________________ श्रीसिद्धहेमशब्दानुशासने प्रथमाध्यायस्य चतुर्थः पादः इत्यत्र उकारो झ्यर्थो दीर्घार्थश्च-भवती भवान् // 7 // ___ अ० उभयशब्दः स्वभावादेकवचनबहुवचनान्तः / यथा उभयी दृष्टिः उभये देवमनुष्याः / उभयट्अत्र टो ड्यर्थः उभयी दृष्टिः / अन्य-अन्यतर-इतर-डतर-डतमान्तशब्दाः एवं शब्द 5 अन्यादिगणोपयोगी / 'पंचतोऽन्यादे०' (1 / 4 / 58) इत्यत्र फलम् एषां शब्दानाम् / अन्यादयः सर्वादिगणे अन्यादिगणेऽपि ज्ञातव्याः / यस्मात् शब्दात् डतर डतम इति प्रत्ययौ भवतः स शब्दः सर्वादिः, अन्यादिश्च इत्यर्थः / त्वशब्दोऽन्यार्थः / त्वत्शब्दः समुच्चयपर्यायः, तस्य स्मायादयो न भवन्ति, गणपाठे तु हेत्वर्थयोगे सर्वविभक्तित्वम्, अक्प्रत्ययश्च प्रयोजनम् / यथा त्वतं हेतुम् त्वता हेतुना / अज्ञातात् त्वतः त्वकतः 'कुत्सिताल्पाज्ञाते' (7 / 3 / 33) इत्यक् / नेमशब्दोऽर्थिः / समसिमशब्दौ सर्वार्थो समस्मै, सिमस्मै / सर्वार्थादन्यत्र समाय देशाय, समाद्देशाद्धावतीति भवति / बहिर्योग इति-बहिरनावृतो देशस्तेन योगः सम्बन्धो बहिर्योगः, स च अनावृतस्य बाह्यस्य वस्तुनो भवति / त्यदादिगणे त्यद् प्रमुखशब्दा 12 द्वादशः सर्वादिसंज्ञा भवन्ति असंज्ञायाम् / इह व्याकरणे त्यदादिगणे युष्मदस्मदोर्विचाले एव भवतुशब्दः पठ्यते, न युष्मद्अस्मद्प्रान्ते। समासपादे 'त्यदादिः' (6 / 1 / 7) इति सूत्रे त्वं च भवांश्च भवन्तौ, भवांश्च अहं च आवाम्, अहं च कश्च को इति प्रयोगा यथा सिद्धयन्ति / किम्शब्दश्च त्यदादिगणप्रान्ते एव पठनीयः / सर्वादिगणे शब्दाः 35 सर्वनामसंज्ञा भवन्ति / संज्ञायां च सत्यां सर्वादिसंज्ञा न भवन्ति यथा सर्वो नामेत्यादि / 'यत्तत्किमन्यात्' (7 / 3 / 53) इति डतरप्रत्ययः / / अन्यतमेत्यत्र 'बहूनां प्रश्ने डतमश्च वा' (7/3 / 54) इति डतमप्रत्ययः / 'वैकाद् द्वयोर्निर्हार्ये डतरः' (7 / 3 / 52) 'यत्तत्किम०' 'बहूनां प्रश्ने डतम०' 'वैकात्' (73 / 55) इति सूत्रेषु डतरडतमप्रत्ययौ पठितौ स्तः, तौ ग्राह्यौ। ___ अन्यस्वार्थिकेत्यादि कोऽर्थः-'प्रकृष्टे तमप्' (7 / 3 / 5) 'द्वयोर्विभज्ये च तरप्' (7 / 3 / 6) 'क्वचित् स्वार्थे' (7 / 3 / 7) / अथवा 'यावादिभ्यः कः' (7 / 3 / 15) इत्यादिसूत्रैर्ये प्रत्ययाः कृतास्तेषु सत्सु सर्वादित्वं न भवति। क्प्रत्ययस्य अन्त्यस्वरात्पूर्वं क्रियमाणत्वात् ग्रहणं भवत्येव / प्रकृत्यर्थसंबद्धो हि अक् / यथा सर्वकस्मै परमसर्वके इत्यादि / पूर्वादिसप्तशब्दानां स्वामिधेयो दिग्देशकालस्वभावोऽर्थः / तम् अपेक्षते इति स्वाभिधेयापेक्षस्तस्मिन् / अयमर्थः-दिगादीनामर्थानां पूर्वादिशब्दाभिधेयानां यत्तावत्पूर्वादित्वं तदवश्यं कमप्यवधिमपेक्ष्य भवति / तथाहि पूर्वस्या दिशो देशस्य वा यत्पूर्वत्वं तदवश्यं परदिग्देशादिकमवधिमपेक्षते / तथा परस्यापि यत्परत्वं तत्पूर्वादि अवधिमपेक्षते। एवं दक्षिणोत्तरादिशब्दानां स्वाभिधेयापेक्षावधिनियमत्वं भावनीयम् / व्यवस्थाऽवधिरिति एकार्थाविति ज्ञेयम् / तथा व्यवस्थाया अन्यत्रेत्यादि--यत्र दिग्देशकालभावानां विषयो भवति तत्रैव पूर्वादयः शब्दाः सर्वनामत्वं लभन्ते / यत्र च पूर्वादिशब्दाः संज्ञायां विशेषणे वा प्रवर्त्तन्ते तत्र न सर्वादित्वम् / यथा पूर्वाय नराय / प्रियपूर्वाय / अथवा दक्षिणायेत्यादि विशेषणविषयमुदाहरणं ज्ञेयम् / स्वशब्द आत्मात्मीयज्ञातिधनेषु चतुर्थेषु वर्त्तते / तत्र आत्मात्मीय इत्यर्थद्वये स्वशब्दः सर्वादिः / ज्ञातिधनयोरर्थयोर्वर्त्तमानो न सर्वादिः / उदाहरणानि वृत्तिमध्य एव सन्ति / - बहिर्भावेन बाह्येन वा योगे इति–बहिर्योगे धर्मे बहिष्ठे धर्मिणि च बहिःशब्दो वर्त्तते / उपसंवीयतेऽनेनेति उपसंव्यानम् / उपसंवीयते यत् तत् उपसंवीयमानम् / तस्मिन्वर्तमानोऽन्तरशब्दः सर्वादिर्भवति / अन्तरस्मै गृहाय इत्यस्यार्थोऽयम्-नगरबाह्याय चण्डालादिगृहाय / अथवा चण्डालादिगृहयुक्ताय नगराभ्यन्तरगृहाय स्पृहयति इत्यर्थः / तथा अन्तरस्मै पटाय इत्यस्यायमर्थः-पटचतुष्टयमध्ये तृतीयाय, चतुर्थाय वा पटाय दृष्टिं ददाति प्रथमद्वितीयपटयो