SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमशब्दानुशासने द्वितीयाध्यायस्य प्रथमः पादः द्विदकारपाठात् 'प्रत्यये च' (1 / 3 / 2) इति नानुनासिकः / हरित् / इत्यादिभ्योऽपञ्चमवर्गादिति प्राप्ते / ज्योतिष्मती / महिष्मान् / गोमती / कान्तिमती / हरिमती / चारुमती / इक्षुमती / बन्धुमती / मधुमती / बिन्दुमती। इन्दुमती / द्रुमती / वसुमती / अंशुमती / श्रुमती / हनूमान् / हनुरस्यास्ति / मत् / 'अनजिरादि०' (3 / 2 / 78) दीर्घः / सानुमती / भानुमती / एभ्यो ‘नाम्नीति' (2 / 1 / 95) प्राप्ते अयं प्रतिषेधः / ऊर्मि / दल्मि भूमि तिमि कृमि यव क्रुश्चा द्राक्षा ध्रांक्षा वासा हरित् गरुत् ध्वजित् ककुद् ज्योतिस् महिष गो कान्ति शिम्बी हरि (?) चारु इक्षु बन्धु मधु बिन्दु इन्दु द्रु वसु अंशु श्रु हनु सानु भानु इत्यादिगणः / ऊर्यादिभ्योऽत्र बहुवचनं आकृतिगणार्थम् / तेन यस्य शब्दस्य सति निमित्ते मतोर्वत्वं न दृश्यते स सर्वोऽपि शब्द ऊर्यादिगणे द्रष्टव्यः // 99 / / . मासनिशासनस्य शसादौ लुग्वा // 2 // 1 // 10 // एषां शसादौ परे लुगन्तादेशो वा स्यात् / [शस्] मासः / मासान् / [सप्तमीडि] मासि / मासे / [शस्] निशः / निशाः / [सप्तमीडि] निशि / निशायाम् // निज्भ्याम् / निशाभ्याम् / निच्छु / निशासु / आसनि। आसने // 10 // . ____ अ० निशाभ्याम् / 'मासनिशा' (2 / 1 / 100) इति निश् आदेश) / 'धुटस्तृतीयः' (2 / 1 / 76) इति शकारस्य ज् / अत्र जकारो असन्परे गत्वे कर्तव्ये 'चजः कगम्' (2 / 1186) इति जकारस्य गत्वं न भवति / निच्छु / निशा सुप् / 'मास'. (2 / 1 / 100) इति निश् आदेशः / 'धुटस्तृ०' ज / 'अघोषे प्रथमो०' (1 / 3 / 50) जस्य च् / 'सस्य शषौ' (1 / 3 / 61) सुप्सकारस्य तालव्यशः / 'प्रथमादधुटि शश्छः' (1 / 3 / 4) इति शस्य छत्वम् / निच्छु इति सिद्धम् // 10 // दन्तपादनासिकाहृदयासृग्यूषोदकदोर्यकृच्छकृतो दत्पन्नस्हृदसन्यूषन्नुदन्दोषन्य कञ्शकन् वा // 2 / 1 / 101 // दन्तादीनां शसादौ परे यथासङ्ग्यं दत् पद् इत्याद्यादेशा वा स्युः / दन्त, [शस्] दतः दन्तान् / दता। दन्तेन / दत्सु / दन्तेषु / पाद् [शस्] पदः / पादान् / पदा / पादेन / पत्सु / पादेषु / [नासिकाशब्दः] नसा / नासिकया / हृदि / हृदये / [असृजशब्दस्य असन्] अस्ना / असृजा / [यूषस्य यूषन्] यूष्णा / यूषेण / उदक, / [उदन् ] उद्गा / उदकेन / दोष, [दोषन् आदेशः] दोष्णा / दोषा / [यकृत्शब्दस्य यकन्] यक्ना / यकृता। [शकृत्शब्दस्य शकन् आदेशः] / शक्ना / शकृता // 101 // . अ० अस्ना / यूष्णा उद्गा / दोष्णा / यक्ना / शक्ना / एषु आदेशानन्तरं 'अनोऽस्य' (2 / 1 / 108) इति सूत्रेण अनोऽकारलोपः कार्यः // 101 / / ___यस्वरे पादः पदणिक्यघुटि // 2 // 1102 // पादन्तस्य नाम्नः पद् इत्यादेशः स्यात् णिक्यघुड्वर्जिते यकारादौ स्वरादौ च प्रत्यये परे / व्याघ्रस्येव पादावस्य व्याघ्रपाद् / वैयाघ्रपद्यः / द्विपदः पश्य / [तृतीयाटा] द्विपदा / त्रिपदी गाथा / व्याघ्रपदी स्त्री कुले वा। द्विपदिकां ददाति / द्विपदे हितं द्विपदीयम् / ['तस्मै हिते' (7 / 1 / 35) ईयः] / पादमाचष्टे पद्यमानं प्रयुङ्क्ते वेति पादयते / किपि पाद् / पदः पश्य / पदा / पदे / पदी कुले / अणिक्यघुटीति किम् ? पादमाचष्टे पादयति / क्येति क्यन्क्यङोर्ग्रहणम् / व्याघ्रपाद्यति / व्याघ्रपाद्यते / द्विपादौ / द्विपादः // 102 //
SR No.004401
Book TitleMadhyam vrutti vachuribhyamlankrut Siddhahemshabdanushasan Part 01
Original Sutra AuthorN/A
AuthorKshamabhadrasuri, Ratnajyotvijay
PublisherRanjanvijayji Jain Pustakalay
Publication Year
Total Pages310
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy