________________ 48 ___ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिते मध्यमवृत्त्यवत्रिभ्यामलते प्रध्यै / वर्षाम्चै / पुनर्बं / पूर्वेण ['स्त्रीदूत' इत्यनेन] नित्यमेव / स्त्रीदूत इति किम् ? यवक्रिये / कटप्पुवे। अस्त्रिया इति किम् ? स्त्रियै / स्त्रियाः 2 / स्त्रियाम् ['स्त्रियाः' (2 / 1 / 54) इत्यनेन इय्] / पूर्वेण ['स्त्रीदूत' इत्यनेन] नित्य- , मेव / अस्त्रिया इति निर्देशात्परादपि इयुत् यत्वादि कार्यात् ['योऽनेकस्वरस्य' (2 / 1 / 56) इत्यनेन] प्रागेव स्त्रीदूता. श्रितं कार्य भवति / तेन स्त्रियै / स्त्रीणाम् / भ्रूणाम् / आध्यै इत्यादि सिद्धम् // 30 // ____ अ० श्रियै धियै अतिश्रियै इत्यादि उदाहरणेषु सवेषु 'धातोरिवर्णोवर्णस्येयुस्वरे प्रत्यये' (2 / 1 / 50) इत्यनेन ईकारस्य इय् / 'भ्रूश्नो' (2 / 1 / 53) इत्यनेन ऊकारस्य उव् आदेशः कार्यः / आध्यै प्रध्यै 'ध्य चिन्तायाम्' ध्यै। आङ्-प्र-पूर्वम् / आध्यायतीति आधीः / प्रध्यायतीति प्रधीः / 'दिद्युद्ददृज्जगजुहूवाक्प्राट्धीश्रीसूज्वायस्तूकटपूपरि- ' वाड्भ्राजादयः क्विप्' (5 / 2 / 83) इति विप् धीभावश्च / 'क्किवृत्तेरसुधियस्तौ' (2 / 1 / 58) यत्वम् / यव / 'डुक्रींग्श्' द्रव्यविनिमये' क्री / कट / 'च्युङ् ज्युङ् जुङ् पुङ् प्लुड् गतौ' / पु / यवान् क्रीणाति / कटेन प्रवते / 'दिद्युद्ददृ०' इत्यादिना क्विप् दीर्धश्च / कटपू इति सिद्धम् / चतुर्थीङ / 'संयोगात्' (2 / 1 / 52) इति सूत्रेण इय् उव् आदेशः / 'स्त्रीदूतः' (1 / 4 / 29) इति सूत्रेण दै दास् दास् दाम् आदेशाः / 'आमो नाम् वा' (1 / 4 / 31) इत्यनेन नाम् , पूर्व पश्चात् इयुव्यत्वाः कार्या इत्यर्थः // 30 // . आमो नाम् वा // 14 // 31 // ___इयुवोः सम्बन्धिनौ यौ स्त्रीदूतौ तदन्तात्परस्य तत्सम्बन्धिनोऽन्यसम्बन्धिनो वा आमः स्थाने नाम् इत्यादेशः स्यात्, वा / अस्त्रियाः // श्रीणाम् श्रियाम् / भ्रूणाम् भुवाम् / अतिश्रीणाम् अतिश्रियाम् / स्त्रीणां पुरुषाणां वा / सुधीनां सुधियाम् // 31 // अ० शोभना धीरेषां ते सुधियः / तेषां सुधीनां / सुधियाम् / / 31 / / ह्रस्वापश्च // 1 // 4 // 32 // ह्रस्वान्तादाबन्तात् स्त्रीदूदन्ताच्च परस्यामः स्थाने नाम् इत्यादेशः स्यात् / ह्रस्व-देवानाम्, मुनीनाम्, बुद्धीनाम्, पितॄणाम् / आप्-खट्वानाम् / स्त्रीदूत्-नदीनाम्, स्त्रीणाम्, लक्ष्मीणाम् / 'स्त्रीशब्दवर्जितयोरियुवादेशसम्बन्धिनोः स्त्रीदूतोः पूर्वेण विकल्प एव / श्रीणाम् श्रियाम् / भ्रूणाम् भुवाम् // 32 // ___ अ० देवानां मुनीनां बुद्धीनां पितॄणाम् सर्वत्र ‘दी? नाम्यतिसृचतसृष्टः (1 / 4 / 47) इत्यनेन दीर्घः / 'इयुव्स्थानित्वेन विशेषविहितत्वादिति शेषः // 32 // सङ्ख्यानां ष्र्णाम् // 14 // 33 // रेफषकारनकारान्तानां सङ्ख्यावाचिनां शब्दानां सम्बन्धिन आमः स्थाने नाम् इत्यादेशः स्यात् / चतुर्णाम् / षण्णाम् / पञ्चानाम् / तत्सम्बन्धिविज्ञानादिह न स्यात्-प्रियचतुराम् / बहुवचनं व्याप्त्यर्थम् तेन भूतपूर्वनान्ताया अपि-अष्टानाम् / परमाष्टानाम् // 33 // त्रेस्त्रयः // 14 // 34 // आमः सम्बन्धिनस्त्रिशब्दस्य त्रयादेशो भवति / त्रयाणाम् परमत्रयाणाम् / आमसम्बन्धिविज्ञानादिह न स्यात्-अतित्रीणाम् / प्रियत्रीणाम् // 34 // अ० त्रीन् अतिक्रान्ता ये तेऽतित्रयः / तेषाम् अतित्रीणाम् / प्रियास्त्रयो येषां ते प्रियत्रयः / तेषां प्रियत्रीणाम्।