________________ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिते मध्यमवृत्त्यवचूरिभ्यामलते / धेनवः / अतिस्त्रयः // 22 // अ. स्त्रियमतिक्रान्ता ये तेऽतिस्त्रयः / / 22 / / ङित्यदिति // 14 // 23 // अदिति ङिति स्यादौ परे इदन्तस्योदन्तस्य यथासङ्ग्यं एत् ओत् इत्यन्तादेशो स्याताम् / मुनये / साधवे। अतिस्त्रये / मुनेः साधोः / अतिस्त्रेः / आगतं स्वं वा / बुद्धये / धेनवे इत्यादि / अदितीति किम् ? बुद्धयै धेन्वै। बुद्धयाः 2 / धेन्वाः 2 / बुद्ध्याम् / धेन्वाम् // 23 // ___अ० अदिति इति कोऽर्थः- स्त्रियां डितां वा दै दास् दास् दाम्' (1 / 4 / 28) इति सूत्रविषयं वर्जयित्वा / स्त्रीमतिक्रान्तो चः तस्मै अतिस्त्रये / एषु 'स्त्रियां डितां वा दै दास् दास् दाम्' अनेन दै दास दास् दाम् आदेशाः // 23 // टः पुंसि ना // 1 // 4 // 24 // इदन्तोदन्तात्परस्य पुंसि पुंविषयस्य टावचनस्य तृतीयाविभक्तिएकवचनस्य] स्थाने ना इत्यादेशो भवति / मुनिना। साधुना / अतिस्त्रिणा। अमुना-अत्र “प्रागिनात्" इतिवचनात् पूर्वमुत्वं पश्चानादेशः / कथं अमुना कुलेन ? अत्र "अनामस्वरे नोऽन्तः" (1 / 4 / 64) इति भविष्यति // 24 // अ० अमुना / अदस् / टा 'आद्वेरः' (2 / 1141) इति मस्य अकारः / 'मोऽवर्णस्य' (2 / 1145) इति दस्य मकारः / 'प्रागिनात्' (2 / 1 / 48) सूत्रेण अकारस्य उकारः / ततः नाऽऽदेशः // 24 // ङिडौँ // 14 // 25 // .. इदन्तोदन्तात्परो डिः सप्तम्येकवचनं डौर्भवति / मुनौ / साधौ / अतिस्त्रौ / बुद्धौ / धेनौ / अदिदित्येव. बुद्धयाम् धन्वाम् // 25 // . अ० डिौँ इति अभेदनिर्देशश्चतुर्युकवचनशङ्कानिरासार्थः / अभेदनिर्देश इति कोऽर्थः-डिरेव डौ भवति / यदि डेडौं इति कुर्यात् तदा मुग्धशिष्यश्चतुर्थ्येकवचनं शङ्केत, अतः प्रथमान्त एव निर्देशः / तथा डौ इति डकारोऽन्त्यस्वरादिलोपार्थः // 25 // केवलसखिपतेरौः // 14 // 26 // केवलसखिपतिभ्यामिदन्ताभ्यां परो डिरौः स्यात् / सख्यौ / पत्यौ / इत इत्येव-सखायमिच्छति क्यनि दीर्घत्वे सखीयतीति किपि यलोपे सखी / सख्यि। एवं पत्यि / केवलग्रहणं किम् ? / प्रियसखौ / नरपतौ। पूजितः सखः सुसखा / तस्मिन् सुसखौ / ईषदूनः सखा बहुसखा / तस्मिन् बहुसखौ / बहुपतौ / एषु पूर्वेण 'डिडौँ' इति डोरेव // 26 // ____ अ० सखि / सखायमिच्छति ‘अमाव्ययात्क्यन् च' (3 / 4 / 23) इति क्यन् / 'अप्रयोगीत्' (1 / 1 / 37) यकारस्तिष्ठति / 'दीर्घवियङ्यक्क्येषु च' (4 / 3 / 108) इति सूत्रेण दीर्घः / ईकारः / सखीयतीति सखी किप् / 'प्वोः प्वय्व्यञ्जने लुक्' (4 / 4 / 121) अनेन यस्य लोपः / सखीशब्दः, सप्तमीङि / 'योऽनेकस्वरस्य' (2 / 1 / 56) इति सूत्रेण यकारः / सख्यि इति सिद्धम् / प्रियः सखा यस्य स प्रियसखा / तस्मिन् प्रियसखौ / नराणां पतिर्नरपतिः। तस्मिन् / बहुसखा इत्यत्र 'नाम्नः प्राग्बहुर्वा' (7 / 3 / 12) इति बहुः पूर्वः // 26 //