गार्गीमात // अरे गार्गीमातृक-अत्र अज्ञातपितृनामत्वेन, अथवाऽनेकपितृत्वेन, कुशीलया निर्गुणया मात्रा निन्द्यया पुत्रो जनैर्निन्द्यतेअरे गार्गीमातृक // 40 // ___ ह्रस्वस्य गुणः // 14 // 41 // आमन्त्र्यार्थवृत्तेर्हस्वान्तस्य सिना सह श्रुतत्वात् [श्रुतो ह्रस्वो हस्वान्तत्वं त्वनुमतम्] ह्रस्वस्यैव गुणो भवति। आसनः / हे पितः। हे मातः / हे मुने / हे साधो / हे बुद्धे / सिनेत्येव-हे कर्तृकुल, हे वारि-अत्र परत्वात्पूर्व सेलृपि सेरभावान भवति / "नामिनो लुग्वा" / (2461) इति लुकि तु स्थानिवद्भावाद्भवत्येव-हे कर्तः कुल, हे वारे / हस्वस्येति किम् ? हे श्रीः // 41 // ____अ० हे कर्तृकुल, हे वारि-अत्र 'अनतो लुप्' (1 / 4 / 59) इति सूत्रेण सेढुंप, क्रियते, सिलोपे सति 'लुप्ययवृल्लेनत्' (7 / 4 / 112) इति वचनात्स्थानिवद्भावप्रतिषेधात्सेरभावे ह्रस्वस्य गुणो न भवति // हे कर्त्तः कुल, हे वारे-अत्र च 'नामिनो लुग्वा' इति सूत्रेण सेर्लुक् क्रियते / यत्र च प्रत्ययस्य लुग् इति भाषया लुप्यते तत्र स्थानिवद्भावो भवति / सेलुकि कृतेऽपि पुनः सिप्रत्ययाश्रितं कार्यं भवत्येव / अतोऽत्र गुणो जातः / ['श्रुतानुमितयोः श्रौतो विधिः बलीयान् इति न्यायः] // 41 // एदापः // 14 // 42 //