________________ श्रीसिद्धहेमशब्दानुशासने प्रथमाध्यायस्य चतुर्थः पादः स्त्रियां तु परत्वात्तिसृभावो भवति-तिसृणाम् // 34 // ‘एदोद्भ्यां ङसिङसोः रः // 1 // 4 // 35 // [एच्च ओच्च एदोत्] एदोद्भ्यां परयोर्डसिङसोः स्थाने रेफो भवति / अकार रिफे] उच्चारणार्थः / मुनेः / मुनेः / साधोः। साधोः / गोः / गोः // 35 // _अ० एदोभ्यामित्यत्र तकारः स्वरूपग्रहणार्थः / तेन लाक्षणिकयोरपि एदोतोः परिग्रहः / मुनेः / साधोः / योः / गोः / इत्यादिसिद्धम् / (वचनभेदो यथासङ्ख्यनिवृत्त्यर्थः) // 35 // खितिखीतीय उर् // 1 // 4 // 36 // खितिखीतीसम्बन्धिन इवर्णस्थानाद्यकारात्परयोर्डसिङसोः स्थाने उर् आदेशः स्यात् / खिसख्युः / सख्युः। ति-पत्युः / पत्युः / खी ती-सह खेन वर्तते सखः / सखं, सखायं [सखिशब्दं वा] वा इच्छतीति स्पनि किपि सखीः / पततीति पतः / पतं पतिं वा इच्छतीति क्यनि किपि पतीः / सख्युः / पत्युः। ['योऽनेकस्वरस्य' (2 / 1 / 56) यकारः] / य इति किम् ? यत्र यत्वादेशस्तत्र यथा स्यात् / इह माभूत्-अतिसखेः / अतिपतेः // 36 // अ० खिश्च तिश्च खीश्च तीश्च खितिखीत्यः / खितिखीतीनां य् खितिखीतीय / तस्मात् / सख्युः / पत्युः / 'इवर्णादेरस्वे स्वरे०' (1/2 / 21) इति यत्वं कृत्वा ङसिङसोः स्थाने उर् कर्त्तव्यः / सखमिच्छति / 'अमाव्ययात् क्यन् च' (3 / 4 / 23) क्यन् / 'अप्रयोगीत् (1 / 1 / 37) य तिष्ठति / 'क्यनि' (4 / 3 / 112) इति सूत्रेण ईकारः / सखीयं इति शब्दः / सखायमिच्छति वा / 'अमाव्ययात्०' (3 / 4 / 23) इति 'दीर्घश्च्वियङ्यक्क्येषु च' (4 / 3 / 108) इति सूत्रेण ईकारः / सखीय / यत्र अवर्णान्त शब्दात्क्यन् तत्र 'क्यनि' इति ईः / यत्र च इवर्णादेः परतः क्यन् तत्र 'दीर्घश्च्वियङ्' इति दीर्घः स्थान्यासन्नः // अतिसखेः- अत्र सखायमतिक्रान्तः अतिसखिः / पतिमतिक्रान्तः अतिपतिः / तस्मात्तस्य वा / तत्र धातुसम्बन्धी इवर्णो नहि केवलशब्दसम्बन्धी इवर्णः / अथवा समाससम्बन्धी / सखि शब्दोऽत्र गौणः / अतो न यकारः // 36 / / ऋतो डुर् // 14 // 37 // - ऋकारात्परयोः ङसिङसोः स्थाने डुर् इत्यादेशः स्यात् / पितुः / पितुः // 37 // तृस्वसृनप्तनेष्टुत्वष्टक्षत्तृहोतृपोतृप्रशास्त्रो घुट्यार् // 14 // 38 // तृच्तृन्प्रत्ययान्तस्य स्वस्त्रादिशब्दानां च सम्बन्धिन ऋकारस्य स्थाने तत्सम्बन्धिन्यन्यसम्बन्धिनि वा घुटि परे आर् आदेशः स्यात् / कर्तारम् / कर्तारौ / कर्तारः / स्वसारौ / स्वसारः / स्वसारम् / नप्तारौ / नप्तारः। नप्तारम् / नेष्टारौ। नेष्टारः। त्वष्टारम् / त्वष्टारः / क्षत्तारौ / क्षत्तारः / होतारौ होतारः। पोतारौ। प्रशास्तारौ। प्रशास्तारः / अतिकर्तारम् / अतिकर्तारौ अतिकर्तारः / सौ तु परत्वाद् डागुणौ भवतः-कर्ता / हे कर्त्तः। तृशब्दस्यार्थवर्तो ग्रहणेन प्रत्ययग्रहणानतादीनामव्युत्पन्नानां सज्ञाशब्दानां तृशब्दस्य ग्रहणं न स्यादिति तेषां पृथगुपादानम् [ग्रहणं] / इदमेव [तृशब्दग्रहणं] ज्ञापकमर्थवद्ग्रहणे नानर्थकस्य ग्रहणम् / व्युत्पत्तिपक्षे तु तृग्रहणेनैव सिद्धे नत्रादिग्रहणं नियमार्थम् / तेनान्येषामौणादिकानां न स्यात्। पितरौ / मातरौ। भ्रातरौ / जामातरौ॥३८॥ अ० 'ऋदुशनस्पुरुदंसो०' (1 / 4 / 84) इत्यादिना सेः स्थाने डा / 'हस्वस्य गुणः' (1 / 4 / 41) इत्यनेन