________________ श्रीसिद्धहेमशब्दानुशासने प्रथमाध्यायस्य चतुर्थः पादः सर्वादेर्डस्पूर्वाः // 14 // 18 // सर्वादेराबन्तस्य सम्बन्धिनां ङितां यैयास्यास्यामास्ते डस्पूर्वा भवन्ति / सर्वस्यै / सर्वस्याः 2 / सर्वस्याम् // अस्यै / अस्याः 2 / अस्याम् / अत्र परत्वात्पूर्वमऽदादेशे पश्चाडुस् / तीयस्य विकल्पेन ङित्कार्ये सर्वादित्वात्-द्वितीयस्यै, द्वितीयायै // 18 // ___ अ० अस्यै इत्यादि / इदम् / चतुर्थीङ / 'आदेरः' (2 / 1 / 41) इति मस्य अकारः / 'आत्' (2 / 4 / 18) इति आप् / 'आपो डितां०' (1 / 4 / 17) यै आदेशः / 'अनक्' (2 / 1 / 36) इति इदम्स्थाने अत् / 'समानानां०' (1 / 2 / 1) दीर्घः / तदनन्तरं डस् / डकारोऽन्त्यस्वरादिलोपार्थः / 'डित्यन्त्य०' (2 / 1 / 114) इति आकारलोपः। अस्य इति सिद्धम् / एवं अस्या इत्यादि // 18 // टौस्येत् // 14 // 19 // आवन्तस्य सम्बन्धिनोष्टौसोः परयोरेकारोऽन्तादेशः स्यात् / खट्वया / खट्वयोः / आप इत्येवकीलालपा ब्राह्मणेन // 19 // अ० कीलालं पिबतीति कीलालपा / 'मन् वन् क्वनिप् विच् क्वचित्' (5 / 1 / 147) इत्यनेन विच्प्रत्ययः / ततः तृतीयाटा // 19 // .. . औता // 14 // 20 // * आवन्तस्य सम्बन्धिना औता औकारेण सहाबन्तस्यैव एत् इत्यादेशो भवति / माले तिष्ठतः / माले पश्य // 20 // इदुतोऽत्रेरीदूत् // 14 // 21 // . स्त्रिशब्दवर्जितस्य इदन्तस्य उदन्तस्य च औता सह यथासङ्ग्यमीत् ऊत् इत्यादेशौ भवतः / मुनी तिष्ठतः पश्य वा / साधू [तिष्ठतः पश्य वा] / सख्यौ पत्यावित्यत्र तु विधानसामर्थ्यान स्यात् / अस्त्रेरिति किम् / स्त्रीमतिक्रान्तौ] अतिस्त्रियौ पुरुषौ / कथं शस्त्रीमतिक्रान्तौ अतिशस्त्री पुरुषो ? अर्थवद्हणे नानर्थकस्येति प्रतिषेथाभावात् / इदमेव चास्त्रिग्रहणं ज्ञापकम्, परेणापीयादेशेनैतत् कार्य न बाध्यते / तेनातिस्त्रयः / सहस्त्रयस्तिएंति / अत्तिस्त्रये / अतिस्त्रिणा // 21 // __अ० स्त्रिवर्जनात्तत्सम्बन्धीति न सम्बध्यते / सख्यौ पत्यौ / सखि / पति / सप्तमी एकवचनं ङि / 'केवलसखिपतेरौः' (1 / 4 / 26) इति सूत्रेण ङि स्थाने औ आदेशः, अत्र ‘इदुतोऽस्नेरीदूत्' (1 / 4 / 21) ईत् प्राप्तनोति, परं विधानसामर्थ्यात कोऽर्थः ? औ करणान भवति / सूत्रेऽर्थवत् सार्थकस्त्रीशब्दवर्जनात् शस्त्रीशब्दे च स्त्री इति अनर्थकः, अतः प्रतिषेधो न भवतिः, ईत् भवत्येवेत्यर्थः / 'इदुतोऽस्टेरीदूत्' अत्र स्त्रीवर्जनं फल्गु एव 'स्त्रियाः' (2 / 1154) " इति स्त्रीशब्दस्य परत्वात् इय् आदेशो बाधकोऽस्तीति उक्तम् / इदमेव चास्त्रीति-स्त्रीमतिक्रान्ताः सहस्त्रिया वर्त्तन्ते / 'गोश्चान्ते०' (2 / 4 / 96) इत्यादिना ह्रस्वः / 'जस्येदोत्' (1 / 4 / 22) एकारः / 'डित्यदिति' (1 / 4 / 23) एकारः / अतित्रिणा इत्यत्र 'टः पुंसि ना' (1 / 4 / 24) अनेन ना आदेशः // 21 // जस्येदोत् // 1 // 4 // 22 // इदन्तस्य उदन्तस्य च जसि परे यथासङ्ग्यं एत् ओत् इत्यन्तादेशौ भवतः / मुनयः / साधवः / बुद्धयः।