________________ श्रीसिद्धहेमशब्दानुशासने द्वितीयाध्यायस्य प्रथमः पादः धुट्प्रत्यये परे पदान्ते च यः संयोगस्तस्य [संयोगस्य] आदौ वर्तमानयोः सकारककारयोर्लुक् स्यात् / लग्नः / लग्नवान् / साधुलक् / साधुमक् / वृषणः / वृक्णवान् / मूलवृट् / [भ्रस्नीत् पाके] भृष्टः / भृष्टवान्। यवभृट् / क् / तष्टः / तष्टवान् / काष्ठतट् / अष्टः / अष्टवान् / तृणाट् / आचष्टे आदाविति किम् ? शङ्केश्व यङ्लुपि शाशति / वावति / स्कोरिति किम् ? ननर्त्ति / कथं मांसं पिपक्षतीति कि / मांसपिपक् / एवं वचो विवक्षते [वाक्ये] वचोविवक् / परस्मिन् लोपे कर्तव्ये कत्वस्यासत्त्वात् [ककारलोपः] न स्यात् // 8 // अ० लग्न इत्यादि / 'ओलजैङ् ओलस्जैति व्रीडे' लस्ज् / लज्जते स्म / लग्नः / लग्नवान् / क्तक्तवतू / 'संयोगस्यादौ०' (2 / 1 / 88) इति संयोगादिसकारलोपः / 'चजः कगम्' (2 / 1 / 86) जस्य गः / ‘सूयत्याद्योदितः' (4 / 2 / 70) इति सूत्रेण प्रत्ययतकारस्य नकारः / साधु अग्रे / 'टुमस्जोंत् शुद्धौ' साधु मज्जतीति साधुमक् / कि / सिलोपः 'संयोगस्यादौ' सलोपः / 'चजः कगम्' 'विरामे वा' (1 / 3 / 51) 'ओव्रश्चौत् छेदने' व्रश्च / वृश्च्यते स्म / क्तः / 'ग्रहवश्व०' (4 / 1 / 84) इति वृत् / 'संयोगस्यादौ०' सकारलोपः / 'सूयत्याद्योदितः' (4 / 2 / 70) तकारस्य नकारः / 'यजसृज०' (2 / 1 / 87) इति चकारस्य षत्वम् / 'क्तादेशोऽपि (2 / 1 / 61) इत्यनेन प्रतिषिध्यते / 'चजः कगम्' इति चस्य कत्वे कर्त्तव्ये तस्य नकारोऽसन् अत कः / ततः णत्वं च / मूलं वृश्चतीति क्विप् / सिलोपे 'संयोगस्यादौ०' सलुक् / 'यजसृज' इति जस्य षः / 'धुटस्तृतीयः' (2 / 1 / 76) ड् / 'विरामे वा' (1 / 3 / 51) / ट्.।। तष्टः इत्यादि / 'तक्षौ त्वक्षौ तनूकरणे' तक्ष्यते स्म / क्तक्तवतू / काष्ठं तक्षतीति विप् / 'संयोगस्यादौ०' कस्य लुक् // . - अष्टः इत्यादि / ‘अक्षौ व्याप्तौ च' अक्ष्यते स्म / तृणानि अक्षति तृणाट् // आचष्टे / 'चक्षिक व्यक्तायां वाचि' चश् / आङ्पूर्वम् / वर्तमानाते / 'संयोगस्यादौ०' कस्य लुक् / / शाशक्ति इत्यादि / 'रेकृङ् शकुड् शङ्कायाम्' शक् / 'वकुङ् कौटिल्ये' वक् / 'उदितः स्वरान्नोऽन्तः' (4 / 4 / 98) / भृशं पुनःपुनर्वा शकते वङ्कते / यङ् / 'सन्यडश्च' (4 / 1 / 3) 'आगुणावन्यादेः' (4 / 1 / 48) 'बहुलं लुप्' (3 / 4 / 14) वर्तमानाते / 'म्नां धुट्वर्गेन्त्योऽपदान्ते' (1 / 3 / 39) नकारस्य ङ / / ननति नृतैच् नर्तने' नृत् / अत्यर्थं नृत्यति / 'व्यञ्जनादेरेकस्वरा०' (3 / 4 / 9) इति यङ् / 'सन्यङश्च' (4 / 1 / 3) इति नृत् इति द्वित्वम् / 'ऋतोऽत्' (4 / 1 / 38) 'बहुलं लुप्' यडो लुप् / 'रिरौच लुपि' (4 / 1 / 56) इति र अन्तः / वर्तमानातिव् / 'नामिनो गुणो०' (4 / 3 / 1) / मांसपिपक् / वचोविवक् / 'डुपचींश् पाके' पच् / 'वचंक भाषणे' वच् / पक्तुमिच्छति / वक्तुमिच्छति / 'तुमर्हादिच्छायां स०' (3 / 4 / 21) इति सन् / 'सन्यङश्च' इति द्वित्वम् / 'सन्यस्य' (4 / 1 / 59) इः / 'चजः कगम्' मांसं पिपक्षतीति / वचो विवक्षतीति। विप् / 'अतः' (4 / 3 / 82) अकारलोपः / मांस पिपश् / वचो विवक्ष् इति शब्दः / अत्र संयोगादिककारस्य लुक् कथं न भवतीत्याह-परस्मिन् लोपेत्यादि / अकारलोपे कर्तव्ये कत्वम् असन् इति कस्य न लोपः / पश्चात् 'पदस्य' (2 / 1 / 98) स्लुप् / मांसपिपक् इत्यादि सिद्धम् // 88 / / पदस्य // 2 / 1 / 89 // पदान्ते वर्तमानस्य पदस्य संयोगान्तस्य लुक् अन्तादेशः स्यात् / स च परे स्यादिविधौ च पूर्वस्मिन्नसन् द्रष्टव्यः / पुमान् / पुम्भ्याम् / पुंवत् // गोमान् / महान् / भूयान् / कुर्वन् इत्यादौ संयोगान्तलोपस्य परे कार्येऽसत्त्वादुत्तरसूत्रेण नलोपो न स्यात् ['नाम्नो नोऽनह्नः' (2 / 1 / 91) इत्यनेन लुप् न भवति / स्यादिविधौ च