________________ 47 श्रीसिद्धहेमशब्दानुशासने प्रथमाध्यायस्य चतुर्थः पादः न नाङिदेत् // 1 // 4 // 27 // [डिति त् डिदेत् / नाश्च डिदेच्च] - केवलसखिपतेः परस्य टा इत्यस्य ना ङिति परे एकारश्च य उक्तः स न स्यात् / सख्या पत्या / सख्ये पत्ये / सख्युः 2 पत्युः 2 सख्यौ पत्यौ / डिदिति एतो विशेषणं किम् ? पतयः // 27 // ____ अ० डिति परे एकार इत्यादि 'डित्यदिति' (1 / 4 / 23) इति सूत्रेण एकारः / सख्युः पत्युः / अत्र पूर्व 'योऽनेकस्वरस्य' (2 / 1 / 56) इति सूत्रेण यकारः / पश्चात् 'खितिखीतीय उर्' (1 / 4 / 36) इति सूत्रेण डसिडसः स्थाने उर् आदेशः // सख्यौ / पत्यौ / अत्र विशेषविधित्वात् पूर्व 'केवलसखिपतेरौः' इति सूत्रेण औत्वे कृते 'तदादेशास्तद्वत्' इति न्यायात् पुनरेत्वं प्राप्तं 'न नाडिदेत्' इत्यनेन प्रतिषिध्यते // 27 // स्त्रिया ङितां वा दै दास् दास् दाम् // 14 // 28 // स्त्रियाःस्त्रीलिङ्गादिदन्तोदन्ताच्छब्दात्परेषां तत्सम्बन्धिनामन्यसम्बन्धिनां वा स्यादेर्डितां डेङसिङस्टीनां स्थाने यथासङ्ग्यं दै दास् दास् दाम् इत्यादेशा वा भवन्ति / दकारो 'ङित्यदिती'ति [सूत्रे] विशेषणार्थः / बुद्ध्यै बुद्धये / बुद्ध्याः बुद्धेः, 2 / आगतं, स्वं, वा / बुद्ध्याम् बुद्धौ / एवं धेन्वै धेनवे इत्यादि / पढ्दै पटवे / पत्यै पतये / स्त्रियै ? पुंसे वा / कन्यापत्यै कन्यापतये / प्रियबुद्धयै प्रियबुद्धये / एवं प्रियधेन्वै प्रियधेनवे खियै पुरुषाय वा // 28 // _अ० कन्या पतिर्यस्य यस्या वा / स सा / तस्मै / तस्यै (कन्यापत्यै कन्यापतये) / एवं प्रिया बुद्धिर्यस्य यस्या वा / प्रिया धेनुर्यस्य यस्या वा // 28 // . स्त्रीदतः // 1 // 4 // 29 // - नित्यस्त्रीलिङ्गादीकारान्तादूकारान्ताच परेषां तत्सम्बन्धिनामन्यसम्बन्धिनां ङितां स्थाने यथासङ्ग्यं दै दास् दास् दास् दाम् आदेशा भवन्ति / नयै / नद्याः 2 / नद्याम् / लक्ष्म्यै / लक्ष्याः 2 / लक्ष्म्याम् / वध्वै / वध्वाः 2 / वधवाम् / वर्षावै / वर्षाभ्वाः / अतिलक्ष्म्यै स्त्रिये पुरुषाय वा / कुमारीमिच्छति क्यनन्तात्, कुमारी-वाचरतीति किबन्ताद्वा कर्तरि किप् / कुमारी / तस्मै तस्यै वा / कुमार्य ब्राह्मणाय / ब्राह्मण्यै वा। स्त्रिया इत्यनुवर्तमाने पुनः स्त्रीग्रहणं नित्यस्त्रीविषयार्थम् / तेनेह न भवति-ग्रामण्ये खलप्वे स्त्रियै // 29 // अ० स्त्रियाः स्त्रीसम्बन्धिन ईत् ऊत् स्त्रीदूत् / तस्मात् / वर्षा / 'भू सत्तायाम्' भू / वर्षासु भवतीति वर्षाभूर्द१रः / 'दृनपुनर्वर्षाकारैर्भुवः' (2 / 1159) इत्यनेन वत्वम् / लक्ष्मीमतिक्रान्तोऽतिक्रान्ता वा / ग्राम / 'णींग प्रापणे' णी। 'पाठे धात्वादेर्णो नः' (2 / 3 / 97) नी / ग्रामं नयतीति ग्रामणीः / खल / 'पूंडर पवने' पू / खलं पुनातीति 'किप्' (5 / 1 / 148) इति सूत्रेण क्विप् / 'अप्रयोगीत्' (1 / 1 / 37) 'ग्रामाग्रान्नियः' (2 / 3 / 71) इति सूत्रेण नी इत्यस्य णत्वम् / चतुर्थीङ / 'क्किवृत्तेरसुधियस्तौ' (2 / 1 / 58) इति सूत्रेण ईकारस्य यत्वम् / ऊकारस्य वत्वम् / / 29 / / - वेयुवोऽस्त्रियाः // 14 // 30 // [ स्त्रिया' (2 / 1 / 54) इति इय] . इयुवोः सम्बन्धिनौ यौ स्त्रीदूतौ तदन्तात्परेषां तत्सम्बन्धिनामन्यसम्बन्धिनां वा ङितां स्थाने यथासङ्ग्यं दै दास दास् दाम् वा स्युः / अस्त्रियाः-स्त्रीशब्दं वर्जयित्वा / श्रियै श्रिये / श्रियाः श्रियः, 2 / प्रियाम् नियि। एवं भुवै भुवे / भुवाः भुवः, 2 / भुवां भुवि / धियै धिये / धियाः धियः, 2 / धियां घियि / [श्रियमतिक्रान्ताय] अतिभियै अतिश्रिये नराय नाय वा / एवं पृथुश्रियै पृथुश्रिये नराय स्त्रियै वा / इयुव इति किम् ? आध्यै।