________________ श्रीसिद्धहेमशब्दानुशासने प्रथमाध्यायस्य चतुर्थः पादः तदा क्लीबे) केचित् इति विशेषः / द्वाववयवावस्य इति वाक्ये “अवयवात्तयट्' (7 / 1 / 151) इति सूत्रेण तयट् द्वितये / द्वाववयवावस्येति वाक्ये "द्वित्रिभ्यामयड् वा' (7 / 1 / 152) इति सूत्रेण अयट् / द्वये / एवं त्रितये / त्रये / त्रयोऽवयवा अस्येति पूर्ववत्तयट् अयट् / उभयट-शब्दस्य तु अयट्रहितस्य अखण्डस्य सर्वादौ पाठात् 'जस इ:' (1 / 4 / 9) इति सूत्रेण नित्यमेव इ: / उभये न तु उभयाः // 10 // द्वन्द्वे वा // 14 // 11 // द्वन्द्वे समासे वर्तमानस्य अकारान्तस्य सर्वादेः संबन्धिनो जस इर्वा स्यात् / पूर्वोत्तरे / पूर्वोत्तराः / कतरकतमे / कतरकतमाः / तत्सम्बन्धिविज्ञानादिह न स्यात्-प्रियकतरकतमाः / वस्त्रान्तरवसनान्तराः / उत्तरेण निषेधे प्राप्ते प्रतिप्रसवार्थो योगः [पुनरुत्पत्तिर्भवति] // 11 // ____ अ० पूर्वाश्च उत्तराश्च पूर्वोत्तरे / पूर्वे च उत्तरे च इति वा वाक्यम् / कतरकतमे इत्यादि-किम् अनयोर्योर्मध्ये को विद्वान् पटुर्वा इति निर्धार्ये अर्थे 'यत्तत्किमन्यात्' (7 / 3 / 53) इति सूत्रेण डतरप्रत्ययः / कतम इत्यत्र च / किम्एषां मध्ये कः पटुता वा इत्यर्थे 'बहूनां प्रश्ने डतमश्च वा' (7 / 3 / 54) इत्यनेन डतमः / बहुषु जनेषु उपविष्टेषु कश्चित् कश्चित् पृच्छति इति प्रश्नं किम्शब्दस्यैव विशेषणविषयम्, न यत्तत् अन्यानां विशेषणविषयं प्रश्नं घटते। तत्रेदं वाक्यम्-अनयोर्मध्ये एषां मध्ये वा यः पटुः / स पटुः / अन्योऽयं पटुः / स यत्तरः / तत्तरः / अन्यतरः / यतमः / ततमः / अन्यतमः / अत्र स आगच्छतु इति वाक्यरचना कार्या / डतरडतमप्रत्यये ज्ञेया / ततः कतरे च कतमे च (कतरकतमे) / कतरकतमाः / वस्रान्तरवसनान्तरा इति / वस्त्रमन्तरं येषां ते वस्त्रान्तराः वसनमन्तरं येषां ते वसनान्तराः / वस्त्रान्तराश्च वंसनान्तराश्च वस्त्रान्तरवसनान्तराः / अत्र वसनशब्दो गृहपर्यायः / एकोऽन्तरशब्दो व्यवधानार्थी अन्यश्च अन्तरशब्दो विशेषार्थी इति विशेषः / उत्तरेण निषेध इति-उतरसूत्रेण 'न सर्वादिः' इत्यनेन जस इत्वे प्रतिषेधे प्राप्ते सति / 'द्वन्द्वे वा' इति योगः सूत्रं प्रतिप्रसवार्थं कृतम् / प्रतिप्रसव इति कोऽर्थः ? पुनर्जस्स्थाने इत्वं उत्पद्यते इत्यर्थः // 11 // . . न सर्वादिः // 1 // 4 // 12 // द्वन्द्वे सर्वादिः सर्वादिर्न स्यात् / सर्व सर्वादिकार्य न स्यादित्यर्थः / पूर्वापराय / पूर्वापरात् / पूर्वापरे। दक्षिणोत्तरपूर्वाणाम् / अत्र 'सर्वादयोऽस्यादौ' (3 / 2 / 61) इति पुंवद्भावो भवत्येव / तत्र भूतपूर्वस्यापि सर्वादेर्ग्रहणात् // 12 // अ०, पूर्वश्च अपरश्च / दक्षिणा च उत्तरा च पूर्वा च // 12 / / तृतीयान्तात्पूर्वावरं योगे // 1 // 4 // 13 // -- तृतीयान्तात्पदात्परौ पूर्व, अवर, इत्येतौ योगे सम्बन्धे सति सर्वादी न भवतः। मासपूर्वाय / दिनाऽवराय। मासाऽवरात् / मासाऽवराः। तृतीयान्तादिति किम् ? ग्रामात्पूर्वस्मै / पूर्वस्मै मासेन / अवरस्मात्पक्षेण // 13 // अ० तृतीयाऽन्ते यस्य स्थानिवद्भावेन / अथवा तृतीयाया अन्तो अवसानं यस्मात् / पूर्वश्च अवरश्च पूर्वावरं समाहारद्वन्द्वः / योगे सम्बन्धे इत्यादि-अर्थात्तृतीयान्तेनैव पदेन सह योगे सति / योगश्चात्र एकार्थीभावो व्यपेक्षा वा / उभयमपि गृह्यते / मासेन पूर्वाय मासपूर्वाय / दिनेन अवराय लघवे / / 13 / / तीयं ङित्कार्ये वा // 1 // 4 // 14 //