________________ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिते मध्यमवृत्त्यवचूरिभ्यामलते _____ अकारात्परयोष्टाङसोः स्थाने यथासङ्ग्यं इन स्य इत्यादेशौ भवतः / तेन [जरामतिक्रान्तं यत् कुलं तेन] अतिजरेण। [तस्य] अतिजरस्य / अत इत्येव-अतिजरसा अतिजरसः / अत्र परत्वान्नित्यत्वाच्च प्रागेव जरसादेशे कृतेऽकारान्तत्वाभावः // 5 // ___ अ० जरामतिक्रान्तं यत् / तत् अतिजरः / तेन अतिजरसा / तस्य अतिजरसः / 'जराया जरस् वा' (2 / 1 / 3) इति जरस् आदेशः // 5 // - डेङस्योर्यातौ // 14 // 6 // आत्परयोङस्योर्यथासङ्ख्यं य आत् इत्यादेशौ स्याताम् / देवाय अतिजराय / देवात् अतिजरात् // 6 // सर्वादेः स्मै स्मातौ // 14 // 7 // सर्वादेरकारान्तस्य सम्बन्धिनोडस्योर्यथासङ्ग्यं स्मै स्मादित्यादेशौ भवतः / सर्वस्मै / [परमश्चासौ सर्वश्च] परमसर्वस्मै / सर्वस्मात् / असर्वस्मै [न सर्वोऽसर्वः] / असर्वस्मात् / किंसर्वस्मै [किं कुत्सितः सर्वः] किंसर्वस्मात् // सर्व विश्व उभ उभयट् अन्य अन्यतर इतर डतर डतम त्व त्वत् नेम / सम सिमसर्वार्थौ / पूर्वापरावरंदक्षिणोत्तरापराधराणि व्यवस्थायाम् स्वमज्ञाति धनाख्यायाम् / अन्तरं बहिर्योगोपसंव्यानयोरपुरि / त्यद् तद् यद् अदस् इदम् एतद् एक द्वि युष्मद् भवतु अस्मद् किम् / सर्वेऽपि चामी असंज्ञायां सर्वादिसंज्ञा भवन्तितेनेह न स्यात्सर्वो नाम कश्चित् सर्वाय सर्वात् / सर्वादेरिति षष्ठीनिर्देशेन तत्सम्बन्धिविज्ञानादिहापि न भवति-प्रियाः सर्वे यस्य तस्मै प्रियसर्वाय सर्वानतिक्रान्ताय अतिसर्वाय / प्रियः पूर्वो यस्य तस्मै प्रियपूर्वाय इत्यपि ज्ञातव्यम्। उभयशब्दस्य द्विवचनस्वार्थिकप्रत्ययविषयत्वात् स्मैप्रभृतयो न स्युः, गणपाठस्तु हेत्वर्थप्रयोगे सर्व-विभक्त्यर्थोऽप्रत्ययार्थश्च / उभौ हेतु उभाभ्यां हेतुभ्याम् उभयोर्हेत्वोः उभयट् / अत्र टो ड्यर्थ उभयी दृष्टिः / अन्यस्मै। अन्यतरस्मै / डतरग्रहणेनैव सिद्धेऽन्यतरग्रहणं उतमप्रत्ययान्तान्यशब्दस्य सर्वादित्वनिवृत्त्यर्थम् अन्यतमाय अन्यतमे अन्यतमात् / डतरडतमौ प्रत्ययौ, तयोः स्वार्थिकत्वात् [प्रकृत्यर्थत्वात्] प्रकृतिद्वारेणैव-सिद्धे पृथगुपादानम् [भणनं] अत्र प्रकरणेऽन्यस्वार्थिकप्रत्ययान्तानामग्रहणार्थ अन्यादिलक्षणपदार्थं च [पंचतोऽन्यादे० (1 / 4 / 58) इति सूत्रप्रवृत्तिनिमित्तं च] / कतरस्मै / कतमस्मै / यतरस्मै / यतमस्मै / एकतरस्मै / एकतमस्मै / इत्यादि / इह न भवतिसर्वतमाय। [प्रकृष्टे तमप् (7 / 3 / 5) इति तमप्] / स्वाभिधेयापेक्षे चावधिनियमे व्यवस्थापरपर्याये गम्यमाने पूर्वादयः शब्दाः सर्वनामसंज्ञाः स्युःपूर्वस्मै पूर्वस्मात् इत्यादि / व्यवस्थाया अन्यत्र न स्यात्-दक्षिणाय [प्रवीणाय दक्षाय] गाथकाय देहि / दक्षिणायै [यज्ञादौ द्रव्यदानं दक्षिणा] द्विजाः स्पृहयन्ति। __ आत्मात्मीयज्ञातिधनार्थवृत्तिः स्वशब्द आत्मात्मीययोः सर्वादिः-यत्स्वस्मै रोचते तत्स्वस्मै ददाति / यदात्मने रोचते तदात्मीयाय [सुजनाय सगीनाय] ददातीत्यर्थः / ज्ञातिधनयोस्तु न भवति-स्वाय [ज्ञातयो स्वजातये] दातुं स्वाय स्पृहयति [धनाय द्रव्याय स्पृहां करोति] / बहिर्भावेन बाह्यभावेन वा योगे उपसंव्याने उपसंवीयमाने चार्थेऽन्तरशब्दः सर्वादिः, बहिर्योगऽपि चेत् पुरि न वर्त्ततेअंतरस्मै गृहाय अंतरस्मै पटाय / पुरि तु न स्यात्अंतरायै पुरे क्रुध्यति / बहिर्योगोपसंव्यानादेरन्यत्र न भवतिअयमनयोामयोरन्तरात् [मध्यादित्यर्थः] तापस आयातः / द्वियुष्मद्भवत्वस्मदां स्मैप्रभृतयो न सम्भवन्ति, गणपाठे तु सर्वविभक्त्यादयः प्रयोजनम् / भवतु