________________ श्रीसिद्धहेमशब्दानुशासने द्वितीयाध्यायस्य प्रथमः पादः 95 इति दीर्घः / राजभिः-अत्र 'भिस एस्' (1 / 4 / 2) / राजसु अत्र 'एद्हु०' (1 / 4 / 4) इत्येत्वम् / एतानि न भवन्तीत्यर्थः / अहन् / प्रथमासिः / 'अनतो लुप्' (1 / 4 / 59) / अहन् द्वितीयाऽम् 'अनतो लुप्' / उभयत्र ‘रो लुप्यरि' (2 / 1 / 75) इति सूत्रेण रकारो नकारस्य / अहरेति / अहरधीते इति सिद्धम् / अहोरूपम्-अह्रो रूपं अहोरूपम् / ‘अह्नः' (2 / 1 / 74) इति सूत्रेण नकारस्य रु इत्यादेशः / 'घोषवति' (1 / 3 / 21) रुस्थाने उकारः / अनह्र इति किम् इत्यादि / अत्र परविधौ इत्यन्तं यावदक्षराणां अयमर्थः-अहन् / नकारलोपवर्जनं किमर्थं कृतमिति व्यावृत्तेरर्थः / यदि च अहन्शब्दस्यापि नकारलोपं कुर्यात् तदा ‘रो लुप्यरि' (2 / 1 / 75) 'अह्र' (2 / 1 / 74) इति रत्वरुत्वयोः कृतयोरसत्त्वात् परविधौ नकारलोपे कर्तव्ये 'नाम्नो नोऽनह' (2 / 1 / 91) इति सूत्रेण नकारलोपः प्राप्नुयात् / नलोपे सति अहरेति अहोरूपमिति न सिद्धयति / अनिष्टं रूपं स्यात् इति 'नाम्नो नोऽनह्न' इति सूत्रे अहन्वर्जनं कृतमित्यर्थः / स्यादिविधावित्येवेत्यादि / स्यादिविधौ कर्तव्ये एव सति नकारलोपो असन् भवति / परं राजायते / अत्र क्यप्रत्ययविधानं न स्यादिविधिविषयं इति हेतोः क्यप्रत्यये नलोपः कृतः कृत एव द्रष्टव्यः (सत्त्वाद् अस्यार्थः) / इति 'दीर्घश्च्वियङ्' (4 / 3 / 108) इत्यादिना अन्त्य अकारस्य दीर्घः प्राप्त इत्यर्थः / / अहन् / हन् / ह्यस्तनीदिव् / अडागमः / 'व्यञ्जनादेः सश्च दः' (4 / 3 / 78) इति दिलोपः // 11 // नामव्ये // 2 / 1192 // आमन्त्र्यार्थस्य नाम्नः सम्बन्धिनो नस्य लुग् न स्यात् / हे राजन् // 92 // .. क्ली वा // 2 / 193 // आमन्त्र्यविषयस्य नाम्नः क्लीबे नपुंसकलिङ्गे वर्तमानस्य नस्य वा लुग् / हे चर्म / हे चर्मन् // 13 // मावर्णान्तोपान्तापश्चमवर्गान् मतोर्मो वः // 2 / 1194 // मकारान्तात् मकारान्तोपान्ताच्च अवर्णान्तात् अवर्णोपान्ताच्च पञ्चमरहितवर्गान्ताच्च नाम्नः परस्य मतोमकारस्य वकारादेशः स्यात् / मकारान्तात् / किंवान् / [शं सुखमस्यास्तीति] शंवान् / मकारोपान्तात् / शमीवान् / लक्ष्मीवान् / अवर्णान्तात् / वृक्षवान् / मालावान् / अवर्णोपान्तात् / अहर्वान् [रो लुप्परि' (2 / 1 / 75) रकारः] / भास्वान् / अपञ्चमवर्गान्तात् / मरुत्वान् / विद्युत्वान् // 94 // अ० मश्च अवर्णश्च मावर्णौ / मावी प्रत्येकं अन्तोपान्तौ यस्य नाम्नः शब्दस्य स मावर्णान्तोपान्तः / न विद्यते पञ्चमो ङ ञ ण न म इति यस्य स चासौ वर्गश्च अपञ्चमवर्गः / तस्मात् / / किंवान् इत्यादौ सर्वत्र सिः / 'ऋदुदितः' (1 / 4 / 70) इति नोऽन्तः / ‘नि दीर्घः' (1 / 4 / 85) क्वापि 'न्स्महतोः' (1 / 4 / 86) इति सूत्रेण दीर्घः / पश्चात् 'पदस्य' (2 / 1 / 89) इति सूत्रेण संयोगान्तलोपः कार्यः सिलोपे कृते सति // 94 // नाम्नि // 2 // 1195 // नाम्नि संज्ञायां विषये मतोर्मस्य व आदेशः स्यात् / ['नद्यां मतुः' (6 / 2 / 72) इति मतुप्रत्ययः] अहीवती / मणीवती / मुनीवती / ऋषीवती / एवंनामानो नद्यः // 9 // अ० अहीवती / अहयः सन्त्यस्याम् 1 / अहीनामदूरभवा 2 / अहीनां निवासः 3 / अहीभिर्निर्वृत्ता 4 / इति चतुरर्थेषु 'नद्यां मतुः' इति मतुः / एवं मणयः मुनयः ऋषयः सन्त्यस्याम् 1 / मणीनां मुनीनां ऋषीणाम् अदूरभवा 2 / मणीनां मुनीनां ऋषीणां निवासः 3 / मणिभिः मुनिभिः ऋषिभिः निर्वृत्ता 4 / 'नद्यां मतुः' सर्वत्र / 'अनजिरादि