________________ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिते मध्यमवृत्त्यवचूरिभ्यामलते / बहिर्योगेनैव सिद्धत्वात् / अन्तरायै इति चण्डालादि पुर्यै क्रुध्यति / / सर्वविभक्त्यादय इत्यादि-अत्र आदिशब्दात् अक् ? एकशेष 2 पूर्वनिपात 3 पुंवद्भाव 4 डद्रि 5 आत् 6 आयनिञ् 7 मयट 8 इति प्रयोजनान्यपि यथायोगं ज्ञातव्यानि / यथा हेत्वर्थे सर्वविभक्तिः / केन हेतुना इत्यर्थे प्रयोगमाला / तथाहि को हेतुर्वसति चैत्रः / कं हेतुम् / केन हेतुना / कस्मै हेतवे / कस्माद्धेतोः कस्य हेतोः। कस्मिन् हेतौ वसति / एवं द्वौ हेतो(तू) द्वाभ्यां हेतुभ्याम् / द्वयोर्हेत्वोः / युवाभ्यां हेतुभ्याम् / युवर्योर्हेत्वोः / भवभ्यां हेतुभ्याम् / भवतोर्हेत्वोरिति सर्वविभक्तिप्रयोजनम् / 'सर्वादेः सर्वाः (2 / 2 / 119) इति सूत्रेण सर्वविभक्तयो भवन्ति / अज्ञाते द्वे द्वके स्त्रियौ कुले वा / द्वको पुरुषौ / युवकाभ्याम् / भवकान् / अत्र 'त्यादि सर्वादेः०' (7 / 3 / 29) इत्यनेन अक् 1 / स च भवांश्च भवन्तौ अत्र ‘त्यदादिः' (3 / 1 / 120) इति सूत्रेण एकशेषः 2 / भवानपुत्रोऽस्येति भवत्पुत्रः अत्र 'विशेषणं सर्वादिसङ्खचं बहवीहौ' (3 / 1150) इति भवतः सर्वादित्वात्पूर्वनिपातः 3 / भवत्याः पुत्रो भवत्पुत्रः अत्र सर्वादित्वात् ‘सर्वादयोऽस्यादौ' (3 / 2 / 61) इति पुंवद्भावः 4 / भवन्तमश्चतीति क्विपि भवाङ् अत्र ‘सर्वादिविष्वग्देवाड्डद्रिक्व्यञ्चौ' (3 / 2 / 122) इति डद्रि आगमः 5 / भवानिव दृश्यते भवादृशः, यूयमिव दृश्यन्ते युष्मादृशः-अत्र 'त्यदाद्यन्यसमानादुपमानाद् व्याप्ते दृशष्टक्सको च' (5 / 1 / 152) इति टक् / ततोऽन्यत्यदादेराः' (3 / 2 / 152) इति सूत्रेण आत् आकार:६ / भवतोऽपत्यं भावतायनिः अत्र ‘त्यदादि' (6 / 1 / 7) इति त्यदादिगणस्य दुसंज्ञायां सत्याम् ‘अवृद्धाद्दोर्नवा' (6 / 1 / 110) इत्यनेन आयनिञ्प्रत्ययः / तथा भवतोयं भवदीयः / युष्माकमयं युष्मदीयःअत्र 'दोरीयः' (6 / 3 / 32) इति ईयः इत्यपि ज्ञेयम् 7 / भवतः प्रभवतीति भवन्मयम् / एवं युष्मन्मयम्अत्र 'त्यदादेर्मयट्' (6 / 3 / 159) इत्यनेन मयट् 8 / एवं अष्टौ विशेषां त्यदाद्यन्तस्थानां द्वियुष्मद्भवत्वस्मदां विषये सर्वादित्वे सति ज्ञातव्याः / / 7 / / डेः स्मिन् // 1 // 48 // सर्वादेरकारान्तस्य सम्बन्धिनो के स्थाने स्मिन् इत्यादेशः स्यात् / सर्वस्मिन् // 8 // जस इः // 1 // 4 // 9 // सर्वादेरकारान्तस्य संबन्धिनो जसः स्थाने इकार आदेशो भवति / सर्वे / तत्सम्बन्धिविज्ञानादिह न स्यात्-प्रियसर्वाः // 9 // __ अ० 'प्रत्ययस्य' (7 / 4 / 108) इति तद्धितप्रान्ते सूत्रम् / अस्यार्थः-प्रत्ययस्य स्थाने विधीयमान आदेशः सर्वस्य भवतीति न्यायात् जसः सर्वस्यापि स्थाने इर्भवतीत्यर्थः / / 9 / / नेमार्द्धप्रथमचरमतयायाल्पकतिपयस्य वा // 1 // 4 // 10 // नेमादीनि नामानि / तयायौ प्रत्ययौ / तेषामकारान्तानां संबन्धिनो जस इर्वा स्यात् / नेमस्य प्राप्ते [ऽर्द्धादीनां] इतरेषामप्राप्ते विभाषा। नेमे नेमाः / अर्द्ध अर्द्धाः। प्रथमे प्रथमाः। चरमे चरमाः। द्वितये द्वितयाः। द्वये द्वयाः / एवं त्रितये इत्यादि / एवं अल्पे इत्यादि // 10 // ___ अ० अर्द्ध / स्वार्थिकान्यप्रत्ययान्ताग्रहणादिह जस इन स्यात्-अर्द्धकाः-'यावादिभ्यः स्वार्थे कः' (7 / 3 / 15) / सर्वादेरित्येव-नेमा नाम केचित् / तथा व्यवस्थितविभाषाविज्ञानाद‘दीनामपि संज्ञायां न इकारः / अर्द्धा नाम (नाम इति अव्ययं अकारांतं नामनाम्ना संज्ञया ज्ञातव्यम् / अथवा नाम प्रसिद्धार्थे / किं नाम अर्द्धा नाम इति