________________ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिते मध्यमवृत्त्यवत्रिभ्यामलङ्कृते बहुस्वरशरादीनां मतौ' (3 / 2 / 78) इति सूत्रेण दीर्घः / 'अधातूददितः' (2 / 4 / 2) इति डीः / 'नाम्नि' (2 / 1 / 95) इति मतोर्मकारस्य वकारः क्रियते // 95 / / चर्मण्वत्यष्ठीवच्चक्रीवत्कक्षीवद्रुमण्वत् // 2 / 1196 // ___एते शब्दा मत्वन्ता नाम्नि [संज्ञाविषये] निपात्यन्ते / चर्मण्वती नाम नदी / अष्ठीवान् जबोरुसन्धिर्जानुः / चक्रीवान् खरः / चक्रीवानाम राजा वा / कक्षीवानाम ऋषिः / रुमण्वानाम गिरिः // 16 // ___ अ० चर्मण्वती च अष्ठीवांश्च चक्रीवांश्च कक्षीवांश्च रुमण्वांश्च / चर्माण्यस्यास्तीति मतुः / अत्र चर्मन्शब्दस्य नलोपाभावो णत्वं च निपात्यते / अस्थिशब्दस्य अष्ठी इति निपात्यते, चक्रशब्दस्य चक्री इति निपात्यते / कक्षे भवा कक्ष्या 'दिगादिदेहांशाद् यः' (6 / 3 / 124) इति यः / कक्षाय हिता वा कक्ष्या 'तस्मै हिते' (7/1 / 35) यः कुक्षे साधुर्वा कक्ष्या / 'तत्र साधौ' (7 / 1 / 15) इति यः / कक्ष्याशब्दस्य कक्षी इति निपात्यते / लुनाति वैरस्यं इति लवणम् / 'नन्द्यादिभ्योऽनः' (5 / 1 / 52) इति अनः / अत एव गणपाठाण्णत्वम् / लवणस्य रुमण् इति निपात्यते मूलसूत्रेण // 16 // उदन्वानब्धौ च // 2 // 1197 // अन्धौ जलाधारे नाम्नि च / उदन्वान् इत्युदकशब्दस्य मतौ निपात्यते / उदन्वान् घटो मेघश्च / नाम्निउदन्वान् समुद्रः ऋषिविशेषश्च आश्रमो वा // 9 // अ० धा / आपो धीयन्तेऽस्मिन्स्थानके इति अब्धिः / जलाधारं घटादिस्थानकम् / 'व्याप्यादाधारे' (5 / 3 / 88) , इति किः / 'इडेत् पुसि चातो लुक्' (4 / 3 / 94) 'धुटस्तृतीयः' (2 / 176) पस्य ब् / अब्धिः // 97|| राजन्वान्सुराज्ञि // 2 // 1198 // सुराजाभिधेये मतौ राजन्वान् इति निपात्यते / राजन्वान् देशः। राजन्वती पृथ्वी / राजन्वत्यः प्रजाः। सुराज्ञाति किम् ? राजवान् देशः // 98 // अ० राजा विद्यते अस्य / राजा विद्यते अस्या वा / 'अधातूदृदितः' (2 / 4 / 2) ङी // 98 // नोादिभ्यः // 2 // 199 // ऊर्मि इत्यादिनामभ्यः परस्य मतोर्मस्य वो न भवति / ऊर्मिमान् / भूमिमान् / इत्यादि / यवमान् / क्रुश्चामान् / द्राक्षामान् इत्यादि / हरित्मान् / गरुत्मान् [गरुडः] इत्यादि / ज्योतिष्मती / गोमती / कान्तिमती / बन्धुमती / मधुमती। बिन्दुमती / इन्दुमती / भानुमती / हनूमान् ['अनजिरादि०' (3 / 2 / 78) दीर्घः] इत्यादि // 99 // ___ अ० अादिभ्योऽत्र यद्बहुवचनं सेयं शैली आचार्यस्य / कोऽभिप्रायः ? यत्र बहुवचनमाकृतिगणार्थमित्यक्षराणि आचार्यो निर्दिशति तत्र इदं ज्ञातव्यम् / प्रयोगगम्यो गणोऽयम् / यत्र शब्दानां नैयत्यमेव गणविषये तत्राचार्य एक. वचनमेव निर्दिशति / यथा 'सर्वादः स्मै स्मातौ' (1 / 4 / 7) 'स्त्रियां नृतोऽस्वस्रादेर्डी' (2 / 4 / 1) इत्यादि / ऊर्मिमान / दल्मिमान् (इन्द्र) / भूमिमान् / तिमिमान् / कृमिमान् / एभ्यो मोपान्त्यत्वान्मतोर्मकारस्य वत्वे प्राप्ते / यवमान् / क्रुश्चामान् / द्राक्षामान् / ध्रांक्षामान् / ध्रांक्षा द्राक्षाविशेषः / वासामान् / एभ्योऽवर्णान्तत्वान्मतोर्वत्वे प्राप्ते / हरित्मान् / गरुत्मान् / गरुत् पिच्छम् / ध्वजित्मान् / ककुद्मान् / ककुद् विद्यतेऽस्य / मत् / अादिगणे