________________ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिते मध्यमवृत्त्यवचूरिभ्यामलते कव्येऽसत्त्वादत्त्वादिलक्षणो दीर्घः स्यात् / भवाशेते इत्यादौ तु ['नः शिब्' (1 / 3 / 19)] श्चादेर्विधानसामर्थ्यान्न भवति // 8 // अ० गोमान्, महान्, श्रेयान् इत्यादि, ‘पदस्य' (2 / 1 / 89) इति सूत्रेण संयोगान्तलोपः कृतोऽपि असन ज्ञातव्यः इत्युक्तम् / तेन कारणेन उदाहरणेषु सिः। 'ऋदुदितः' (1 / 4 / 70) इति नोऽन्तः / 'दीर्घड्याब्०' (1 / 4 / 45) सिलोपे 'पदस्य' इति संयोगान्तलोपे ‘अभ्वादे०' (1 / 4 / 90) 'न्स्महतोः' (1 / 4 / 86) इति दीर्घः / इति शब्दसिद्धिः / प्रवाहत इत्थं शब्दसिद्धिः क्रियमाणास्ति / तथाहि / सिः / 'ऋदु०' (1 / 4 / 70) नोऽन्तः / 'अभ्वादे०' (1 / 4 / 90) 'न्स्महतोः' (1 / 4 / 86) दीर्घः / पश्चात् 'पदस्य' इति संयोगान्तलोपः / भूयान् इत्यत्र बहु / अयमनयोर्मध्ये अतिशयेन बहुqयान् / 'गुणाङ्गाद्वेष्ठेयसू' (73 / 9) इति ईयस् प्रत्ययः / 'भू क्चेवर्णस्य' (7 / 4 / 41) इति सूत्रेण बहुशब्दस्य भू आदेशः / ईयस्प्रत्यय ईकारस्य लोपश्च / भूयस्शब्दः / सि / 'ऋदु०' नोऽन्तः / क्वापि 'न्स्महतो' इत्यनेन कापि ‘अभ्वादे०' इत्यनेन दीर्घो भवति / / 8 / / रात्सः // 2 / 1190 // ___ पदान्ते वर्तमानस्य संयोगसम्बन्धिनो रेफात्परस्य सकारस्यैव लुक् स्यात् / चिकीः। कटचिकीः। जिहीः / पटजिहीः / पूर्वेणैव ('पदस्य' इत्यनेन) सिद्धे नियमार्थं वचनम् / तेन रेफात्परस्य सस्यैव लोपो नान्यस्य [वर्णस्य] ऊर्छ / ऊग्भ्या॑म् // 10 // अ० चिकीः / कृ / कर्तुमिच्छति / 'तुमर्हादिच्छायाम्०' (3 / 4 / 21) सन् / 'स्वरहनगमोः सनि धुटि' (4 / 1 / 104) इति दीर्घः / 'ऋतां क्डितीर्' (4 / 4 / 116) इर् / 'भ्वादेर्नामिनो' (2 / 1 / 63) दीर्घ इर् / 'सन्यडश्च' (4 / 1 / 3) कीर् इति द्वित्वम् / 'व्यञ्जनस्यानादेर्लुक्' (4 / 1 / 44) / ह्रस्वः / 'कडश्चञ्' (4 / 1 / 46) चिकीर्षतीति क्विप् / 'अतः' (4 / 3 / 82) इति सूत्रेण अकारलोपः / 'नाम्यन्तस्था०' (2 / 3 / 15) इति. सस्य षकारः / एवं कटचिकीः / जिहीः / पटजिहीः / नवरं कटं चिकीर्षतीति / पटं जिहीर्षतीति वाक्यं कार्यम् / अत्र अकारलोपे कर्तव्ये सकारस्य षत्वं असत् स्यात् / असत्त्वात् सकारस्यैव लोपः / / उक् / 'ऊर्जण् बलप्राणनयोः' णिच् / ऊर्जयतति ऊर्छ / 'दिद्युद्ददृज्जगजुहूवाक्प्राट्वीश्रीदूंज्वायतस्तूकटपूपरिवाभ्राजादयः किप्' (5 / 2 / 83) इति सूत्रेण भ्राजादित्वात् क्विप् / ऊर्जनं ऊर्ध्व इति वा / सम्पदादित्वात्विप् ('क्रुत्सम्पदादिभ्यः क्विप्' (5 / 3 / 114) / / 9 / / नाम्नो नोऽनह्नः // 2 / 1 / 91 // पदान्ते नाम्नो नकारस्य लुक् स्यात् / अनह्नः। स [नकारः] चेदहन् शब्दसम्बन्धी न भवति / स [नकारलोपः] चाऽसन् स्यादिविधौ / पर इति निवृत्तम् / राजा / दण्डी [राज्ञः पुरुषः] राजपुरुषः / [राजानमिच्छति 'द्वितीयायाः काम्यः' (3 / 4 / 22)] राजकाम्यति / स्यादिविधावसत्त्वात् राजभ्याम् राजभिः राजसु इत्यादौ दीर्घत्व-ऐस्त्वएत्वानि अकारान्तत्वाभावान भवन्ति / अनह्न इति किम् ? अहरेति / अहरधीते / अहोरूपम् / अत्र परविधौ रेफरुत्वयोरसत्त्वानलोपः स्यात् [होयत] स्यादिविधावित्येव / राजायते / अत्र क्यविधौ सत्त्वात् 'दीर्घचियङ्यक्क्येषु च' (4 / 3 / 108) इति क्येऽन्त्याकारस्य दीर्घः सिद्धः / नामन्त किम् ? अहन् शत्रुम् / वृक्षान् / सर्वस्मिन् // 11 // अ० नकारलोपस्य असत्त्वफलं दर्शयति-स्यादिविधावित्यादि / राजभ्याम्-अत्र ‘अत आः स्यादौ०' (1 / 4 / 1)