________________ 44 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिते मध्यमवृत्त्यवरिभ्यामलङ्कृते . तीयप्रत्ययान्तं शब्दरूपं ङितां डेङसिङस्डीनां कार्ये कर्त्तव्ये सर्वादिषु भवति / द्वितीयस्मै द्वितीयाय। द्वितीयस्यै द्वितीयायै / द्वितीयस्मात् द्वितीयात् / द्वितीयस्याः द्वितीयायाः। आगतः स्वं वा / द्वितीयस्मिन् द्वितीये। द्वितीयस्यां द्वितीयायाम् / एवं तृतीयस्मायित्यादि / ङित्कार्य इति किम् ? द्वितीयकाय द्वितीयकायै। अर्थवतः प्रतिपदोक्तस्य च ग्रहणादिह न स्यात्पटुजातीयाय / मुखतो भवो मुखतीयः, गहादिपाठादीयः / मुखतीयाय / पार्श्वतीयाय // 14 // __ अ० द्वितीयकायेत्यादि / अत्र द्वितीयः कुत्सिताद्यर्थः / कुत्सितो द्वितीयः, अल्पो वा द्वितीयः, अज्ञातो द्वितीय इति त्रिष्वर्थेषु 'कुत्सिताल्पाज्ञाते' (7 / 3 / 33) इति सूत्रेण कप् / कुत्सिता द्वितीया द्वितीयिका / कप् 'स्वज्ञाजभस्राधातुत्ययकात्' (2 / 4 / 108) इति सूत्रेण आकारस्य इत्वम् कप्प्रत्यये सति / अकं विनाऽन्यस्वार्थिकप्रत्ययाग्रहणादिति वचनादत्र सर्वादित्वाभावात् स्मै डस्पूर्वयै इत्याद्यादेशा न भवन्ति / पटुजातीयायेत्यादि- पटुः प्रकारोऽस्य इति वाक्ये 'प्रकारे जातीयर्' (7 / 2 / 75) इति सूत्रेण जातीयप्रत्ययः / चतुर्थीङ 'डेडस्योर्यातौ' (1 / 4 / 6) अत्र डे इत्यस्य न स्मै / सूत्रे तीय इतिस्वरूपसार्थकग्रहणात् अत्र च जातीयप्रत्यये तीय इति निरर्थकम् / तथा मुख. / मुखे मुखतः / पार्श्व. / पार्श्वे पार्श्वतः / 'आद्यादिभ्यः' (7 / 2 / 84) इति तस् / मुखतस् / पार्श्वतस् / मुखतो भवो मुखतीयः / पार्श्वतो भवो पार्श्वतीयः / 'गहादिभ्यः' (6 / 3 / 63) इति सूत्रेण ईयप्रत्ययः / 'प्रायोऽव्ययस्य' (7 / 4 / 65) इति सूत्रेण अन्त्यस्वरादिलुग् / सूत्रे तीय इति प्रतिपदोक्तस्वाभाविकग्रहणात् अत्र लाक्षणिकतीय इत्यस्य न स्मै आदेशः // 14 // अवर्णस्यामः साम् // 14 // 15 // अवर्णान्तस्य सर्वादेः सम्बन्धिन आमः स्थाने साम् इत्यादेशः स्यात् / सर्वेषाम् / सर्वासाम् / परमसर्वेषाम् / विश्वासाम् / कथं 'व्यथां द्वयेषामपि मेदिनीभृतां' इति / अपपाठ एषः [अलीक एवायं पाठः] // 15 // ___ अ० 'सन्निपातलक्षण' न्यायस्यानित्यत्वादेत्वं भवति / 'संमूर्च्छदुच्छृङ्खल शङ्खनिःस्वनः स्वनः प्रयाते पटहस्य शाङ्गिणि / सत्त्वानि निन्ये नितरां महान्त्यपि' इति पूर्वपदत्रयं माघे // 15 // नवभ्यः पूर्वेभ्य इस्मास्मिन् वा // 1 // 4 // 16 // पूर्वादिभ्यो नवभ्यो यथास्थानं ये इ-स्मात्-स्मिन्-इत्यादेशा उक्तास्ते वा स्युः / पूर्वे पूर्वाः / पूर्वस्मात् पूर्वात् / पूर्वस्मिन् पूर्वे / एवं परे इत्यादि // 16 // (पूर्वाद्यन्तरपर्यन्ता नव, सर्वादिगणगताः] . __आपो ङितां यै यास् यास् याम् // 1 // 4 // 17 // आवन्तसम्बन्धिनां स्यादेङितां डेङसिङस्डीनां स्थाने यथासङ्ग्यं ये यास् यास् याम् इत्यादेशा भवन्ति। खट्वायै / खट्दायाः 2 / खट्वायाम् / तत्सम्बन्धिविज्ञानादिह न स्यात् / बहुखट्वाय पुरुषाय / इह तु भवति [यै आदेशः]-बहुखट्वायै विष्टराय // 17 // अ० बह्वयः खट्दा यस्य तस्मै / 'परतः स्त्री पुंवत्स्त्र्ये कार्थेऽनू' (3 / 2 / 49) इति पुंवद्भावः / बहु इति रूपम्। 'गोश्चान्ते ह्रस्वोऽनंशि०' (2 / 4 / 96) इत्यनेन खट्दाशब्दस्य ह्रस्वः / बहुखट्वायै विष्टरायेति / खट्वा / ईषदपरिसमाप्ता खट्दा बहुखट्वा / 'नाम्नः प्राग्बहुर्वा' (7 / 3 / 12) इति सूत्रेण बहुः क्रियते पूर्वम् / तस्यै / विष्टरशब्दस्य पुंल्लिङ्गत्वं बहुखट्वाय इत्यस्य न स्यात् / 'प्रकृतेर्लिङ्गवचने वा दधते स्वार्थिकाः कचित्' इति वचनात् / / 17 / /